________________
३८३
द्वितीयः प्रकाशः। प्राणसर्वखदेविन्योमिथश्चम्बोगतागतम् । जयश्रीः श्रीरिवाकार्षीदुत्तमर्णाधमर्णयोः ॥ ३३ ॥ रामभूसंजयाऽऽजप्ता हनूमत्प्रमुखास्ततः । जगाहिरे विषसैन्यं सुरा इव महोदधिम् ॥ ३४ ॥ हताः केऽपि धृताः केऽपि नाशिताः केऽपि राक्षसाः । प्रसरही रामवीरैर्दुरिर्वारणैरिव ॥ ३५ ॥ कुम्भकर्णस्तदाकये क्रुद्धो वहिरिव ज्वलन् । मेघनादच सावेशः प्रविवेश रणाङ्गणम् ॥ २६ ॥ तावापतन्तौ कल्पान्तपवनज्वलनाविव । न हि सोढुमशक्येतां रामसैन्यैर्मनागपि ॥ ३७ ॥ सुग्रीवोऽथ रुषोत्पाव्य शिलामिव शिलोच्चयम् । अक्षिपत्कुम्भकर्णाय सोऽपि तं गदयाऽपिषत् ॥ ३८ ॥ पुनर्गदाप्रहारेण पातयित्वा कपीश्वरम् । कक्षायां न्यस्य पौलस्त्यो लङ्कां प्रत्यचलत्ततः ॥ ३८ ॥ मेघवबिनदमेघनादोऽपि मुदितस्ततः । प्लवङ्गान् लावयामास निशातशरदृष्टिभिः ॥ ४० ॥ डुढौके तिष्ठ तिष्ठेति भाषमाणोऽरुणेक्षणः । रामोऽथ कुम्भकर्णाय मेघनादाय लक्ष्मण: ॥ ४१ ॥ सुग्रीवोऽप्युत्पपाताथ कत्लोजो रावणानुजात् । मुष्टौ धृत: कियत्कालं नतु तिष्ठति पारदः ॥ ४२ ॥ वलितः कुम्भकर्णोऽपि रामेण युयुधे ततः।। सौमित्रिणा मेघनादोऽप्रमादः क्षोभयन् जगत् ॥ ४३ ॥