________________
२०४
:: योगशास्त्रे दीक्षा श्रीवासुपूज्यान्ते ग्रहीतुं भावतो यतिः । गच्छंश्चम्पापुरौं ताभ्यां देवाभ्यां ददृशे पथि ॥॥ परीक्षाकाझ्या ताभ्यां पानावे ढौकिते नृपः । तृषित: चुधितोऽप्यौज्झदौराः सत्त्वाञ्चलन्ति न ॥ १० ॥ क्रकचैरिव चक्राते क्रूरैः कर्करकण्टकैः । पौडां देवी देवस्य मृदुनोः पादपनियोः ॥ ११ ॥ पादाभ्यां प्रक्षरद्रतधाराभ्यां तादृशेऽध्वनि । तूलिकातलसञ्चारं संचेरे च तथापि सः ॥ १२ ॥ निर्ममे गीतनृत्यादि ताभ्यां क्षोभाय भूपतेः । तमोघमभवत्तत्र दिव्यास्त्रमिव गोत्रज ॥ १३ ॥ तो सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाद्यापि महाभाग महदायुयुवासि च ॥ १४ ॥ स्वच्छन्दं च तद्भोगान् का धौर्यद्यौवने तपः । निशीथक्कत्यं कः प्रात: कुर्यादुद्योगवानपि ॥ १५ ॥ यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । ग्रहीयास्त्वं तपस्तात द्वितीयमिव वाईकम् ॥ १६ ॥ राजोचे यदि बह्वायुर्बहुपुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवईते ॥ १७ ॥ लोलन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणाने रणे यो हि शूरः शूरः स उच्यते ॥ १८ ॥ तस्मिनचलिते सत्त्वासाधु साध्विति वादिनी। तौ गतौ तापसोत्कृष्टं जमदग्नि परीक्षितम् ॥ १८ ॥