________________
२५३
हितीय: प्रकाशः। तहच्छ शंस दीर्घाय ब्रह्मदत्तोऽभ्युपेत्यसौ। युडाख यदि वा नश्येत्युचा दूतं व्यसर्जयत् ॥ ३४ ॥ तत: प्रयाणैरच्छिन्त्रैः काम्पील्यं ब्रह्मसूर्ययौ। सदोघमप्यरौत्सोत्तबभः सार्कमिवाम्बुदः ॥ ३५ ॥ दोघः सर्वाभिसारेण रणसारेण पत्तनात् । दण्डाक्रान्तो निरसरहिलादिव महोरग: ॥ २६ ॥ चुलन्यपि तदात्यन्तवैराग्यादाद व्रतम् । पाखें पूर्णाप्रवर्तिन्याः क्रमाविर्वृतिमाप च ॥ ३७ ॥ पुरोगा दीर्घराजस्य पुरोगैब्रह्मजन्मनः । नदोयादांस्यकूपारयादोभिरिव जनिरे ॥ ३८ ॥ दो?ऽप्यमर्षादुबामिदंष्ट्रिकाविकटाननः । वराह व धावित्वा हन्तुं प्रवकृते परान् ॥ ३८ ॥ ब्रह्मदत्तस्य पादातरथसाघादिकं बलम् । पर्यास्यत नदीपूरेणेव दोघेण वेगिना ॥ ४० ॥ ब्रह्मदत्तस्ततः क्रोधारणाक्षो युयुधे खयम् । गर्जता दीर्घराजेन गर्जन् दन्तीव दन्तिना ॥ ४१ ॥ उभावपि बलिष्ठौ तावस्त्राण्यस्त्रनिरासतुः । कल्लोलेरिव कल्लोलान् युगान्तोभ्रान्तवारिधी ॥ ४२ ॥ ज्ञात्वाऽथ सेवक इवावसरं प्रसरदद्युति । डुढौके ब्रह्मदत्तस्य चक्रं दिक्चक्रजित्वरम् ॥ ४३ ॥ ततो जहार दीर्घस्य तेनाश ब्रह्मसूरसून् । विमर्दो विद्युतः को वा गोधानिधनसाधने ॥ ४४ ॥