________________
२३६
योगशास्त्रे
श्रीकान्तया राजपुत्रा वासाय तव वेश्मनि । प्रेषितोऽसौ महाभागः सन्दिश्येति जगाम सा ॥ ५५ ॥ उपास्यमानः स्वामीव विविधं तेन मन्त्रिण । क्षणदां क्षपयामास क्षणमेकमिवेष ताम् ॥ ५६ ॥ मन्त्री राजकुलेऽनैषीत्कुमारं क्षणदात्यये । अर्घादिनोपतस्थेऽमुं बालार्कमिव भूपतिः ॥ ५७ ॥ वंशाद्यपृष्ट्वापि नृपः कुमाराय मृतां ददौ । श्रकृत्यैव हि तत्सर्वं विदम्ति न तद्दिदः ॥ ५८ ॥ उपायंस्त कुमारस्तां हस्तं हस्तेन पीडयन् । अन्योऽन्यं संक्रमयितुमनुरागमिवाभितः ॥ ५८ ॥ ब्रह्मदत्तोऽन्यदा क्रीडन् रहः पप्रच्छ तामिति । एकस्याज्ञातवंशादे: पित्रा दत्तासि मे कथम् ॥ ६० ॥ श्रीकान्ता कान्तदन्तांशधौताधरदलाऽब्रवीत् । राजा शबरसेनोऽभूद्दसन्तपुरपत्तने ॥ ६१ ॥ तत्सूनुर्मे पिता राज्ये निषसः क्रूरगोत्रिभिः । पर्यस्तोऽशिश्रियदिमां पल्लों सबलवाहनः ॥ ६२ ॥
भिल्लानुपनमय्यात्र वार्वेग इव वेतसान् ।
ग्रामघातादिना तातः पुष्णाति खं परिग्रहम् ॥ ६३ ॥ जातास्मि चाहं तनया तातस्यात्यन्तवल्लभा । 'स्वामिन् सम्पदिवोपायांश्चतुरस्तनयाननु ॥ ६४ ॥
(१) न ग च उपायानां श्रीरिवानु चतुर्णां तनुजन्मनाम् । श्रीवत्पश्चादुपायानां चतुर्णां तनुजन्मनाम् ।