SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः | सर्वार्थेषु कलादाच्यमोहग्नान्यस्य कस्यचित् । न सामान्योऽयमित्यंप्रोः पतित्वा साऽब्रवीदिति ॥ ५२ ॥ गुणैरपि त्वमाख्यातः कोऽप्युत्कृष्टः पुमानिति । मयूरव्यंसकात्मानं किं गोपयसि मायया ॥ ५३ ॥ प्रसीद दर्शयात्मानं किं मोहयसि मां मुहुः । भक्तानामुपरोधेन साचात्स्यर्देवता अपि ॥ ५४ ॥ आकृष्य गुलिकामास्याद् रूपं तत्परिवर्त्य सः । प्रतिपेदे निजं रूपं शैलूष इव तत्क्षणात् ॥ ५५ ॥ अनङ्गमिव जाताङ्गं तं लावण्यैक सागरम् । उद्दक्ष्य विस्मिता सोचे प्रसादः साधु मे कृतः ॥ ५६ ॥ तस्यापयित्वा स्नानोयं 'पोतं प्रीता खपाणिना । अङ्गाभ्यङ्गं व्यरचयद्देवदत्ताऽनुरागिणी ॥ ५७ ॥ खलिप्रक्षालनापूर्वं पिष्टातक सुगन्धिभिः । कवोष्णवारिधाराभिस्ततो दावपि सनतुः ॥ ५८ ॥ देवदूष्ये देवदत्तोपनीते पर्य्यधत्त सः । सुगन्ध्यान्यानि भोज्यानि बुभुजाते समं च तौ ॥ ५८ ॥ रहःकलारहस्यानि वयस्यीभूतयोस्तयोः । मिथः कथयतोरेकः क्षणः सुखमयो ययौ ॥ ६० ॥ ततः सा व्याजहारैवं हृतं मे हृदयं त्वया । गुणैर्लोकोत्तरैर्नाथ प्रार्थयेऽहं तथाऽप्यदः ॥ ६१ ॥ ४० ३१३ (१) च पानं प्रीत्या |
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy