________________
३७८
-
योगशास्त्रे
स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ॥ ८१ ॥ सीताहरणवृत्तान्तं विराधेनावबोधितः ।
रामं विज्ञपयामास सुग्रीवोऽथ कृताञ्जलिः ॥ ८२ ॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो रवेः । न कापि कारणापेक्षा देव वचिम तथाप्यदः ॥ ८३ ॥ त्वत्प्रसादात् क्षतारिः सन् ससैन्योऽपि तवानुगः । आनेष्यामि प्रवृत्तिं च सीताया न चिरादहम् ॥ ८४ ॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तं संबोध्य विससर्ज च ॥ ८५ ॥ रामभद्रेऽथ किष्किन्धास्कन्धावारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाह्वास्त रणकर्मणे ॥ ८६ ॥ निनदन् विटसुग्रीवोऽप्यागादाह्वानमात्त्रतः । रणाय नालसाः शूरा भोजनाय हिजा इव ॥ ८७ ॥ दुर्डरैवरणन्यासः कम्पयन्तो वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्दिपौ ॥ ८८ ॥ राम: सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्च कः । इति संशयतस्तस्थावुदासीन इव क्षणम् ॥ ८८ ॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वष्वावर्त्ताभिधधनुष्टङ्कारमकरोत्ततः ॥ ८० ॥ धनुष्टङ्गारतस्तस्मात्मा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव 'पलायत ॥ ८१ ॥
(१) ख च पलायिता ।