________________
द्वितीयः प्रकाशः ।
२३३
उपसृत्य कुमारस्तां पप्रच्छ स्वच्छया गिरा। का त्वमेकाकिनी किंवा किं वा शोकस्य कारणम् ॥ २२ ॥ अथ सा साध्वसाक्रान्ता जगादेति सगहदम् । महान् व्यतिकरो मेऽस्ति ब्रूहि कस्त्वं किमागतः ॥ २३ ॥ ब्रह्मदत्तोऽस्मि पञ्चालभूपतेब्रह्मणः सुतः । इति सोऽचीकथद्यावअदा सा तावदुस्थिता ॥ २४ ॥ आनन्दबाष्पसलिलोचनाञ्जलिविच्युतैः । सा कुर्वती पाद्यमिव पपातामुष्य पादयोः ॥ २५ ॥ कुमाराशरणाया मे शरणं त्वमुपागतः। मज्जतो नौरिवाम्भोधौ वदन्तौति रुरोद सा ॥ २६ ॥ तेन पृष्टा च साप्यूचे त्वन्माटचातुरस्माहम् । नाम्रा पुष्पवती पुष्पचूलस्याङ्गपतेः सुता ॥ २७ ॥ कन्यास्मि भवते दत्ता विवाहदिवसोन्मुखी। हंसीव रन्तुमुद्याने दीर्घिकापुलिनेऽगमम् ॥ २८ ॥ दुष्टविद्याधरणाहं नाट्योन्मत्ताभिधेन तु। अत्रापत्यानीतास्मि रावणेनेव जानकी ॥ २८ ॥ दृष्टिं सोऽसहमानो मे विद्यासाधनहेतवे । सूर्पणखासूनुरिव प्राविशदंशजालिकाम् ॥ ३० ॥ धूमपस्यो पादस्य तस्य विद्याद्य सेत्साति । शक्तिमान् सिद्ध विद्यः स किल मां परिणेष्यति ॥ ३१ ॥ ततस्तद्धवृत्तान्तं कुमारोऽस्यै न्यवेदयत् । हर्षस्योपरि हर्षोऽभूप्रियाला विप्रियच्छिदा ॥ ३२ ॥
२०