________________
हितीयः प्रकाशः।
२१८ निर्जगाम मुखात्तस्य बाष्यो नीलः समन्ततः । प्रकालोपस्थिताम्भोदविक्रमं बिभ्रदम्बरे ॥ ७० ॥ तेजोलेश्योललासाथ ज्वालापटलमालिनी। तडिमण्डलसाहीमिव द्यामभितन्वती । ७१ ॥ प्रतिविष्णुकुमारं तं तेजोलेश्याधरं ततः । प्रसादयितुमाजग्मुः पौराः सभयकौतुकाः ॥ ७२ ॥ राजा सनत्कुमारोऽपि ज्ञात्वा तत्र समाययो। उत्तिष्ठति यतो वहिस्तहि विध्यापयेत्सुधीः ॥ ७३ ॥ नत्वोचे तं नृपः किं वो युज्यते भगवविदम् । चन्द्राश्माकांशतप्तोऽपि नाचिर्मुञ्चति जातचित् ॥ ७४ ॥ . एभिरत्यपराई यत्कोपोऽयं भवतामतः । .. . . क्षीराधेमण्यमानस्य कालकूटमभूव किम् ॥ ७५ ॥
न स्याल्याचेचिरं न स्याचिरं चेत्तत्फलेऽन्यथा । खलनेह इव क्रोधः सतां तमहेऽत्र किम् ॥ १६ ॥ तथापि नाथ नाथामि कोपं मुञ्चेतरोचितम् । भवादृशाः समदृशो अपकार्युपकारिषु ॥ ७७ ॥ चित्रोऽप्यत्रान्तरे ज्ञात्वा सम्भूतमुनिमभ्यगात् । सान्वयितुं भद्रमिव हिपं मधुरभाषितः ॥ ७ ॥ तस्य कोप उपाशाम्यञ्चित्रवाक्यैः श्रुतानुगः । पयोवाहपयःपूरैगिरेरिव दवानल: ॥ ७ ॥ 'महाकोपतमोमुक्तः शशा इव पार्वणः ।
(१) ग प ड तीब्रकोप