________________
हितीयः प्रकाशः। प्रथावतीर्य हनुमान् सीतां नत्वा कृताञ्जलिः ।। इत्यूचे देवि जयति दिध्या रामः सलक्ष्मणः ॥ १२ ॥ त्ववात्तिक्कते रामेणादिष्टोऽहमिहागमम् । मयि तत्र गते राम इहैथति रिपुच्छिदे ॥ १३ ॥ पतिदूतं हनूमन्तमभिज्ञानसमर्पकम् । प्रोता सीताऽप्यथाशीर्भिरमोघाभिरनन्दयत् ॥ १४ ॥ हनूमदुपरोधेन रामोदन्तमुदा च सा । एकोनविंशत्युपवासान्ते व्यधित भोजनम् ॥ १५ ॥ प्राभञ्जनिः प्रभञ्जन इवोद्यानस्य भञ्जने । प्रहत्तो दशकण्ठस्य बलालोकनकौतुकात् ॥ १६ ॥ भज्यमानं तदुद्यानं तेन मानमिवोच्चकैः। । उपत्य दशकण्ठस्याशंसब्रुद्यानपालकाः ॥ १७ ॥ प्रारक्षा रावणादिष्टास्तं निहन्तुं समागताः । हता हनूमतैकेन विचित्रा हि रण गति: ॥ १८ ॥
आदिष्टो दशकण्ठेन साटोपः शक्रजित्ततः । तहन्धायामुचत्पाशान् पाशै: खं सोऽप्यबन्धयत् ॥ १८ ॥ नीतश्चाग्रे दशास्यस्य दलयन् मुकुटं पदा। उत्पपातापास्तपाशस्त डिद्दण्ड इवानिलिः ॥ २० ॥ हन्यतां ग्राह्यतां चैष इति जल्पति रावणे। अनाथामिव सोऽभाीत्तत्पुरौं पाददर्दरैः ॥ २१ ॥ क्रीडां कृत्वैवमुत्पत्त्य सुपर्ण इव पावनिः । एत्य रामं नमस्कृत्य तं वृत्तान्तं व्यजिज्ञपत् ॥ २२ ॥