________________
२५२
योगशास्त्रे उपयेमे कुमारस्तां विविधोद्दाहमङ्गलैः । सुबुहिमन्त्रिणः कन्यां नन्दां वरधनुः पुन: ॥ २४ ॥ पप्रथात पृथिव्यां तौ तिष्ठन्तौ तत्र शक्तितः । माभियोगौ प्रतस्थाते ततो वाराणसी प्रति ॥ २५ ॥ श्रुत्वायान्तं ब्रह्मदत्तं ब्रह्माणमिव गौरवात् ।। अभ्येत्य संमुखं वाराणसोशः स्वग्रहेऽनयत् ॥ २६ ॥ कटकः कटकवी नाम पुत्रों निजां ददौ । चतुरङ्गचमू चास्मै मूर्त्तामिव जयश्रियम् ॥ २७ ॥ कणेरुदत्तश्चम्भेशो धनुमन्त्री तथाऽपरे। भगदत्तादयोऽप्येयुपाः श्रुत्वा तदागमम् ॥ २८ ॥ कृत्वा वरधनुं सेनान्यं सुषेणमिवार्षभिः । दीर्घ दीर्घपथे नेतुं प्रतस्थे ब्रह्मनन्दनः ॥ २८ ॥ दीर्घस्य दूत: कटकराजमेत्यैवमूचिवान्। ' दोघेण सममाबाल्यमैत्री त्यक्तं न युज्यते ॥ ३० ॥ तत: कटक इन्यू चे ब्रह्मणा सहिताः पुरा । सोदा इव 'पञ्चाप्यभवाम सुहदो वयम् ॥ ३१ ॥ खर्जुषोब्रह्मणः पुत्र राज्ये च बातमर्पिते । दोघेण धिकृतं नाऽत्ति शाकिन्यपि समर्पितम् ॥ ३२ ॥ ब्रह्मणः पुत्रभाण्डे यही? दीर्घमचिन्तयत्। आचचारातिपापं तच्छपचोऽपि किमाचरेत् ॥ ३३ ॥
(१) ख ग च पञ्चापि समाताः।