________________
२४०
योगशास्त्रे गते तस्मिन्नहं मातुरपरां गुटिकामदाम् । निद्राच्छेद इवोजृम्भा सोदस्थाज्जातचेतना ॥ ८७ ॥ खं ज्ञापयित्वा रुदती निवार्य स्म नयामि ताम् । कच्छग्रामे रहे तातसुहृदो देवशम्मणः ॥ ८ ॥ इतस्ततो भ्रमन्नेषोऽन्वेषयंस्त्वामिहागमम् । दिल्या दृष्टोऽधुना साक्षात्पुण्यराशिरिवासि मे ॥ १८ ॥ ततः परं कथं नाथ प्रस्थितोऽसि स्थितोऽसि च । तेनेति पृष्टः स्खं वृत्तं कुमारोऽपि न्यवेदयत् ॥ ३०० ॥ अथ कोऽप्येत्य तावूचे ग्रामे दीर्घभटाः पटम् । युभत्तुल्यचिरूपाझं दर्शयन्तो वदन्त्यदः ॥ १ ॥ ईग्नरौ किमायातावरेत्याकर्ण्य गां मया । दृष्टाविह युवां यहां 'रुचितं कुरु तं हि तत् ॥ २॥ ततस्तस्मिन् गतेऽरण्यमध्येन कलभाविव । पलायमानौ कौशाम्बौं प्रापतुस्तौ पुरौं क्रमात् ॥ ३ ॥ तत्र सागरदत्तस्य श्रेष्ठिनो बुद्दिलस्य च।। उद्यानेऽपश्यतां लक्षपणं तो कुक्कुटाहवम् ॥ ४ ॥ उत्पत्योत्पत्य नखरैः प्राणाकर्षाटैरिव । युयुधाते ताम्रचूडौ चञ्चाचञ्चविवोच्चकैः ॥ ५ ॥ तत्र सागरदत्तस्य जात्यं शक्तं च कुक्कुटम् । भद्रेभमिव मिश्वेभोऽभाङ्क्षोडुद्धिलकुक्कुटः ॥ ६ ॥
(१) क छ रुचिरं।