________________
हितीयः प्रकाश: ।
२२१
प्रमोचि नमुचिं: प्राप्तः पञ्चत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव ॥ १ ॥ निर्वास्य कर्मचण्डालश्चण्डाल इव पत्तनात् । वध्योऽप्यमोच्चसौ राजा मान्यं हि गुरुशासनम् ॥ २२ ॥ सपनीभिश्चतुःषष्टिसहस्त्रैः परिवारिता। वन्दितुं तौ सुनन्दागात् खीरबमथ. चक्रिणः ॥ १३ ॥ सा सम्भूतमुनेः पादपद्मयोललितालका। पपातास्येन कुर्वाणा भुवमिन्दुमतीमिव ॥ १४ ॥ तस्थाचालकसंस्पर्श सम्भूतमुनिरन्वभूत्। .. रोमाञ्चितच सद्योऽभूलान्वेषी हि मन्मथः ॥ १५ ॥ अथ सान्तःपुरे राजि तावनुज्ञाप्य जम्मुषि। रागाभिभूतः सम्भूतो निदानमिति निममे ॥ ८ ॥ दुष्करस्य मदीयस्य यद्यस्ति तपस:फलम् । .... तत्स्त्रीरत्नपतिरहं भूयासं भाविजन्मनि ॥ ८७ ॥ चित्रोऽप्यूचे काहसीदं मोक्षदात्तपसः फलम् । मौलियोग्यन रन पादपीठं करोषि किम् ॥ १८ ॥ मोहात्कृतं तबिदानमिदानीमपि मुच्यताम् । मिथ्यादुष्कतमस्यास्तु मुन्ति न भवादृशाः ॥ ८ ॥ एवं निवार्यमाणोऽपि सम्भूतचित्रसाधुना। निदानं नामुचदहो विषयेच्छा बलीयसी ॥ १० ॥ नियूंढानशनौ तौ तु प्राप्तायुःकर्मसंक्षयो। ... सौधर्म समजायेतां विमाने सुन्दर सुरौ ॥१॥ .