________________
। योगशास्त्रे बिरुद्दमपि क्रियेत । क्षणिकतिनिर्माणार्थं तु समापयन्ति समाप्ति नयन्ति जन्म अन्यस्य वध्यस्य शरीरिणः । अयमर्थः परप्राणिमांसजन्यक्षणिकटप्तिहेतोराकालिकं परस्यायुः समाप्यत इति महदिदं वैशसम् ।
यदाह
योऽशाति यस्य तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका दृप्तिः प्राणैरन्यो वियुज्यते ॥ १ ॥ २५॥
मियखेत्युच्चमानोऽपि देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ॥ २६ ॥ नियस्व त्वमित्युच्यमानोऽपि न तु मार्यमाणो देही जन्तुर्जायमानमृत्युरिव दुःखितो भवतीति सर्वप्राणिप्रतीतम् । प्रहरणैः कुन्ततोमरादिभिर्मार्यमाणो विनाश्यमानः स वराको देही कथं भवेत् । परमदुःखित एव भवेदित्यर्थः । मरणवचनेनाऽपि दूयमानस्य निशितैः शौर्मारणमिति मृतमारणं तत्कथं सकर्ण: कुर्यादिति निन्दा ॥ २६ ॥
हिंसाफलं दृष्टान्तहारणाह
श्रूयते प्राणिघातेन रौद्रध्यानपरायणी ।
सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥ २७ ॥ श्रूयते पाकर्ण्यते एतदागमे । यदुत प्राणिघातेन हेतुना सुभूम