________________
हितीयः प्रकाशः ।
३८५
कैकेयोनातुरस्यास्ति विशल्या नाम कन्यका। तस्याः नानाम्भसः स्पर्शे शल्यं निर्याति तत्क्षणात् ॥ ५५ ॥
आप्रत्यषालक्ष्मणश्चेत्तत्स्नानपयसोक्ष्यते । गतशल्यस्तदा जीवेदन्यथा तु न जीवति ॥ ५६ ॥ ततो मत्प्रत्ययाद्रामभद्रं विज्ञपय द्रुतम् । कस्यापि दापयादेशं तदानयनहेतवे ॥ ५७ ॥ . त्वयंतां स्वामिकार्याय प्रत्यूषे किं करिष्यथ ।। उदस्ते शकटे हन्त किं कुर्वीत गणाधिपः ॥ ५८ ॥ भामण्डलस्ततो गत्वा तद्रामाय व्यजिज्ञपत् । पादिक्षत्तत्कृते रामस्तमेव हनुमद्युतम् ॥ ५८ ॥ ईयतुस्तौ विमानेनायोध्यां पवनरंहसा। प्रासादाझे ददृशतुः शयानं भरतं ततः ॥ ६ ॥ भरतस्य प्रबोधाय तौ गीतं चक्रतुः कलम् । राजकार्येपि राजान उत्थाप्यन्ते ह्युपायत: ॥ ६१ ॥ विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन् । जचे भामण्डल: कार्य नाप्तस्याप्ते 'प्ररोचना ॥ ६२ ॥ सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तहिमानाधिरूढोऽगात्पुरं कौतुकमङ्गलम् ॥ ६३ ॥ भरतन द्रोणघनो विशल्यामथ याचितः । सहोडाह्य स्त्रीसहस्रसहितां तामदत्त च ॥ ६४ ॥
__(१) क ख च -षु। ४८