________________ ऽङ्कः ] 4 अभिनवराजलक्ष्मी-भाषाटीका विराजितम् 49 अथ वा काममननुरूपमस्या वपुषो वल्कलं, न पुनरलङ्कारश्रियं न पुष्यति / कुतः सरसिजमनुबिद्धं शैवलेनापि रम्यं, __ मलिनमपि हिमाशालक्ष्म लक्ष्मी तनोति / इयमधिकमनोज्ञा वल्कलेनापि तन्वी, किमिव हि मधुराणां मण्डनं नाऽऽकृतीनाम् ? // 20 // ___ अथ वा = किं वा, पक्षान्तरे, कामम् = अत्यन्तम् , अस्या वपुषः = शरीरस्य, अननुरूपम् = असदृशम्, अयोग्यमपि, वल्कलं = वृक्षत्वग्वस्त्रमिदम् , अलङ्कारस्य = भूषणस्य, श्रियं = शोभां, न पुष्यति = न लभते, इति न पुनः = नैव खलु, किन्तु लभत एव, नद्वयेन प्रकृतार्थदायबोधनात् / कुतः ? = कस्मादेतत् ? / 'उच्यते' इति शेषः / तत्स्वयमेवाह सरसिजमिति / शैवलेन = शैवालेन, 'जलनीली तु शैवालं शैवल' मित्यमरः / अनुविद्धं = संपृक्तमपि, संश्लिटमपि, संसक्तमपि, सरसिज = कमलम् , रम्यं = मनोहारि / 'भवति' / यतः-मलिनमपि = मलीमसमपि, लक्ष्म = कलङ्कः, हिमांशोः = चन्द्रस्य, लक्ष्मी = शोभाम् , तनोति = पुष्णाति [ एव ] / अतः-बल्कलेनापि = वल्केनापि, इयं तन्वी = कृशतराङ्गयष्टिरियं शकुन्तला, अधिक = कामं, नितरां, मनोज्ञा = मनोहारिणी / यतः-मधुराणां = रम्या गाम् / आकृतीनां = रुचिरसस्थानानां वस्तूनां, कामिनीनामितियावत्, किमिव = किं तत् ? यत् , मण्डनं = भूषण, न = न __अथवा-इसके अनुरूप नहीं होते हुए भी यह वल्कल इसके शरीर पर रहने से अलङ्कार ( आभूषण) की तरह ही, इसके शरीर की शोभा को बढ़ा रहा है। क्योंकि कमल का पुष्प यदि शैवाल (जल की काई) से भी युक्त हो, तो भीरमणीय व सुन्दर हीमालूम होता है / जैसे चन्द्रमा का कलङ्क मलिन होते हुए भी चन्द्रमा की शोभा को बढ़ाता ही है। इसी प्रकार यह कोमलाङ्गी बाला भी इस वल्कलवस्त्र से अधिक सुन्दर ही मालूम होती है। ठीक ही है, सुन्दर एवं मनोहर आकृति वालों 1 कचिन्न /