SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ३८२ योगशास्त्र रामस्तं गाढमापोद्योरसा सुतमिवौरसम् । लङ्गाविजययात्रायै सुग्रीवादीनथादिशत् ॥ २३ ॥ समुद्रं रावणारखं बड्डा सेतुं च राघवः । लशापुरौं विमानस्थः सुग्रीवाद्यैः समं ययौ ॥ २४ ॥ निवेश्य कटकं रामो हंसदीपान्तरे ततः । 'अववेष्टइलैलङ्कामेकपाटकलीलया ॥ २५ ॥ अत्रान्तरे दशग्रीवं प्रणम्योचे विभीषणः । कनिष्ठ स्यापि मे स्वामित्रबैकं वचनं कुरु ॥ २६ ॥ आयातो रामभद्रोऽत्र निजां जायां च याचते । अप्यतां तदसौ सीता धर्मोऽप्येवं न बाध्यते ॥ २७ ॥ अथोचे रावणो रोषाद्रे बिभषि बिभीषण । तदेवमुपदेशं मे दत्से कापुरुषोचितम् ॥ २८॥ बिभीषणो बभाषऽथ दूरे राम: सलक्ष्मणः । तत्पत्तिरीको हनुमान् दृष्टो देवेन किं नहि ॥ २८ ॥ अस्मद्देषो विपक्षानुरागी ज्ञातोऽसि याहि रे । इति निर्वासितस्तेन ययौ रामं बिभीषण: ॥ ३० ॥ लङ्काधिपत्यमेतस्मै रामोऽपि प्रत्यपद्यत । नह्यौचित्ये विमुह्यन्ति महात्मानः कदाचन ॥ ३१ ॥ बहिर्निगत्य लझेशसेना राघवसेनया । कांस्यतालं कांस्यतालेनेवास्फालदथोषणम् ॥ ३२ ॥ (१) च अविवेष्टत् । (२) खच च।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy