________________
२४४
योगशास्त्रे तथेति प्रतिपद्यास्या अनुरागमिवालधुम् । सोऽधितष्ठौ रथं तां च गन्तव्यं कति पृष्टवान् ॥ ३८ ॥ मत्यूचे मगधपुरे मत्पिव्यो धनावहः। अस्ति श्रेष्ठयावयोर्बह्रीं प्रतिपत्तिं स दास्यति ॥ ३८ ॥ तदितस्तत्र गन्तव्यमिति रत्नवतीगिरा। ब्रह्मसूर्मन्त्रिपुत्रेण मूतेनाखाननोदयत् ॥ ४० ॥ . कौशाम्बीदेशमुखवय क्षणेन ब्रह्मनन्दनः । क्रीडास्थानं यमस्येव प्राप भौमां महाटवीम् ॥ ४१ ॥ सुकण्टकः कण्टकश्च तत्र चौरचमूपती। ब्रह्मदत्तं रुरुधतुः खानाविव महाकिरिम् ॥ ४२ ॥ ससैन्यौ युगपत् कालरात्रिपुत्राविवोत्कटौ। शरैर्नभो मण्डपवच्छादयामासतुश्च तौ ॥ ४३ ॥ .. पात्तधन्वा कुमारोऽपि गर्जेचौरवरूथिनीम् । निषिधेषुभिर्धारासारैर्दवमिवाम्बुदः ॥ ४४ ॥ कुमार वर्षति शरान् ससैन्यौ तौ प्रणेशतः। . हन्त प्रहारिणि हरौ हरिणानां कुतः स्थितिः ॥ ४५ ॥ कुमारं मन्त्रिसूरेवमूचे श्रान्तोऽसि सङ्गरात् । मुहत्तं स्वपिहि स्वामिंस्तदिहेव रथे स्थित: ॥ ४६ ॥ स्यन्दने ब्रह्मदत्तोऽपि रत्नवत्या समन्वितः । सुष्वाप गिरिनितम्बे करिण्येव करी युवा ॥ ४७ ॥ विभातायां विभावयां प्राप्यैकामथ निम्नगाम्। . तस्थुः श्रान्तास्तुरङ्गाश्च कुमारश्च व्यबुध्यत ॥ ४८ ॥