________________
२८४
योगशास्त्रे तन्मुग्धबुद्धिप्रतारणमात्रं न हि तिलव्रीह्यादिभिर्मत्स्यमांसादिभिर्वा परामूनां पितृणां टप्तिरुत्पद्यते । यदाह
मृतानामपि जन्तूनां यदि तृप्तिर्भवेदिह ।
निर्वाणस्य प्रदीपस्य स्नेहः संवई येच्छि खाम् ॥ १ ॥ इति न केवलं हिंसा दुर्गतिहेतुरेव किं तु हिंस्यमानर्जन्तुभिर्विरोधनिबन्धनत्वेन स्वस्यापि इहामुत्र च हिंसाहेतुतया भयहेतुः ॥४७॥ . अहिंस्रस्य तु सर्वजीवाभयदानशौण्डस्य न कुतोऽपि
भयमस्तोत्याहयो भूतेष्वभयं दद्यातेभ्यस्तस्य नो भयम् ।
यादृग्वितीर्यते दानं तादृगासायते फलम् ॥ ४८ ॥ स्पष्टम् ॥ ४८ ॥ एवं तावहिंसापराणां मनुष्याणां नरकादि हिंसाफलमभिहितं सुराणामपि हिंसकानां जुगुप्सनीयचरितानां मूढजनप्रसिद्ध पूज्यत्वं परिदेवयते
कोदण्डदण्डचक्रासिशूलशक्तिधराः सुराः ।
हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया ॥४६॥ हा कष्टमित्यतिशयनिदे हिंसका अपि रुद्रप्रभृतयः सुराः प्राकृतैजनैः पूज्यन्ते विविधपुष्पोपहारादिभिरचन्ते ते च यथाकथञ्चिदभ्यर्यतां नाम केवलं देवताबुद्धिस्तत्र विरुद्धा इत्याह देवताधिया हिंसकत्वे विशेषणद्वारण हेतुमाह कोदण्डदण्डचक्रासिशूलशक्ति.