SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २४२ योगशास्त्रे नचाख्यातुं समारंभे मन्त्रिसूर्ब्रह्मसूनवे। प्रतिलेखं हारबद्धलेखस्येयमयाचत ॥ १८ ॥ श्रीब्रह्मदत्तनामाङ्को लेखोऽयं प्रथयख तत् । को ब्रह्मदत्त इति सा मया पृष्टेदमब्रवीत् ॥ १८ ॥ अस्ति श्रेष्ठिसुता रत्नवती नामेह पत्तने । रूपान्तरण कन्यात्वं प्रपन्नेव रतिर्भुवि ॥ २० ॥ भ्रातुः सागरदत्तस्य बुडिलस्य च तहिने। . कुक्कुटायोधनेऽपश्यद्ब्रह्मदत्तमिमं हि सा ॥ २१ ॥ ततःप्रभृति ताम्यन्तौ कामात सा न शाम्यति । . शरणं ब्रह्मदत्तो मे स एवेत्याह चानिशम् ॥ २२ ॥ खयं लिखित्वा चान्येचुर्लेखं हारेण संयुतम् । अर्ग्यतां ब्रह्मदत्तस्येत्युदिला सा ममार्पयत् ॥ २३ ॥ दासहस्ते मया लेख: प्रेषीत्युत्बा स्थिता सती। मयापि प्रतिलेखं तेऽर्पयित्वा सा व्यसृज्यत ॥ २४ ॥ दुर्वारमारसन्तापः कुमारोऽपि ततो दिनात् । . 'मध्याह्नार्ककरोत्तमः करीव न सुखं स्थितः ॥ २५ ॥ कौशाम्बीखामिनोऽन्येार्दोघेण प्रहिता नराः । नष्टशल्यवदङ्गे तो तत्रान्वेष्टुं समाययुः ॥ २६ ॥ (१) ड मध्याह्नार्क करैस्तप्तः ।'.
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy