SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ २८८ योगशास्त्रे सर्वलोके विरुदत्वात् कन्यागोभूम्यलोकानि न वदेत् विश्वसितघातकत्वावधासापलापं न वदेत् पुण्यस्य धर्मस्य विपक्षरूपोऽधर्मस्तं हि वदन् प्रमाणीकतो विवादिभिरभ्यर्थ्यते धर्म ब्रूया. बाधर्ममिति । इति धर्मविपक्षत्वात्कूटसाक्ष्यं न वदेत् ॥ ५५ ॥ असत्यस्य फलविशेषमुपदर्शयंस्तत्परिहारमुपदिशतिअसत्यतो लघौयस्त्वमसत्याहचनौयता । अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥ ५६ ॥ लघीयस्त्वं वचनीयता चासत्यस्यैहिकं फलं, अधोगतिरामुभिकम् ॥ ५६ ॥ अथ भवतु लिष्टाशयपूर्वस्यासत्यस्य मिषेधः, प्रामादिकस्य तु का वात्याह असत्यवचनं प्राज्ञः प्रमादनापि नो वदेत् । श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥ ५७ ॥ आस्तां क्लिष्टाशयपूर्वकमसत्यवचनं, प्रामादिकमप्यज्ञानसंशयादिजनितवचनं न वदेत् येन प्रामादिकेनासत्यवचनेन श्रेयांसि भङ्गमुपयान्ति वात्ययेव महाद्रुमा इति दृष्टान्तः । यदाहुमहर्षयः'अअम्मि य कालम्मि पचप्पत्रमणागए । जमह तु न जाणेज्जा एवम ति णो वए ॥ १ ॥ (१) अतीते च काले प्रत्युत्पन्नमनागते । यमर्थ तु न जानीयात् एवमेतत् इति नो वदेत् ॥ १ ॥ * क ख ग छ ड अद्धम्मि ।
SR No.002393
Book TitleYogshastra Part 02
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy