________________
२४३
हितीयः प्रकोशः राजादेशेनकौशाम्बयां प्रवृत्तेऽन्वेषणे सयोः। सागसे भूगृहे शिवा तौ जुगोप विधानवत् ॥ २७ ॥ निशि तौ निर्यियासन्ती रथमारोप्य सागरः । कियन्तमपि पन्यानं निनाय ववले ततः ॥ २८ ॥ तौ गच्छन्तौ पुरो मारीमुद्याने समपश्यताम् । अस्त्रपूर्णरथारूढाममरीमिव नन्दने ॥ २८ ॥ लग्ना किमियती वेला युबयोरिति सादरम् । तयोक्तो तौ बभाषाते. कावावां वैलि वा कथम् ॥ ३० ॥ अथाभाषत सा पुामस्यां श्रेष्ठी महाधनः । धनप्रवर इत्यासौड़नदस्येव सोदरः ॥ ३१ ॥ वेष्ठिश्रेष्ठस्य तस्याहमष्टानां तनुजन्मनाम् । उपरिष्टादिवेकी(गुणानामिवाभवम् ॥ ३२ ॥ उद्यौवनास्मिनुद्याने यक्षमाराधयं बहु । अत्युत्तमवरप्रात्यै स्त्रीणां नाऽन्यो मनोरथः ॥ ३३ ॥ तुष्टो भक्त्यैष मे यक्ष: वरो वरमिदं ददौ । ब्रह्मदत्तश्चक्रवर्ती तव भर्ता भविष्यति ॥ ३४ ॥ सागरबुद्धिलश्रेष्ठिकुक्कुटाजौ य एष्यति । श्रीवत्सी ससखा तुल्यरूपो ज्ञेयः स तु त्वया ॥ ३५ ॥ मदायतनवर्त्तिन्या: प्रथमस्ते भविष्यति । मेलको ब्रह्मदत्तेन तज्जाने सोऽसि सुन्दर ॥ ३६ ॥ एोहि तन्मां विरहदहनाती चिरादिह । विध्यापय पयःपूरेणेव सङ्गेन सम्पति ॥ २० ॥