________________
द्वितीयः प्रकाशः ।
अमुष्य दक्षिणश्रेण्यां नगरे शिवमन्दिरे । राजास्ति ज्वलनशिखोऽलकायामिव गुह्यकः ॥ ७० ॥ विद्याधरपतेस्तस्य द्युतिद्योतितदिग्मुखा ।
प्रिया विद्युच्छिखेत्यस्ति विद्युदम्भोमुचो यथा ॥ ७१ ॥ तयोः प्राणप्रिये नाव्योन्मत्ताभिधसुतानुजे ।
३४७
'नाम्ना खण्डा विशाखा च पुत्रप्रावावां बभूविव ॥ ७२ ॥ तातः सौधेऽन्यदा सख्याग्निशिखेन सहालपन् । गच्छतोऽष्टापदगिरिं गोर्वाणान् खे निरैचत ॥ ७३ ॥ ततः स तौर्थयात्रार्थं चलितोऽचालयच नौ । सुहृदं चाग्निशिखं तं धर्मेष्टं हि योजयेत् ॥ ७४ ॥ प्राप्ता अष्टापदं तत्रापश्याम मणिनिर्मिताः । प्रतिमास्तीर्थनाथानां मानवर्णसमन्विताः ॥ ७५ ॥ स्नानं विलेपनं पूजां विरचय्य यथाविधि । तास्त्रिः प्रदक्षिणीकृत्यावन्दामहि समाहिताः ॥ ७६ ॥ प्रासादात्रिःसृतैर्दृष्टौ रक्ताशोकतरोरधः । चारणश्रमणौ मूर्त्तिमन्ताविव तपःशमौ ॥ ७७ ॥ तौ प्रणम्योपविश्याग्रे शुशुम श्रद्धया वयम् । अज्ञानतिमिरच्छेद कौमुदीं धर्मदेशनाम् ॥ ७८ ॥ पप्रछाग्निशिखः कः स्वात्कन्ययोरनयोः पतिः । तावूचतुर्योह्यनयोर्भ्रातरं मारयिष्यति ॥ ७८ ॥ हिमेनेव शशी म्लानो जातस्तातस्तया गिरा । श्रवामपीत्यवोचाव वाचा वैराग्यगर्भया ॥ ८०