________________
हितीयः प्रकाशः ।
देवदत्ता प्रत्युवाच मातरेकान्ततो ह्यहम् । धनानुरागिणी नास्मि किं त्वस्मि गुणरागिणी ॥ ८४ ॥ अमुष्य द्यूतकारस्य गुणास्तिष्ठन्ति कीदृशाः । इति कोपाजनन्योक्ता देवदत्तेत्यभाषत ॥ १५ ॥ धीरो वदान्यो विद्याविहुणरागी स्वयं गुणौ । विशेषज्ञः शरण्योऽयं नामुं त्यक्ष्यामि तत् खलु ॥ ८६ ॥ ततश्च कुटिनी रुष्टा कूटजुष्टा प्रचक्रमे । उच्चाटयितुं तनयां खैरिणी वैरिणीमिव ॥ ८७ ॥ साऽदात्तयाऽर्थिते माल्ये निर्माल्यं शरके पयः । इक्षुखण्डे वंशखण्डं श्रीखण्डे नीपखण्डलम् ॥ ८ ॥ सकोपं देवदत्तोता कुट्टिनी कुटिलाऽब्रवीत् । मा कुपः पुत्रि यादृक्षो यक्षस्तादृग्बलि: किल ॥२८॥ लतेव कण्टकितरं किमालम्बा स्थितास्यमुम् । सर्वथा मूलदेवं तत्त्यजापानमिमं पतिम् ॥ १० ॥ अवादीद्देवदत्तवं मात: किमिति मुह्यसि । पुमान् पात्रमपात्रं वा किमुच्येतापरीक्षितः ॥ १ ॥ परीक्षा क्रियतां तत्त्युक्ता साक्षेपमम्बया । मुदिता देवदत्तवमादिदेश ख वेटिकाम् ॥ २ ॥ यदिक्षी देवदत्ताया अभिलाषीऽद्य विद्यते। प्रेष्यन्तामिक्षव: सार्थवाहाचल ततस्त्वया ॥ ३ ॥ तयोक्त: सार्थवाहोऽपि धन्यमानी प्रमोदतः । शकटानीतुपूर्णानि प्रेषयामास तत्क्षणात् ॥ ४ ॥
।
१
॥