________________
.२१०
योगशास्त्रे
तुमक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ॥ ७५ ॥ राम: पप्रच्छ 'नैमित्तानन्येद्य कुतो वधः । सदा वैरायमाणा हि शकन्ते परतो मृतिम् ॥ ७६ ॥ यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोच्यतेऽमूस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ॥ ७७ ॥ रामोऽथ कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्रास्थापयत्स्थालमग्रतः ॥ ७८ ॥ अथाश्रमे प्रतिदिनं लालयद्भिस्तपस्विभिः । निन्येऽङ्गणद्रुम इव सभूमो वृद्धिमद्भुताम् ॥ ७८ ॥ विद्याधरो मेघनादोऽन्येद्यनैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् ॥ ८० ॥ तस्या वरं वरीयांसं सुभूमं तेऽप्युपादिशन् । दत्त्वा कन्यां ततस्तस्मै तस्यैवाभूत्स सेवकः ॥ ८१ ॥ कूपभक इवानन्यगोऽथ पप्रच्छ मातरम्। सुभूमः किमियानेव लोकोऽयमधिकोऽपि किम् ॥ २ ॥ माताप्यचौकथदथो लोकोऽनन्तो हि वत्सक । मक्षिकापदमानं हि लोकमध्येऽयमाश्रमः ॥ ८३ ॥ अस्मिन् लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कतवीर्योऽभूत्तत्र राजा महाभुजः ॥ ८४ ॥
(१) प ड नैमित्तानधान्येद्युः कुतो मम।
(२). चड वधो।