________________
४०८
षड्दर्शन समुझय भाग - २, श्लोक - ४५-४६, जैनदर्शन
स्वभावभेदानभ्युपगमे च सृष्टिसंहारादिविरुद्धकार्यकारित्वमतिदुर्घटम् । नापि तज्ज्ञानादीनां नित्यत्वं वाच्यं प्रतीतिविरोधात्, ईश्वरज्ञानादयो न नित्या ज्ञानादित्वादस्मदादिज्ञानादिवदित्यनुमानविरोधाञ्च । एतेन तदीयज्ञानादयो नित्या इत्यादि यदवादि तदपोहितमूहनीयम् । सर्वज्ञत्वमप्यस्य केन प्रमाणेन ग्राह्यम् ? न तावत्प्रत्यक्षेण, तस्येन्द्रियार्थसन्निकर्षोत्पन्नत्वेनातीन्द्रियार्थग्रहणासमर्थत्वात् । नाप्यनुमानेन, अव्यभिचारिलिङ्गाभावात् । ननु जगद्वैचित्र्यान्यथानुपपत्तिरूपं तदस्त्येवेति चेत् न, तेन सहाविनाभावाभावात्, जगद्वैचित्र्यस्य सार्वइयं विनापि शुभाशुभकर्मपरिपाकादिवशेनोपपद्यमानत्वात् । किंचायं यदि सर्वज्ञः, तदा जगदुपप्लवकरणस्वैरिणः पश्चादपि कर्तव्यनिग्रहानसुरादींस्तदधिक्षेपकृतोऽस्मदादींश्च किमर्थं सृजतीति नायं सर्वज्ञः । तथा बहूनामेककार्यकरणे वैमत्यसंभावनाभयेन महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्रकलत्रमित्रादिपरित्यजनेन शून्यारण्यानीसेवनतुलामाकलयति । अनेककीटिकासरघाशतसंपाद्यत्वेऽपि शक्रमूर्धमधुच्छात्रादिकार्याणामेकरूपतयाविगानेनोपलम्भात् । किंच ईश्वरस्याखिलजगत्कर्तृत्वेऽभ्युपगम्यमाने शास्त्राणां प्रमाणेतरताव्यवस्थाविलोपः स्यात् । तथाहि- सर्वं शास्त्रं प्रमाणमीश्वरप्रणीत्वादितरतत्प्रणीतशास्त्रवत्-प्रतिवाद्यादिव्यवस्थाविलोपश्च, सर्वेषामीश्वरादेशविधायित्वेन तत्प्रतिलोमाचरणानुपपत्तेः प्रतिवाद्यभावप्रसङ्गात् । इति न सृष्टिकरस्य महेश्वरस्य कथंचिदपि सिद्धिः । ततः सद्भूतार्थप्रकाशकत्वाद्वीतराग एव सर्वज्ञो देवो देवत्वेनाभ्युपगमनार्हो नापरः कश्चिदिति स्थितम । ટીકાનો ભાવાનુવાદ તથા કાર્યત્વ, સન્નિવેશવિશિષ્ટત્વ આદિ હેતુઓ વ્યભિચારી છે. કારણકે બુદ્ધિમાનકર્તા વિના પણ વિજળીવગેરેનો પ્રાદુર્ભાવ થતો જોવા મળે છે. અહીં વિજળી, મેઘવગેરે કાર્યસ્વરૂપ છે. ७॥२५॥ ॐ वि४जी यम छ,' भघ गईन। छ.' मी विणी, भेषमा आर्य छ, आभु સન્નિવેશ=બનાવટવાળા પણ છે, પહેલાં ચમકતી નહોતી તે ચમકવા લાગી અને પહેલા ગર્જના કરતા નહોતો તે ગર્જના કરવા લાગ્યા. આ રીતે વિજળી, મેઘ વગેરેમાં હેતુ રહેવા છતાં તેના બુદ્ધિમાનકર્તા નથી. આથી કાર્યવહેતુ વ્યભિચારી બને છે.
તથા સ્વપ્નાદિ અવસ્થામાં જે કાર્યો દેખાય છે, તેના કર્તા પણ બુદ્ધિમાન હોતા નથી. આથી કાર્યવહેતુ વ્યભિચારી બને છે.