________________
द्वितीयः प्रकाशः 1
पाटलीपुत्रराजस्य राजदौवारिकस्ततः ।
हृष्टो विमलसिंहाख्य इत्युवाच महीपतिम् ॥ ७३ ॥ अयं हि पाटलीपुत्रे मूलदेवस्य धीमतः । कलाप्रकर्षोऽमुष्या वा न तृतीयस्य कस्यचित् ॥ ७४ ॥ ततः प्रदीयतां देव मूलदेवादनन्तरम् । विज्ञानिषु च पट्टोऽस्यै पताका नर्त्तकौषु च ॥ ७५ ॥ ततो राज्ञा तथा दत्ते साऽब्रवीदेष मे गुरुः । ततः प्रसादमादास्ये स्वामित्रस्याभ्यनुज्ञया ॥ ७६ ॥ राजाऽप्यवोचत्त दियं महाभागानुमन्यताम् । धूर्त्तोऽप्यवादीद्यद्देव श्राज्ञापयति तत्कुरु ॥ ७७ ॥ अत्नान्तरं धूर्त्तराजो वीणां स्वयमवादयत् । हरन्मनांसि विश्वेषां विश्वावसुरिवापरः ॥ ७८ ॥ ततो विमलसिंहेन बभाषे देव खल्वयम् । मूलदेवञ्छन्नरूपो नापरस्थेशी कला ॥ ७८ विज्ञानातिशयस्यास्य प्रयोक्ता नापरः क्वचित् । मूलदेवं विना देव सर्वथाऽसौ स एव तत् ॥ ८० ॥ राजा जगाद यद्येवं तदाहो स्वं प्रदर्शय । दर्शने मूलदेवस्य रत्नस्येवास्मि कौतुकी ॥ ८१ ॥ गुलिकां मूलदेवोऽपि मुखादाकृष्य तत्क्षणात् । व्यक्तोऽभूत्कान्तिमान्मेघनिर्मुक्त इव चन्द्रमाः ॥ ८२ ॥ साधु ज्ञातोऽसि विज्ञानिनिति सप्रेमभाषिण | ततो विमलसिंहेन धूर्त्तसिंहः स सखजे ॥ ८३ ॥
३१५