________________
हितीयः प्रकाशः ।
२३७ स मामुद्यौवनामूचे सर्वे मे हेषिणो नृपाः । बयेह स्थितया वीक्ष्य शंस्यो यस्ते मतो वरः ॥ ६५ ॥ तस्थुषी चक्रवाकीव सरस्तोरे निरन्तरम् । ततःप्रभृति पश्यामि सर्वानेकैकशोऽध्वगान् ॥ ६६ ॥ मनोरथानामगतिः खप्नेऽप्यत्यन्तदुर्लभः । प्रार्यपुत्रागतोऽसि त्वं मद्भाग्योपचयादिह ॥ ६७ ॥ स पल्लोपतिरन्येद्युमघातकृते ययौ। कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसौ ॥ ६८ ॥ लुण्यमाने ततो ग्राम कुमारस्य सरस्तटे । पादाजयोवरधनुरेत्य हंस इवापतत् ॥ ६८ ॥ कुमारकण्ठमालम्बा मुक्तकण्ठं रुरोद च'। नवीभवन्ति दुःखानि सञ्जाते होष्टदर्शने ॥ ७० ॥ तत: पीयूषगण्डषैरिवालापैः सुपेशलः । पाखास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिमूः ॥ ७१ ॥ वटेऽधस्त्वां तदा मुत्वा गतोऽहं नाथ पाथसे। सुधाकुण्डमिवापश्यं किञ्चिदग्रे महासरः ॥ ७२ ॥ तुभ्यमम्भोजिनोपत्रपुटेनादाय वार्यहम् । यमदूतैरिवागच्छन् रुडः संवर्मितैमेंटैः ॥ ७३ ॥ अरे वरधनो ब्रूहि ब्रह्मदत्तः क विद्यते । इति तैः पृच्छामानः सबवेग्मोत्यहमब्रुवम् ॥ ७४ ॥
(१) ग च
सः।