________________
३८
योगशास्त्रे
तस्करैरिव निःशङ्ख ताद्यमानोऽथ तैरहम् । इत्यवोचं यथाब्रह्मदत्तो व्याघ्रण भक्षितः ॥ ७५ ॥ तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वद्दर्शनपथेऽभ्ये त्याकार्ष संज्ञां पलायने ॥ ७६ ॥ परिवाड्दत्तगुटिकां मुखेऽहं क्षिप्तवांस्ततः । तत्प्रभावेन नि:संज्ञो मृत इत्युज्झितोऽस्मि तैः ॥ ७७ ॥ चिरं गतेषु तेष्वास्यादाक्कथ गुटिकामहम् । त्वां नष्टार्थमिवान्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ॥ ७८ ॥ तत्रैककोऽपि ददृशे परिव्राजकपुङ्गवः । साक्षादिव तपोराशिनमश्चक्रे मया ततः ॥ ७ ॥ सोऽवदन् मां वरधनो मित्रमस्मि धनोरहम् । वसुभागो महाभागो ब्रह्मदत्तः क वर्त्तते ॥ ८ ॥ आचचक्षे मयाप्यस्य विश्वं विश्वस्य सूनृतम् । स च मे दुष्कथाधूमानास्यः पुनरभ्यधात् ॥ ८१ ॥ तदा जतुम्हे दग्धे दीर्घः प्रातरुदैक्षत । करङ्गमेकं निर्दग्धं करङ्कत्रितयं न हि ॥ ८२ ॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽखपदानि च । धनोर्बुड्या प्रनष्टौ वां ज्ञात्वा तस्मै चुकोप सः ॥ ८३ ॥ बडा युवां समानतुं प्रत्याशं साधनामि सः । अस्वलगमनान्यर्कमहांसीवादिदेश च ॥ ८४ ॥ पलायितो धनुमन्त्री जनयित्री तु सा तव । दीर्घेण नरक इव क्षिप्ता मातङ्गपाटके ॥ ८५ ॥