SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे. प्रथैत्य प्रामणोरूचे दृष्टः कोऽपि वने नहि । प्रहारपतित: किन्तु प्राप्त 'एष शरो मया ॥ ६ ॥ हतो वरधनुर्नूनमिति चिन्तयतस्ततः । .' ब्रह्मसूनोः शोक इव तमोभूरभवनिशि ॥ ६१ ॥ यामे तुरीये यामिन्यास्तत्र चौराः समापतन् । ते तु भग्नाः कुमारेण मारेणेव प्रवासिनः ॥ ६२ ॥ ततोऽनुयातो चामण्या ययौ राजग्रह क्रमात् । स चामुचनवती तहहिस्तापसाश्रमे ॥ ६३ ॥ विशन् पुरं स ऐक्षिष्ट हर्म्यवातायनस्थिते ।। साक्षादिव रतिप्रीती कामिन्यौ नवयौवने ॥४॥ ताभ्यां सोऽभिदधे प्रेमभाजं त्यका जनं ननु । यत्तदा गतवान् युतां तत् किं से प्रत्यभाषत ॥ ६५ ॥ व्याजहार कुमारोऽपि प्रेमभाग् बत को जनः । स कदा च मया त्यतः कोऽहं के वा युवामिति ॥ ६६ ॥ प्रसौदागच्छ विश्राम्य नाथेत्यालापनिष्ठयोः । प्राविशदत्तोऽपि मनसोव तयोर्गृहे ॥ ६७ ॥ तिष्ठमाने कृतस्रानाशनाय ब्रह्मसूनवे । कथयामासतुस्ते खां कथामवितथामिति ॥ ६८ ॥ अस्ति विद्याधरावासः कलधौतशिलामयः । मेदिन्यास्तिलक इव वैताव्यो नाम पर्वतः ॥ ६८ ॥ . . . . (१) ड एकः।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy