________________
द्वितीयः प्रकाशः ।
ततो वरधनुः स्माह कथं जात्योऽपि कुक्कुट : 1 भग्नस्ते सागरानेन पश्याम्येनं यदीच्छसि ॥ ७ ॥ सागराऽनुज्ञया सोऽप्यपश्यत् बुडिलकुक्कुटम् । तत्पादयोरयःसूचीर्यमदूतौरिवैचत ॥ ८ ॥ लक्षयन् बुद्दिलोऽप्यस्य लतार्द्धं छन्न्रमिष्टवान् । सोऽव्याख्यत्तं व्यतिकरं कुमारस्य जनान्तिके ॥ ८ ॥ ब्रह्मदत्तोऽप्ययःसूचोः कृष्ट्वा बुडिलकुकुटम् । भूयोऽपि सागर श्रेष्ठकुक्कुटेनाभ्ययोजयत् ॥ १० ॥ असूचिकः कुक्कुटेन तेन बुडिलकुक्कुटः । क्षणादभञ्जि निब्बानां छद्म बाह्यं कुतो जयः ॥ ११ ॥ हृष्टः सागरदत्तस्तावारोप्य स्यन्दनं स्वकम् । जयदाने कसुहृदो निनाय निलये निजे ॥ १२ ॥ स्वधामनीव ताम्नि तयोर्निवसतोरथ । किमप्याख्यद्दरधनोरेत्य बुद्धिलकिङ्करः ॥ १३ ॥ तस्मिन् गते वरधनुः कुमारमिदमभ्यधात् । बहुद्दिलेन लताईं दित्सितं मेऽद्य पश्य तत् ॥ १४ ॥ सोऽदर्शयत्ततो हारं निर्मलस्थलवर्त्तुलेः ।
कुर्वाणं मौक्तिकैः शुक्रमण्डलस्य विडम्बनाम् ॥ १५ ॥ हारे बहं स्वनामाङ्कं ब्रह्मसूर्लेखमेक्षत । आगाश्च वाचिकमिव मूर्त्तं वत्साख्यतापसी ॥ १६ ॥ अक्षतानि तयोर्मूईि चिम्राशीर्वादपूर्वकम् ।
ન
नोत्वान्यतो वरधनुं किञ्चिदाख्याय सा ययौ ॥ १७ ॥
३१
२४१