________________
हितीयः प्रकाशः ।
२३८ गण्डोपरिष्टापिटकेनेवा” वार्तया तया । दुःखोपयुद्धवदुःखः काम्पोल्यं गतवानहम् ॥ ८६ ॥ छद्मकापालिकोभूय तत्र मातङ्गपाटके । वेश्म वेश्मानुप्रवेशमस्थां शश इवानिशम् ॥ ८७॥ पृच्छामानश्च लोकेन तत्र भ्रमणकारणम् । अवोचमिति मातङ्गया विद्यायाः कल्प एष मे ॥ ८८ ॥ तत्रैवं भ्राम्यता मैत्री मया विखासभाजनम् । अजायतारक्षक स्य मायया किं न साध्यते ॥ ८८ ॥ अन्येद्युस्तन्मुखेनाम्बामवोचं यत्करोत्यसौ। त्वत्पुत्रमित्रकौण्डिन्यो महाव्रत्यभिवादनम् ॥ ८ ॥ हितीयेऽङ्गि स्वयं गत्वा जनन्या बोजपूरकम् । प्रदां सगुटिकं जग्धेनासंज्ञा तेन साऽभवत् ॥ ११ ॥ मृतेति तां पुराध्यक्षो गत्वा राजे व्यजिज्ञपत् । राज्ञादिष्टाः स्वपुरुषास्तस्याः संस्कारहेतवे ॥ २ ॥ तत्रायाता मयोक्तास्ते संस्कारोऽस्याः क्षणेऽत्र चेत् । महाननर्थो वो राजश्चेति जग्मुः स्खधाम ते ॥ १३ ॥ पारक्षं चावदं त्वं चेत् सहायः साधयाम्यहम् । सर्वलक्षणभाजोऽस्था मन्त्रमेकं शबन तत् ॥ ८४ ॥ पारक्ष: प्रतिपदे तत्तेनैव सहितस्ततः । सायमादाय जननों श्मशानेगां दवोयसि ॥ ५ ॥ स्थण्डिले मण्डलादीनि मया निर्माय मायया। पूर्देवौनां बलिं दातुमारक्ष: प्रेषितस्ततः ॥ ८६ ॥