________________
२३४
योगशास्त्रे
तयोरथ विवाहोऽभूहान्धर्वोऽन्योऽन्यरतयोः । श्रेष्ठो हि क्षत्रियेष्वेव निमन्त्रोऽपि सकामयोः ॥ ३३ ॥ रममाणस्तया साई विचित्रालापपेशलम् । स एकयामामिव तां वियामामत्यवाहयत् ॥ ३४ ॥ तत: प्रभातसमये ब्रह्मदत्तेन शुश्रुवे । आकाशे खेचरस्त्रीणां कुररोणामिव ध्वनिः ॥ ३५ ॥ अकस्माज्जायते कोऽयं खे शब्दो नष्टष्टिवत् । तेनेति पृष्टा संभ्रान्ता पुष्पवत्येवमब्रवीत् ॥ २६ ॥ भगिन्यौ त्वद्विषो नाट्योन्मत्तस्येमे समागते । नाम्ना खण्डा विशाखा च विद्याधरकुमारिके ॥ ३७ ॥ तविमित्तं विवाहोपस्करपाणी इमे मुधा। अन्यथा चिन्तितं कार्य दैवं घटयतेऽन्यथा ॥ ३८॥ अपसर्प क्षणं तावद्यावत्त्वगुणकोर्त्तनैः । लभेऽहमनयोर्भावं त्वयि रागविरागयोः ॥ ३८ ॥ रागे रतां प्रेरयिष्थे पताकां तत्त्वमापतेः । विरागे चलयिष्यामि खेतां गच्छेस्तदाऽन्यतः ॥ ४० ॥ ब्रह्मदत्तस्ततोऽवादोन्माभैषीर्भीरु न त्वहम् । ब्रह्मसूनुः किमते मे तुष्टे रुष्टे करिष्यतः ॥ ४१ ॥ उवाच पुष्पवत्येवं नैताभ्यां वच्मि ते भयम् । एतत्सम्बन्धिन: किन्तु मा विरौत्सुर्नभश्चराः ॥ ४२ ॥ तस्याश्चित्तानुवृत्त्या तु तत्रैवास्थात् स एकतः । अथ पुष्पवती खेतां पताकां पर्यचौचलत् ॥ ४३ ॥