SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः । निर्मलचित्तानां न तु बकवृत्तीनां कश्मलमनसां तेषामभ्यायान्ति अभिमुखमायान्ति श्रियः सम्पदः, स्वयमेव न तु परप्रेरणया व्यवसायेन वा। स्वयंवरा इत्युपमानगर्भम् । स्वयम्वरा इव कन्याः ॥ ७४ ॥ तथा अनर्था दूरतो यान्ति साधुवादः प्रवर्तते । खर्गसौख्यानि ढोकन्ते स्फटमस्तेयचारिणाम् ॥७॥ अनर्था विपदः, दूरतो यान्त्यासना अपि न भवन्ति ; साधुरयमिति प्रवादः साधुवादः श्लाघा, प्रवर्तते प्रसरति, एतावदैहिक फलम् ; वर्गसौख्यानीति तु पारलौकिकम्, अस्तेयव्रतेनावश्यं चरन्तीत्यस्तेयचारिणस्तेषाम् । पत्रान्तरे श्लोकाः वरं वह्निशिखा पीता सर्पास्यं चुम्बितं वरम् । वरं हालाहलं लीढं परस्वहरणं न तु ॥ १॥ प्रायः परखलुब्धस्य निःशूका बुदिरेधते ।। हन्तुं भ्रातृन् पितॄन् दारान् सुहृदस्तनयान् गुरून् ॥ २ ॥ परखं तस्करो ग्टह्णन् वधबन्धादि नेक्षते । .पयःपायौव लगुडं बिडाल उपरि स्थितम् ॥ ३ ॥ व्याधधीवरमार्जारादिभ्यश्चौरोऽतिरिच्यते । निग्राह्यते नृपतिभिर्यदसौ नेतरे पुनः ॥ ४ ॥ (१) गड. एतावदेहिक।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy