________________
... योगशास्त्रे
बहिनिर्गत्य किष्किन्धापुरादावासमग्रहीत् ॥ ५८ ॥ तत्रैव विटसुग्रीवस्तस्थावस्वस्थमानसः । अन्तःपुरप्रवेशं तु न लेभे वालिनन्दनात् ॥ ६ ॥ सुग्रीवो न्यञ्चितग्रोवमथैवं पर्यचिन्तयत् । अहो स्त्रीलम्पटः कूटपटुः कोऽप्येष नो द्विषन् ॥ ६१ ॥ आत्मीया अप्यनात्मीया द्विषन्मायावशीकताः । अहो बभूवुस्तदसाववस्कन्दो निजैर्हयैः ॥ ६२ ॥ मायापराक्रमोत्कृष्टः कथं वध्यो दिषन् मयां । धिग्मां पराक्रमभ्रष्टं वालिनाम्नस्त्रपाकरम् ॥ ६३ ॥ धन्यो महाबलो वाली योऽखण्ड पुरुषव्रतः। .. राज्यं टणमिव त्यत्वा यश्च भेजे परं पदम् ॥ ६४ ॥ . चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽप्यसौ । किं तु योरभेदनः कं रक्षतु निहन्तु कम् ॥ ६५ ॥ इदं तु विदधे साधु साध्वही चन्द्ररश्मिना। तस्य पापोयसो रुद्धं शुद्धान्ते यत्प्रवेशनम् ॥ ६६ ॥ वधाय बलिनोऽमुष्य बलीयांसं श्रयामि कम् । यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा ॥ ६७ ॥ भूर्भुवःस्वस्त्रयौवीरं मरुत्तमखभञ्जनम् । भजामि विद्दिषट्वातहेतवे किं दशाननम् ॥ ६८ ॥ असौ किं तु प्रकत्या स्त्रीलोलस्त्रैलोक्यकण्टकः । . तं च मां च निहत्याशु तारामादास्यते स्वयम् ॥ ६८ ॥ ईदृशे व्यसने प्राप्त साहाय्यं कर्तुमीश्वरः ।