________________
द्वितीयः प्रकाशः ।
हत्त्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षितिं निःक्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ॥ ८५ ॥ तत्कालं हास्तिनपुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणे क्रुद्धः क्षात्रं तेजो हि दुर्द्दरम् ॥ ८६ ॥ तत्र सत्रे ययौ सिंह इव सिंहासनेऽविशत् । दंष्ट्रास्ताः पायसोभूताः सुभुजो बुभुजे च सः ॥ ८७ ॥ उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जघ्निरे मेघनादेन व्याघ्रेण हरिणा इव ॥ ८८ ॥ प्रस्फुरद्दंष्ट्रिकाकेशी दशनैरधरं दशन् ।
ततो रामः क्रुधा कालपाशाक्कृष्ट इवाययौ ॥ ८८ ॥ रामेण मुमुचे रोषात्सुभूमाय परश्वधः । विध्यातस्तत्क्षणं तस्मिन् स्फुलिङ्ग इव वारिणि ॥ ८० ॥ अस्त्राभावात्सुभूमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रोबभूव तत्सद्यः किं न स्यात्पुण्यसम्पदा ॥ ११ ॥ चक्रवर्त्त्यष्टमः सोऽथ तेन चक्रेण भाखता । शिरः परशरामस्य पङ्कजच्छेदमच्छिदत् ॥ ८२ ॥ क्षमां निःक्षत्रियां रामः सप्तकृत्वो यथा व्यधात् । एकविंशतिक्कृत्वस्तां तथा निर्ब्राह्मणामसौ ॥ ८३ ॥ क्षुण्णक्षितिपहस्त्यश्वपदातिव्यूहलोहितैः ।
वाहयन् वाहिनीर्नव्याः स प्राक् प्राचोमसाधयत् ॥ ८४ ॥
स च्छिन्नानेक सुभटमुण्डमण्डितभूतलः ।
दक्षिणाशां दक्षिणाशापतिरन्य इवाजयत् ॥ ८५ ॥
२११