________________
द्वितीयः प्रकाशः ।
अङ्गुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दपलोलावनमवाप सा ॥ ४२ ॥ साक्षीतज्वलदग्निर्जमदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥ ४३ ॥ . ऋतुकाले स जचे तां चरं ते साधयाम्यहम् । . यथा ब्राह्मसमूईन्यो धन्य उत्पद्यते सुतः ॥ ४४ ॥ सोवाच हस्तिनपुरेऽनन्तवीर्यस्य भूपतः । पत्नास्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् ॥ ४५ ॥ ब्रानं सधर्मचारिण्यै क्षात्रं तज्जामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् ॥ ४६ ॥ साचिन्तयदहं तावदभूवमटवीमृगौ। . माभूभाहक सुतोऽपीति क्षात्रं चस्मभक्षयत् ॥ ४७ ॥ सादाबानं चहें स्वस्रे जातौ च तनयो तयोः । तब रामो रेणुकायाः कतवीर्यश्च तत्वसुः ॥ ४८॥ क्रमेण वधे राम ऋषित्वे पैटकेऽपि सः । क्षा प्रदर्शयंस्तेजो हुताशनमिवाम्भसि ॥ ४८ ॥ विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारको। विद्या तस्यातिसारात्या विस्मृताकाशगामिनी ॥ ५० ॥ रामिण प्रतिचरितो भेषजाद्यैः स बन्धुवत् । रामाय सेवमानाय विद्यां पारशबौं ददौ ॥ ५१ ॥ मध्येशरवणं गत्वा तां च विद्यामसाधयत् । राम: परशुरामोऽभूत्तत: प्रति विश्रुतः ॥ ५२ ॥
का।