________________
हितीयः प्रकाशः।
२४५
.
विबुडस्तु स नापश्यत्स्यन्दने मन्विनन्दनम् । पयसे किं गतः स्यादित्यसकगाजहार तम् ॥ ४॥ . सोऽलब्धप्रतिवाग् दृष्ट्वा रथाग्रं रक्तपशिलम् । विलपन् हा हतोऽस्मीति मूर्छितो न्यपतद्र्थे ॥ ५० ॥ . उत्थितो लब्धसंज्ञः सन् हाहा वरधनो सखे । कासीति लोकवत् क्रन्दन् रत्नवत्येत्यबोधि सः ॥ ५१ ॥ विपनो ज्ञायते नैव स तावद्भवतः सखा। ... तस्य वाचाप्यमाङ्गल्यं नाथ कत्तुं न. युज्यते ॥ ५२ ॥ त्वत्कार्याय गतः क्वापि स भविष्थत्यसंशयम् । . यान्ति नाथमपृष्ट्वापि नाथकार्याय मन्त्रिण: ॥ ५३ ॥ स तवोपरि भत्त्यैव रक्षितो नूनमेष्यति। स्वामिभक्तिप्रभावो हि भृत्यानां कवचायते ॥ ५४ ॥ स्थान प्राप्ताः करिथामो नरैस्तस्य गवेषणम् । युज्यते नेह तु स्थातुमन्तकोपवने वने ॥ ५५ ॥ तहाचा सोऽनुदद्र्थ्यान् प्रपेदे मगधक्षितः । सोमग्रामं दविष्ठं हि वाजिनां मरुतां च किम् ॥ ५६ ॥ . ग्रामेशेन सदःस्थेन दृष्ट्वा निन्ये स्ववेश्म सः । पजाता अपि पूज्यन्ते महान्तो मूर्त्तिदर्शनात् ॥ ५७ ॥ शोकाक्रान्त इवासोति पृष्टो ग्रामाधिपेन सः । इत्यूचे मत्सखा चौरैयुध्यमानो गतः क्वचित् ॥ ५८ ॥ तस्य प्रवृत्तिमानथे सौताया इव मारुतिः । इत्याना ग्रामणीः सवीं तां जगाहे महाटवीम् ॥ ५० ॥