________________
द्वितीयः प्रकाशः ।
न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वल्मीकाकोर्णपादान्तं दान्तं तौ तमपश्यताम् ॥ २० ॥ तस्य श्मश्रुलताजाले नोडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ॥ २१ ॥ चटकश्चटकामूचे यास्यामि हिमवगिरौ । अन्यासक्तो नैष्यसि त्वमिति तं नान्वमंस्त सा ॥ २२ ॥ गोघातपातकेनाहं गृह्ये नायामि चेप्रिये ।
इत्युक्तशपथं भूयश्चटकं चटकाऽब्रवीत् ॥ २३ ॥ ऋषेरस्यैनसा गृह्ये शपेथा इति चेप्रिय ।
२०५
विसृजामि तदैव त्वां पन्थानः सन्तु ते शिवाः ॥ २४ ॥ इत्याकर्ण्य वचः क्रुद्धो जमदग्निमुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पक्षिणौ ॥ २५ ॥ आचचक्षे ततो हन्त कुर्वाणे दुष्करं तपः । उष्णरश्माविव ध्वान्तमाः पापं मयि कोदृशम् ॥ २६ ॥ अथर्षिं चटकोवाच मा कुपस्ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यश्रौषोस्त्वं न किं श्रुतिम् ॥ २७ ॥ तत्तथा मन्यमानोऽयं मुनिरेवमचिन्तयत् । ममाकलत्रपुत्रस्य प्रवाहे सूत्रितं तपः ॥ २८ ॥ क्षुभितं तं परिज्ञाय धिग् भ्वान्तस्तापसैरिति । जन्ने धन्वन्तरिः श्राड: प्रत्येति प्रत्ययात्र, कः ॥ २८ ॥ बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्प्राप पुरं नेमिक कोष्टकम् ॥ ३० ॥