________________
द्वितीयः प्रकाशः।
पासीत् खरः खरतरो राघवेण हतः स तु ॥ ७० ॥ तावेव रामसौमित्री गत्वा मित्रीकरोमि तत् । तत्कालोपनतस्यापि यो विराधस्य राज्यदौ ॥ ७१ ॥ तौ तु पाताललङ्कायामलंकर्मीणदोबलौ। विराधस्योपरोधेन तथैवाद्यापि तिष्ठतः ॥ ७२ ॥ एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्या विश्वासभूतं दूतं न्ययोजयत् ॥ ७३ ॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥ ७४ ॥ महति व्यसने खामी पतितो नस्तदीदृशे । राघवौ शरणीकत्तुं तव हारेण वाञ्छति ॥ ७५ ॥ द्रुतमायात सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ॥ ७६ ॥ प्रचचालाथ सुग्रीवोऽश्वानां अवेयकखनेः । दिशो मुखरयन् सर्वा वेगाह्रमदूरयन् ॥ ७७ ॥ पाताललङ्गां स प्राप क्षणेनाप्युपवेश्मवत् । . विराधं चोपतस्थेऽसावभ्युत्तस्थौ स चापि तम् ॥ ७८ ॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखं च व्यजिज्ञपत् ॥ ७८ ॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः । क्षुते हि सर्वथा मूढे शरणं तरणिः खलु ॥ ८० ॥ स्वयं दुःख्यपि तद्दुःखच्छेदं रामोऽभ्युपागमत् ।।
४८