________________
द्वितीय:
: प्रकाशः ।
३७८
विमो मायया सर्वं परदारे रिरंससे । पापारोपय रे चापमिति रामस्ततर्ज तम् ॥ ८२ ॥ एकेनापोषुणा प्राणांस्त स्याहार्षीद्रषूद्दहः । न द्वितीया चपेटा हि हरेर्हरिणमारणे ॥ ८३ ॥ विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवानमस्यत ॥ ८४ ॥ इतच रामकार्यायागाद्दिराधः समं बलैः स्वामिक्कत्यमकृत्वा हि कृतज्ञा नासते सुखम् ॥ ८५ ॥ भासण्डलोऽपि तत्रागाद् विद्याधरचमूहृतः । प्रभुकार्यं कुलीनानामुत्सवो घुसवादपि ॥ ८६ ॥ जाम्बुवदनुम बोलनलादीन् विदितौजसः ।
I
सुग्रीवश्च स्वसामन्तान् समन्तादप्यजूहवत् ॥ ८७ ॥ विद्याधरचमूचक्रेष्वायातेष्वथ सर्वतः ।
उपेत्य रामं सुग्रीवः प्रणम्यैवं व्यजिज्ञपत् ॥ ८८ ॥ 'हनुमानाष्जनेयोऽयं विजयी पावनञ्जयः । सीताप्रवृत्त्यै लङ्कायां त्वदादेशाद् व्रजिष्यति ॥ ८८ ॥ रामेणाज्ञापितो दत्त्वा स्वमभिज्ञानमूर्मिकाम् । नभखानिव नभसा नभखत्तनयो ययौ ॥ २०० ॥ सोऽगात्क्षणेन लङ्कायामुद्याने शिंशपातले । सीतामपश्यद्धयायन्तीं नाम रामस्य मन्त्रवत् ॥ १ ॥
(1) क गच हनुमानिति सर्वल पाठः ।