Page #1
--------------------------------------------------------------------------
________________
जैनविविधसाहित्यशास्त्रमाला (७)
शान्तिनाथ चरित्रम्।
(नैषधीयसमस्यापूर्तिः)
Page #2
--------------------------------------------------------------------------
________________
जैनविविधसाहित्यशास्त्रमाला (७) .
महोपाध्यायश्रीमेघविजयगणिविरचितं
नैषधीयसमस्यापूर्तिरूपं शान्तिनाथचरित्रम् ।
BR
राजधन्यपुरनिवासिश्रेष्ठिवर्यत्रिकमचन्द्रतनूजेन कलिकाताविश्वविद्यालये संस्कृतप्राकृताध्यापकपरीक्षकेण न्याय व्याकरणतीर्थोपाधिकेन पण्डितहरगोविन्ददासेन परिष्कृत्य संशोधितम् ।
वीरसंवत् २४४४।
मूल्यमेको रूप्यकः ।
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________
Jaina Vividha sahitya Shastramála (9)
SHANTINÁTHA-CHARITRA
(Naisha dhiya-Samasya púrti).
OF
MAHOPÁDHYÁYA SHREE MECHA VIJAYJI.
EDITED BY
Pandit HARGOVIND DAS T. SHETH, NYAYA-VYAKARANTIRTH,
CALCUTTA UNIVERSITY LECTURER IN SANSKRIT.
1918.
Price one Rupee.
Page #5
--------------------------------------------------------------------------
________________
Printed by MUNSHI GAURI SHANKAR LAL at the Chandraprabha Press,
BENARES CITY
and Published by V. G. JOSHI, the Manager JAIN YIVIDHA SAHITYA SHASTRAMALA PFFICE,
BENARES CITY.
Page #6
--------------------------------------------------------------------------
________________ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरप्रशिष्य* मुनिश्रीकर्पूर विजयजी महाराज OG श्रीजैन-विविध-साहित्य-शास्त्रमालाके परिपोषक / 7 Geo. P. W., Benares,
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________
प्रस्तावना ।
श्रस्य शान्तिनाथचरित्रनाम्नो ग्रन्थस्य प्रणेतारस्त एव महोपाध्यायश्री मेघविजयगण्यः येषां सत्ता समय-तत्तद्ग्रन्थविनिर्माणादिकं वृत्तान्तं तैरेव विरचितस्य, एतस्यामेव च जैनविविधसाहित्यशास्त्र मालायां तृतीयाङ्करूपेण प्राकाश्यमुपनीतस्य सप्तसंधान महाकाव्याभिधानस्य ग्रन्थस्य प्रस्तावनायामहं न्यरूपयम् इति पुनरत्र तदुल्लेख मक्कृत्वा प्रस्तुत ग्रन्थविषयमेव किञ्चिद् वक्तुमुचितमुत्पश्यामि ।
1
"
अस्मिन् ग्रन्थे महाकविश्रीहर्षप्रणीतस्य सुप्रसिद्धस्य नैषधीयमहाकाव्यस्य समस्यापूर्त्तिद्वारा भगवतः श्री शान्तिनाथस्य जन्मतः प्रभृति निर्वाणावसानं चरित्रं सुललिततया व्यावर्णितम् । अत एव प्रतिसर्ग प्रान्तभागे "इति श्रीनैषधीयमहाकाव्यसमस्यायाम्”" - इत्यादि वदता ग्रन्थकर्त्राऽस्य "नैषधीय समस्या" इत्यप्यभिधानं व्यधायि ।
मेघदूतादिसमस्याषामिव चात्र न केवल स्तत्रत्यो ऽन्त्यस्तदन्यो वैक एव पादः प्रतिश्लोकं गृहीतः, किन्तु तत्रत्यप्रत्येकश्लोकस्य चतुरोऽपि पादाननुक्रममादायाऽत्र प्रतिश्लोकमेकैकपादो
१ केवलमत्र नैषधीयाष्टाविंशस्य लोकस्य चतुर्थपादस्य पूर्त्तिर्नोपलभ्यते, तत्र ग्रन्थकारस्य तदप्रणयनं वा, विशेषतो लेखकस्य प्रमादेन तत्यागं वा विहाय किमन्यत् कारणमभिधातुं शक्यते ? |
Page #9
--------------------------------------------------------------------------
________________
[२]
यथास्थानं विनिवेशितः, क्वापि क्वापि चैक एव पादो द्वित्रिर्वाऽऽवर्त्य भिन्नाभिन्नार्थभङ्गीकेषु श्लोकेषूपनिर्वद्धः । एवं च संपूर्णस्य प्रथमसर्गस्य पादपूर्त्तिमधिकृत्य षट्सु सर्गेषु विभज्य ग्रन्थमेन समाप्तिमनयद् ग्रन्थकारः ।
प्रतिश्लोकमिह समस्यारूपेणोपात्तस्य नैषधीयपादस्य भेदेनोपलक्षणाय लध्वक्षरेषु मुद्रणं विहितम् । यद्यपि समस्यापादानामेषामत्रत्यानां निर्णय सागरीय नैषधीयपुस्तकस्थानां च परस्परं कचित्पाठभेदोऽपि दृश्यते, यथा नैषधीये "दिगङ्गनाङ्गावरणं रणाङ्गणे' ( श्लो० १२ ), श्रत्र च "दिशां गणस्यावरणं रणाङ्गणे" (स० १, श्लो० ४८ ); एवं नैषधीये "कुतः परं - ( श्लो० २४ ) अत्र तु " श्रतः परं ' - (स० १, श्लो० ६६ ) इत्यादि, तथाप्यत्रत्यानां केषाञ्चिद् भिन्नपाठानामुल्लेखस्तत्र नैषधीयपुस्तके क्वचिट्टीकायां कुत्रचिच्च टिप्पण्यां पाठान्तररूपेण कृतो लोचनगोचरीभवति, यथा "न शारदः पार्वणशर्वरीश्वरः " (स० १, श्लो
१ क्वचिच्च पादस्थानस्यापि व्यत्ययेन निबन्धोऽत्र विलोक्यते; यथा, नैषधीयस्य ( लो० ६१ ) द्वितीयपादोऽत्र (स० २ लो० ११९ ) तृतीय - पादरूपेण, नैषधीयस्य (झी० १०१) तृतीयपादोऽत्र (स० ४, श्लो० ३५ ) प्रथमपादात्मना, नैषधीयस्य ( लो० १०९ ) द्वितीय: पादोऽत्र ( स० ४, लो० ६६) तृतीयपादस्वरूपेण निबद्धः । २ दृश्यन्तां पृष्ठानि २९, ४०, १५३ । ३ क्वचित्समस्यापादरहितोऽपि लोको विलोक्यते, यथा स० २, लो० १०३ | 8 नैषधोयपुस्तके “न शारदः पार्विक शर्वरीश्वरः" (लो० २०) इति पार्वणशब्दस्य स्थाने पार्विक शब्दोऽपि, टीकायां तु सोऽपि निर्दिष्टः ।
Page #10
--------------------------------------------------------------------------
________________
[ ३ ]
= १ ); "विशिष्य सा भीमनरेन्द्रनन्दिनी ( स०२, ७) "निषेवितुं देशमियेष नैषधंः” (स० २, ६६ ) " पुरोपकण्ठं स वनं किलेक्षितां । स०२, ६६ ) इत्यादि । एतेन समस्यापूर्ती गृहीतानां भिन्नपाठानामपि संवादः, ग्रन्थकारसमयेऽधिकतरः प्रचारोऽपि च सुशकाभिघातो भवति ।
यस्तु "स्मरस्त्रि" - ( नै० श्लो० ४५ ) इत्यस्य स्थाने "स्मरंस्त्रि - ( स० २, श्लो० ५६ ) इति, “त्रपासरि - ( नै० श्लो० ४८ ) इत्यस्य स्थाने "त्रपाः सरि - ( स० २, श्लो० ६७ ) इत्यादावनुस्वारविसर्गयोरतिरेकः; यश्च “नलः " ( नै० श्लो० ४७ ) इत्यस्य स्थाने "नर:” ( स० २, श्लो० ६४ ) इत्यादौ लकाररकारयोरभेदः; यत् पुनः “शम्बर" - ( नै० श्लो० ५३ ) इत्यस्य स्थाने "संवर” - ( स० २, श्लो० ८७ ) इत्यादौ च बवयोरैक्यमत्र दृश्यते, तत् सर्वमपि
" समक श्लेषचित्रेषु बवयोर्डलयोर्न भित् । नानुस्वारविसर्गौ च चित्रभङ्गाय सम्मतौ ॥”
( वा० अ० ) इतिवचनाद् न मनागपि दोषावहं भवतीति प्रायः प्रातीतिकमेतत् साहित्यार्णवावगाहिनां सहृदयानाम् |
१ नैषधीय पुस्तके लो०३३) “नन्दिनी" -स्थाने 'नन्दना' इति, fecurri नन्दिनी ' इत्यपि । २ नैषधीयपुस्तके ( लो० ५५ ) "नैषधः" इत्यस्य स्थाने "निर्जनम्" इति पाठः, टिप्पण्यां तु सोऽपि । ३ नैषधीयपुस्तके “पुरोपकण्ठोपवनं किले क्षिता” (लो०५६ इति पाठः; टिप्परयां त्वत्रत्योऽपि ।
८
Page #11
--------------------------------------------------------------------------
________________
.[४] अस्य ग्रन्थस्यादर्शपुस्तकमेकं प्रायः शुद्धं शास्त्रविशारदजैना. चार्यश्रीविजयधर्मसूरीणामवापमिति कृतज्ञोऽस्मि तेषाम् । पुस्तकस्यास्य प्रान्तभागे "समस्यास्य शास्त्रस्य सन्नैषधस्य कृता नूतना पाठकः पाठकायैः ।
सुपात्रणभृच्छात्ररत्नाभिधेन समुत्तारिता सत्प्रतिः सुन्दरीयम् ॥" इति लेखकनामगर्भ श्लोकमिममन्तरेण नान्यः कश्चिल्लेखनसम- . याद्युल्लेखो वर्तते, तथापि जीर्णत्वादिना तस्याः प्राचीनत्वं यावद्ग्रन्थकारसमसमयभावित्वं विभाव्यते। .
अत्र च पुस्तके समुपलब्धमितस्ततो व्यस्ततयोल्लिखितं टिप्पनकं यथास्थानं विनिवेश्य क्वचिश्चापेक्षितस्थलेषु तत्रानुपलन्धमपि स्वत उपनिबध्य च यथाशक्त्यस्य संशोधनकर्मणि विहि. तप्रयत्नोऽपि यत्र कचन मतिमान्यतःप्रमादतो वा स्खलितोऽभ. वम्, तत्र कृपापरीतचेतसः सहृदयान् क्षमा याचमानो विरमामि
हरगोविन्दः।
Page #12
--------------------------------------------------------------------------
________________
महोपाध्यायश्रीमेघविनयगणिविनिर्मित
नैषधीयमहाकाव्यसमस्यारूपं श्रीशान्तिनाथचरित्रम् ।
82
श्रियामभिव्यक्तमनोऽनुरक्तता
विशालसालत्रितयश्रिया स्फुटा । तया बभासे स जगत्त्रयांविभु
बलत्प्रतापावलिकीर्तिमण्डलः ॥१॥ निपीय यस्य क्षितिरक्षिणः कथाः
सुराः सुराज्यादिसुखं बहिर्मुखम् । प्रपेदिरेऽन्तःस्थिरतन्मयाशयाः
सदा सदानन्दभृतः प्रशंसया ॥२॥ १ श्रियाम् अभिव्यक्तं-शुद्धं मन उज्ज्वलं, श्रियां धवलत्वं पवित्रत्वात्, तत्र अनुरागः प्रणयः, स रक्तः। एवं च सितपीतयोरैक्यात् पीतत्वमपि सूचितम् , वप्रत्रये रूप्य-रै-रत्नमये वर्णत्रयं स्यादेव । 'श्रियां' इति बहुत्वं जिने सर्वज्ञत्वेन सर्वश्रीहामनुरागसूचकम् । 'प्राम्' इति मन्त्रपदसूचकम् ।
Page #13
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रेयथा श्रुतस्येह निपीततत्कथा___ स्तथाऽऽद्रियन्ते न बुधाः सुधामपि । सुधाभुजां जन्म न तन्मनःप्रियं
भवेद् भवे यत्र न तत्कथाप्रथा ॥३॥ यदीयपादाम्बुजभक्तिनिर्भरात्
प्रभावतस्तुल्यतया प्रभावतः । नलः सितच्छत्रितकीर्तिमण्डल:
क्षमापतिः प्राप यशःप्रशस्यताम् ॥४॥ द्विधापि धर्मानुगतिर्महीपति
दृढविधेः शैशव एष सेवधिः । क्रमेण चक्री विजये दिशां जिनः __ स राशिरासीन्महसां महोज्ज्वलः ॥५॥ रसैः कथा यस्य सुधावधीरिणी . कृता सकृत् कृन्तति दुष्कृतं नृणाम् । १ सूर्यस्य । २ "धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ।
_ सत्सङ्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि ॥" ३ अवधिः अवधिज्ञानम् । ४ महै। उत्सवैः, उज्ज्वला, "उज्वलस्तु विकासिनि शृङ्गारे विशदे दीप्ते" हे। .
Page #14
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ।
हिमाद्रिजाता लहरी नभखतः
क्षमातले तापमिवागता स्वतः ॥६॥ अमुष्य संसेवनया नयाश्रयाद् नलः स भूजानिरभूद् गुणाद्भुतः । रयात् समुत्तीर्य दुरोदरादराद् दुरापदं चन्द्र इव होदिताम् ॥७॥ सवर्णनीयस्तत एव लक्षणै
विचक्षणैः संप्रति संनिधानतः । सुवर्णदण्डैक सितातपत्रित
प्रभावकीत्योर्जनचित्तचित्रितः ॥८॥
रसाद्दशास्योऽप्यदसीयसेवने
satः प्रभुर्भास्वर कान्तिभास्करः । बभूव भूवल्लभदेवजित्वर
ज्वलत्प्रतापावलिकीर्त्तिमण्डलः ||९||
पवित्रमत्रातनुते जगद् युगे
भिधा विधानैर्बहुधा स्मृता विभोः ।
१ ग्रहणजा ताम् । २ अद्यापि लोके स्मरग्रीयः ।
Page #15
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
अरिष्टशान्तेर्नलिनीशपेशलद्युतेः सतेजोऽनुभवेन संगतेः ॥ १०॥ बहुश्रुतानां वदनादनाश्रवैः
श्रुता रसक्षालनयेव चत्कथा | ददाति सोच्चैःश्रवसो नियोजनाज्जनेऽनिमेषाद्विबुधक्रियां शुचिम् ॥ ११ ॥ समाधुरीका न कटुः श्रुतावपि
निशामनाद याऽऽन्तरकश्मलापहा । कथं न सा मद्विरमाविलामपि
न शोधयेन्नाथकथा यथास्थिता ? ॥ १२ ॥ ययाऽऽख्यया भव्यनृणां शुचीकृतं स्मृतेर्मनो भावनया जगद्गुरोः । इयं विशेषात् प्रतिभां कथं न मे स्वसेविनीमेव पवित्रयिष्यति ? ॥ १३ ॥ अधीतिबोधाचरणप्रचारणैः
१ अन्यत्र श्राश्रवे ऽलग्नमनोभिः सावधानैरित्यर्थः । २ उच्चैःश्रवाः=अश्वः, उत्कर्णता च । ३ विबुधाः = देवाः, पण्डिताश्च । ४ " निशमनं निशामनं निरीक्षणश्रवणयोः" इत्यने० ।
Page #16
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। . श्रुताम्बुधि नगभीरनीरवान् । प्रभुर्विहारेण चतुर्दिगन्तरे
विमोहपकं कुरुते स्म दूरतः ॥१४॥ नयेवधीत्याचरणानयेन स
दशाश्चतस्रः प्रणयन्नुपाधिभिः । रसाधिकत्वाद् द्विगुणत्वमादधे
चतुर्दशासंस्तत एव तत्प्रभाः ॥१५॥ स नैषधीभावमुपेत्य भूभुजां - ब्रजस्य रेमे हृदि तद्गुणस्पृशि । चतुर्दशत्वं कृतवान् कुतः स्वयं
निजात्मनाऽनन्तविबोधनेधिकः ॥१६॥ प्रभामयीं स्वीयपुरी तथाऽतनोत्
१ सप्तनयेषु षड्दर्शनरूपेषु द्वादशत्वं रसाधिकत्वे १४ । २ निषधा हि नगरी कौशलदेशाश्रिता, कौशलो हि देशः सर्वेषु मुख्यः, अयोध्याश्रितत्वात्, तेन नैषधीभावं श्रीऋषभदेवभावमित्यर्थः । “निषधस्तु कठिने पर्वतेश्वरे देशतद्राजयोश्चापि " इत्यनेकार्थः। ३ कौमारे राज्ये चक्रिभावे तीर्थकरत्वे च प्रत्येक पञ्चविशतिसहस्रवर्षभोगाचतुर्दशतेति ।
Page #17
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
पुरा जिनोऽत्स्वपि पूर्वचक्रभृत् । जनो न यस्यामितिगीरदः पदं न वेद्मि विद्यासु चतुर्दशखयम् ॥ १७॥ अमुष्य विद्या रसनाग्रनर्तकी
भविष्यतीत्येव विमर्शपूर्वकम् । विधिः पुरे तानुदपादि सज्जनान् प्रबोधशुद्धाम्बुधिजातमजनान् ॥१८॥ पुरन्दरस्यापि पुरा पुरा सखी त्रयीव नीताङ्गगुणेन विस्तरम् । सहिताऽप्याह्निवृत्तिसोदया
पुरी स्वशाखा बहुल द्विजाश्रया ॥ १९ ॥ चतुर्दशत्वं दधती शुभां श्रमैस्तथैव वर्णैः ककुभो जनागमैः । अगाहताष्टादशतामपीप्सया
१ पदं = स्थलमधिकारं वा । २ ससंहिता = वेदपाठः, पक्षे लोकानां परस्परं सांगत्यं च । ३ श्रह्निकम् = अधिकारविशेषः, वृत्तिः =प्रतिदिनमाजीविका तथा सोदया= उदयवती । ४ शाखा = वेदशाखा वृक्षशाखा च । ५ द्विजाः = पक्षिणः, विप्राश्च । ६ चतुर्भिः । ७ षडूभिः ।
Page #18
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। पृथग्देशाशाजनरङ्गसंगमैः ॥२०॥ अनेकवस्तुपचयैर्नृपस्तुतैः
स्ववास्तवैः प्राज्ञजनस्य संस्तवैः । पुरी सुरीणां रमणीयतां ययौ __ नवयद्वीपपृथग्जयश्रियाम् ॥२१॥ दिगीशवृन्दांशविभूतिरीशिता ___ जनस्य सर्वस्य सुशिक्षया पिता । पितामहस्तैच्चतुराननश्रिया
प्रशास्ति यां शान्तिविभोः पिता पुरीम् ॥ विवेचने वा वचनेऽञ्चनेऽथवा ___ दिशां स कामप्रसरावरोधिनीम् । प्रवृत्तिमाधाय धिया नयाश्रयां
स्वबोधिशोधिप्रभुतां दधेऽधिपः ॥२३॥ प्रतिप्रभाताध्ययनैनवैः स्तवै
जिनेन्द्रपूजाजनने महोत्सवैः । १ षट्स्थाने दशदिशां गणनात् आश्रमाः ४ वर्णाः ४ एवं १८ । २ तच्छब्देन शिक्षा तत्र निपुणं मुखम् , पक्षे विधिः। ३
विश्वसेनः।
Page #19
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रबभार शास्त्राणि दृशं द्वयाधिका___ मतुल्यकुंल्याचरणैः पुरीजनः ॥२४॥ त्रिधा प्रभासं-गतमस्ति हस्तिना
पुरं पुरन्ध्रीजनविश्वरञ्जनम् । दृशं दधे गोधिकृतामिहावसन्
निजत्रिनेत्रावतरत्वबोधिकाम् ॥२५॥ पदैश्चतुर्भिः सुकृते स्थिरीकृते
पुरे विशङ्कोऽपि न कोऽपि तामयात् । सविद्रुमाभे भवने वनेपि वा
दिवानिशं देवनतः सभावनः ॥२६॥ जनेन यूना विषयप्रयोजने
१ कुल्यं-कुलोचिताचारः, पक्षे कुल्या नदी, तदाचरणैः शा. स्त्राणां पावित्र्यं सरसत्वं च नद्याचरणकथनात् "तीर्थं शास्त्र गुरौ यज्ञे पुण्यक्षेत्रावतारयोः" इत्यने । २ त्रिधा-प्रभासं तीर्थ गतं प्राप्त, विस्तारण, प्रभा अलका तया संगतं मैत्री यस्य; प्रभा-तेजः तेन संगतं सहितम् । ३ दृशं दृष्टिं सम्यक्त्वं वा । ४ गवि-स्वर्गे देवैः प्रशंसितां परीक्षितां. पक्षे गोधौ-भाले कृतां= स्थापिताम् । ५ विशिष्टद्रुमाः, प्रवालरत्नं वा। ६ देवेजिने नतः, क्रीडातो वा; सभावना सभाया अवनः रक्षकः, भावनया स. हितश्च; भावनैः भवनपतिभिः सहितो वा।
Page #20
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ।
कृतेऽमुना के न तपः प्रपेदिरे ? | प्रपन्नमासन्नवने सभावने
saनेर्नृपान्नामयता यतात्मना ॥ २७ ॥ पिनाकिवन्नाकिविनायकार्चित
स्तपोवने तप्यति योगिनां गणः ।
भुवं यदेकांहिकनिष्ठया स्पृश
न्नुपादिशन्नूर्ध्वदिशः प्रवेशनम् ॥ २८ ॥ तदीयेवोदयमत्र धार्मिकं
विमृश्य मन्ये बहुमन्युना ज्वलन् । फलेन हीनां स्वत एव पित्सया
दधावधर्मोऽपि कृशस्तपखिताम् ॥२९॥ यस्य यत्रासु बलोद्धतं रजः
प्रजाव्रजे ध्वान्तभिये भविष्यति । इतीव वेधा विदधे मणीमया
ञ्जनालयांस्तत्र नृपस्य पश्यतः ॥ ३०॥
१ प्रपा=जलदानस्थानं तैः इन्दिरा = लक्ष्मीर्यत्र । २ " तपखिनी पुनर्मासी कटुरोहिणिकापि च " इत्यनेकार्थः, "तपस्वी तापसे दाने" इत्यपि । ३ श्रस्य = लोकस्य, योगिगणस्य राज्ञो वा । ४ “ यात्रोत्सवे गतौ वृत्तौ " इत्यनेकार्थः ।
Page #21
--------------------------------------------------------------------------
________________
१०. . शान्तिनाथचरित्रेपुरोऽप्यमुष्या नृपतेः प्रयाण __ स्फुरत्प्रतापानलधूममञ्जिम । रजश्वलद्वाजिखुराहतं द्विषां
पुरस्तदाख्यातुमिव स्थितं मुखे ॥३१॥ पुरेऽर्थिभिश्चार्थिजनाय दित्सुभि
रदापि नीरं क्रमवृद्धवीचिभिः । तदेव गत्वा पतितं सुधाम्बुधौ ।
विधौ ग्रहानन्तरशौचकर्मणे ॥३२॥ यशः स्वरूपाददसीयनागर
प्रदानजन्यं कृतविश्रमं दिवि । जगद्ममात् तत्कमचारजं रजो
दधाति पङ्कीभवदतां विधौ ॥३३॥ स्फुरधनुनिखनतद्धनाशुग- .
प्रवर्षणैर्भूमिपतेयशस्तरुः । सपल्लवश्चित्रमिदं न किन्तु तद्
१ अर्थिभिः धनिभिः। २ "हरेः पदोर्देवधुनीयतेऽधुना" इति वा पाठान्तरम्।
Page #22
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। रिपुस्तदोपल्लवलक्षवानभूत् ॥३४॥ अहर्निशं दातुरनन्तरोदक
प्रगल्भवृष्टिव्ययितस्य सङ्गरे नृणां मनस्तापविभावसोरभूत्
स धूमभूमी कृपणानने स्थिरः ॥३५॥ अदःपुरः मापबहुप्रतापजै
दिवाकरः प्रादुरभूत् कराकरैः। निजस्य तेजःशिखिनः परःशताः
परे रुचिभ्रंशमिहाभिलेभिरे ॥३६॥ द्विषन्मनाकाननदाहसाहसी
प्रतापवह्निः प्रससार भूपतेः । तदीय॑येवात्र विशिष्य भूतले
वितेनुरङ्गारमिवाऽयशः परे ॥३७॥ अनल्पदग्धारिपुरानलोज्ज्वलैः
प्रतापरोचिनिचयैर्भुवः पतिः। १आपदां लवा-लेशाः तेषां लक्षः। २ “सङ्गरोऽङ्गीकृते युद्धे क्रियाकारे विषापदोः। सङ्गरं तु फले शम्याः" इत्यने । ३ शिखिनः बहयः।
-
Page #23
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
रराज राजन्यसमाजमध्यगः स विश्वसेनः खरसेन तत्पुरे ॥ ३८ ॥ द्विधा क्षमापस्य चिरस्य तापतो निजप्रतापैर्वलयं ज्वलद्भुवः । स्वतः परित्यज्य गताः कचिदने वनेचराभाः क्षितिपा द्विधाऽरयः ||३९|| ss विश्वसेनस्य विनश्यदापदः पदं सुराज्यस्य सुरासुरार्चितम् । प्रदक्षिणीकृत्य जयायै - सृष्टया
यशः श्रियाऽलम्भि यतो जगत्त्रयम् ॥४०॥ क कौशिकस्य प्रभुतासुराद्भिया ऽनिमेषभाजोऽक्षिसहस्रसंगमे । अतोऽत्र राजाऽनुपमस्त्रिविष्टपे
रराज नीराजनयासराजघः ॥ ४१ ॥
१२
१ क्षमा = भूः, पक्षे तितिक्षा । २ क्षितिं भुवं क्षयं च पान्ति रक्षन्ति । ३ श्रायः = लाभः । ४ नितरां राजनये श्रास्ते इति नीराजनयासः, स चासौ राजघश्च यद्वा, निर्गतो राजनयोऽत्र तम् श्रस्यति क्षिपति स तथा ।
Page #24
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। . . १३ निवारितास्तेन महीतलेऽखिले
— ऽप्यनीतयो नीतिकरेण भूभुजा । कुतो भवेत्तद्विषयेऽप्यदृष्टव
द्भयं नु दृष्टं परिशिष्टमप्यतः ॥४२॥ द्विधा क्षमायाः प्रतिपायिना जने __ निरीतिभावं गमितेऽतिवृष्टयः। जहुर्न ताः खिन्नवपुर्जलच्छलाद्
भयद्रुतदिड्नृपसंगमं श्रमात् ॥४३॥ विनाशनं नाशनमेव केवलं
कुशासनं वो न पुनः कुशासनम् । न तत्यजुर्नूनमनन्यविश्रमा
अमी श्रमास्तस्य नृपस्य विद्विषः ॥४४॥ हृदि भ्रमा नो भुवि विभ्रमाः श्रवः
पुटेऽपटुत्वे न तथा-ध्वनि-ग्रहाः। बभूवुरन्यत्तिमिरेण साञ्जनाः
१ दृष्टं ख-परचक्रजं भयं कुतस्तस्य देशे भवेत् ? अदृष्टं वह्निखोयादेर्भयम् । २ कु-भूमिः। ३ ध्वनिग्रहा:-शब्दग्रहणानि क पटुत्वे न स्युः, पक्षे अध्वनि-मार्गे निग्रहाः बन्धा जाता।
-
Page #25
--------------------------------------------------------------------------
________________
शान्तिनायचरित्रेप्रतीपभूपालमृगीदृशं दृशः ॥४५॥ सितांशुवर्णैर्वयति स्म तद्गुणै
यशोऽम्बरं त्वम्बरभागवाससे । तदीयजाड्यक्षतये महीशितुः
प्रतापवह्नि विधिना विधिय॑धात् ॥४६॥ नृपेण देशे धृतसूत्रसंचयै
महासिवेम्नः सहकृत्वरी बहुम् । खदोस्तुरीयं चपला सितांशुक
प्रभाविशेष जनयांबभूव तम् ॥४७॥ विपक्षपक्षस्य पतद्भिरंशुकैः
पेलायितौ केवलगात्रपालनात् । दिशां गणस्याऽऽवरणं रणाङ्गणे
बभूव भूवल्लभरागशालिनः ॥४॥ शशाक कर्तुं नृपकेतुवायुभि
स्त्रुटद्भिरेवाहितसूत्रजालकैः । इतस्ततो नो चरणाद् रणान्तराद्
१ चपला इयं तुरी, यद्वा तुरीयं-चतुर्थ युगम् । २ पलायि: जिम्नाशस्तत्र । ३ वनपर्वतादि दुर्ग यावत्पश्यतः।
Page #26
--------------------------------------------------------------------------
________________
प्रथमः सर्गः।
१५ यशःपटं तद्भटचातुरी तुरी ॥४९॥ . प्रतीपभूपैरिव किं ततो भिया
विरुद्धतान्यविषयय॑षेध्यत । तदर्तवोऽन्योन्यगुणानुगुण्यतः
सुखाय भूभृद्विषये बभूविरे ॥५०॥ मिथः सुरैरप्यसुरैर्भयातुरै
विरुद्धधर्मैरपि भेत्तृतोज्झिता। मणीगणच्छायमिहातपेऽप्येदो
विरोचते चैकपदे दिवि द्युतेः ॥५१॥ बलानुषक्तोऽप्यबलानुरागवान्
कृतानुकम्पोऽननुकम्पशासनः। अमित्राजन्मित्रजिदोजसा स य
ल्लसत्प्रभावोऽप्यलसत्प्रभाववान् ॥५२॥ क्षितीश्वरोऽप्यक्षितिभृर्द्धने जने
१ यशःपटं कर्तुं नो शशाक इति समन्वयः। २ विषयः= शब्दरूपरसादिकैः। ३ तदा ऋतवः । ४ अलस इव आचरन्ती अलसन्ती क्विपि शतरि ईदृशी स्थिरा प्रभा कान्तिस्तस्या अवनं रक्षणं अवः तद्वान्, यद्वा 'ऽनलसत्प्रभाववान् ' इति पाठे अनलाः अभिः । ५ धने तथा जने न क्षयभृत्-घने बने पूर्ण इत्यर्थः।
Page #27
--------------------------------------------------------------------------
________________
, शान्तिनाथचरित्रेऽअनेन मुक्तोऽपि जनेन संहितः । अमुक्तशूरोऽपि स मुक्तधीरधी
विचारदृक् चारदृगप्यवर्तत ॥५३॥ तदोजसस्तयशसः स्थिताविमौ
जगत्कृताऽऽगृह्य नियोजितौ हरी । सुरासुरेशौ तदसारभावतः
समीरनुन्नौ दिवि वा गतौ भुवि ॥५४॥ विधिः परे भूमिभृतः कृता मया
वृथेति चित्ते कुरुते यदा तदा । तदीयसाराश्रितविश्वसेनया
नयेन नित्यं त्रियते स भूपतिः ॥५५॥ यदाऽरुणस्तापयतेऽतिदारुण
स्तलं भुवस्तत्र विधिः स्मृतावधिः । तनोति भानोः परिवेषकैतवाद्
निबन्धनं तन्मेहसाऽहसाऽवशी ॥५६॥ भृशं यशःस्पर्धितया तथाऽऽख्यया .... मुक्तं द्विधा पाणियन्त्राभ्याम् । २ तस्य रास्तेजसा ।
Page #28
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। प्यधिक्रुधाऽऽकृष्टभरूपरूप्यकः। रुरुत्सुरुच्छृङ्खलया करोत्ययं
तदा विधिः कुण्डलनं विधोरपि ॥५७॥ अयं दरिद्रो भवितेति वैधसीं
क्रियां परामृश्य विशिष्य जापतः। विधेः प्रसत्त्या स्ववदान्यताकते
नृपः सदाऽर्थी भवितेत्यलीलिखत् ॥५८॥ करात् करेऽर्थं निदधन्नृपोर्थिता
लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । वदेत् सुधीर्योऽप्यवधीर्य तन्मति
दृढीचकार स्वमतं स्वतन्त्रधीः ॥५९॥ अलीकवृत्तेस्तदलीकवृत्तितां
नृपोर्थिनामक्षरसंततेस्ततः । मृषा न चक्रेऽल्पितकल्पपादपः
१ प्राकृष्टा भरूपानक्षत्ररूपा रूप्यका येन । २ अर्थितारूपा या लिपिस्ता ललाटे जाग्रती यः सुधीः कथयेत् तस्य मतिमवगणय्य; कश्चिद् वक्ति-वैधसी लिपिर्ललाटे'। तदशुद्धम् , करेण करे द्रव्यं दीयते, कर एव विधिलेख इति भावः ।
Page #29
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
स धातुधार्यार्थविपर्ययादिव ॥ ६०॥ भवेन्न संसारपदं ममाश्रये कदापि संसारवतां विदूरतः । कृतः क्षितीशेति धनीवनीपकः
१८
प्रणीय दारिद्र्यदरिद्रतां नरः ||६१|| विभज्य मेरुर्न यदर्थिसात् कृतो मया रयाद् दिग्विजयान्तरायकृत् । इतीव विज्ञाय विधौ महोदधौ निमज्जयामास गिरिगिरिं दिवः ॥६२॥ कलङ्कितः प्रागपि सेतुकेतुना न सिन्धुरुत्सर्गजलव्ययैर्मरुः ।
१ 'अर्थणि याच्ञायां' अत्र याच्ञार्थः, पक्षे श्रर्थः = द्रव्यं, धातुधार्योऽर्थः याच्ञा, तद्विपर्यये श्रयाचकः । धातुना रूप्यकादिना धार्यः करणीयः श्रर्थस्य याच्ञारूपस्य विपर्ययः, व्यापारेऽर्थविपर्ययः । यद्वा 'श्रयं दरिद्रो भविता' इत्यत्र 'न भविता' इति विपर्ययः, भूधातोस्तृचि नञ्तत्पुरुषः । २ शं= सुखं सारस्य=धनस्य पदं स्थानं दूरे न भवेत् । ३ यद्वा नल इव नलः, लुप्तोपमा, नलराजस्य पूर्व भावात् । ४ गिरिः =नृपः “गिरिः पूज्येऽक्षिरुजि कन्दुके शैले गिरीयके गीर्णावपि" इत्यनेकार्थः ।
Page #30
--------------------------------------------------------------------------
________________
प्रथमः सर्गः।
कृतो निवासाय महीस्पृशामतो व्यशोषयत् तं वडवाभिना नृपः ॥ ६३ ॥ न चौर्यचर्यापहृताभिधानतः पुराणवृत्तौ न दरिद्रमुद्रणा । अमानि तत्तेन निजायशोयुगं
भ्रुवोर्द्वयस्य व्यपदेशलेशतः ॥ ६४ ॥ यशःप्रतापानुगपुष्पदन्तयो
र्मयोजितेनापहृतं न दुस्तमः । तदेव मेने नृपतिः स्वदुर्यशी
द्विफालबद्ध | चिकुराः शिरः स्थितम् ॥ ६५ ॥
अजस्रमभ्यासमुपेयुषा सम
कलत्ररत्नेन मुदाऽचिराहया ।
१९
यथेच्छयाऽसौ विषयोपभोगत
विराय राज्यं विदधे भुजौजसा ॥ ६६ ॥
नियोगिनी न्यस्य धुरं भुवः प्रभु
मुदैव देवः कविना बुधेन च ।
१ दुस्तमः= राहुरूपम् ।
Page #31
--------------------------------------------------------------------------
________________
शान्तिनाथचरितयथागमं भावनया नयानयं
पुपोष सर्वत्र पवित्रचेतसा ॥६७॥ निरन्तरं स्निग्धतरान्तरात्मना
तया रमण्याऽनुभवन सुखं रतेः । दधौ पटीयान् समयं नयन्नयं
रसेन केलि कलहंसवद् मधौ ॥६॥ ददद् धनं स्वेष्टमयं महाशयः
स्वयं कलाकेलिरसालयीभवन् । स्त्रिया चकारापरपद्मया समं
दिनेश्वरश्रीरुदयं दिने दिने ॥६॥ अधोविधानात् कमलप्रवालयोः
फणागणैः स्वैर्मृदुलैर्भुवं वहन् । अहस्यतेलांपतिना सुभोगिना
मशेषशेषः खलुः सैष शेषराइ ॥७०॥ प्रसादमापाद्य सुवर्णवाससां
१ जयात् । २ कोमलफणाभिभूभारवहनादयं भोगीन्द्रो म, 'किन्तु सकलभोगिनां शेषः अनुचर इत्ययं राक्षा अहस्यत । ३ पृथ्वीपतिना। ४अशेषस्य समग्रस्य शेषः ।
Page #32
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ।
शिरस्सु दानादखिलक्षमाभुजाम् । नतैः पुनस्तैर्वसुधां प्रसाधयन् स्वयं स रेमे विषयेषु तन्मयः ॥ ७१ ॥ सतीषु सत्यार्थयशस्वती स्वतः शचीव रूपादचिरा गुणाङ्गणम् । पुरेदमूर्ध्व भवितेति वेधसा
कलत्ररत्नं विदधेऽस्य तुष्टये ॥ ७२ ॥ सतीषु रत्नं तदशेषलक्षणेविचक्षणैः संस्तुतमस्ति यत्पदोः ! पुरा मणीवेश्म सुरीशिरोऽस्त्वतः
पदं किमस्याङ्कितमूर्ध्वरेखया ॥७३॥ जेगज्जयन्तेन च कोशमक्षयं
समं दधानेन बिडौजसा सैमा । अलम्भि शोभा भुवि भूभुजा सुते
२१
१ यत्पदोः पदं = स्थानं मणीवेश्म, 'चकार' अध्याहारात् । सुरीणां शिरः श्रस्तु, अत एवास्य पदस्याङ्कितं शोभा भूषा ऊर्ध्वरेखया ' अस्ति' इति शेषः । अङ्कनम् = अङ्कितम् एकार्थम् । २ जगद् = विश्वं तथा कोशम् अक्षयं दधानेन । कथं, जयन्तेन पुत्रेण समम् । ३ तुल्या ।
Page #33
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रऽसितेऽवतीर्णेऽश्वदिने नभस्यजे ॥७॥ जगज्जयं तेन च कोशमक्षयं . प्रणेष्यता स्वमगसिन्धुरादिना । मणीगणान्तेन सुरोऽत्र सूचितोचिराचिराकुक्षिमपि प्रपन्नवान् ॥
(पाठान्तरम् ) त्रयोदशाऽहेऽप्यसितेऽथ शुक्रजे
प्रणीतवान् शैशवशेषवानयम् । स लब्धजन्मा सकले कुलेऽतुले
ऽप्यरिष्टशान्ति भुवि शान्तिसंज्ञया ॥७५॥ कृताभिषेकोऽपि सुरैः सुराचले
प्रणीतवान् शैशवशेषवानयम् । भुजे भुवो भारसहस्य भूभुजः । क्रमेण विश्रामसुखे गतश्रमः ॥
(पाठान्तरम् ) - १ भाद्रपदासितसप्तम्याम् अवतीर्णः। २ ज्येष्ठासितत्रयोदश्यां जातः। ३ अरिष्टशान्तिं प्रणीतवान् । ४ उपयुक्ततरं शैशवं शैशवशेष अतिबाल्यवान् “शेषः सीरिण्युपयुक्ततरेऽपि च" इत्यनेकार्थः । काव्यान्तरे शैशवशेषम् अन्यकयौवनम् । ...
Page #34
--------------------------------------------------------------------------
________________
२३
प्रथमः सर्गः ।
प्रपद्य विद्या अनधीतवानपि दधत् कुलीनाः सकलाः कलाः प्रभुः ।
सखा रतीशस्य ऋतुर्यथा वनं
विवेश पित्रोर्हदयाब्जमात्मजः ॥ ७६ ॥ विभोः स्वभावेन विभाविभावसौ प्रसृत्वरे दुस्तमसो विजित्वरे । विपक्षपक्षस्त्वरया ययौ वनं
वपुस्तथाऽऽलिङ्गदथास्य यौवनम् ॥ ७७ ॥
अधारि पद्मेषु, तदंहिणा घृणा
ततः श्रियाः स्थानपरिश्रमोऽप्यतः । स्वयं तदीयश्रियमेव बिभ्रता
न्यवारि वारिस्थितिजाड्यमप्यदः ॥७८॥ श्रिया करग्राहविधेरिवाश्रयेत्
न्य
१ श्रतः कारणात्, श्रियाः स्थानेन यः परिश्रमः खेदः, वारि=निषिद्धः | २स्वयं स्वस्मिन्, वारिस्थितिजाढ्यं=वारिमध्ये स्थित्या जडत्वं वा=अथवाऽरिमध्ये स्थितावपि जडत्वं स्यात्, अपि अदः न्यवारि, भगवश्चरणे वारिस्थितिजाज्यं नाभूत् । ३ श्रिया = लक्ष्म्या सह करग्राहविधेरिव, श्रीरपि करे गृहीता; करेण राजभागधेयेन गृहीता वा ।
Page #35
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे__ क्व तच्छयच्छायलवोऽपि पल्लवे ?। वनेचरे राजवधूजनो यतो __ ह्यसूर्यदर्शी न पदं परं भजेत् ॥७९॥ करेऽनुरागादिव नेतुरेतु किं
जडेस्थिरा श्रीः खलु पद्मसंगमम् । तदस्यिदास्येऽपि गतोऽधिकारिता - न तजनालीकभृदब्ज एव सः॥८॥ महीयसाऽसौ विधिनाऽऽधिना कृतः
प्रभोर्मुखाम्भोरुहसाम्यधित्सया । शरत्प्रयत्नेऽपि तदाकृतौ प्रभु
न. शारदः पार्वणशर्वरीश्वरः ॥८॥ १ तस्य-भगवतः शयस्य-करस्य च्छायाः, छायावाहुल्ये क्लीबत्वमेकवचनं च,शयच्छायं तस्य लवः पल्लवे काश्रयेत् , यतः पल्लवे वनेचरे राजकरगृहीतस्त्रियाः पदं स्थानं न स्यादिति भावः । २ तस्य प्रभोः। ३ तत्रैव पङ्के जातं यन्नालीकं विसप्रसूनं पुष्णातीदृशः सम्प्रसिद्धः अब्जः पद्मः; यः तेषु तेषु जनेषु अलीकम्-असत्यं पुष्णाति स कथमधिकारी स्यात् ? नैवेत्यर्थः । ४ शरद्-वर्ष यावत् प्रयत्नेन कृतः महता आधिना तथापि तदाकृतौ न प्रभुः=समर्थः।
Page #36
--------------------------------------------------------------------------
________________
लेखाभि खगामि ॥२॥
णेत
प्रथमः सर्गः। किमस्य लोम्नां कपटेन कोटिभि___र्दिधापि 'गौणे गणनां व्यधाद् विधिः। पैरे त्वसंख्येयदशैव तजिने
भवेदैसंख्येयदशा स्वभावतः ॥८॥ नभस्तले किं फलके खगार्चिषां
विधिन लेखाभिरजीगणद् गुणान् । गुंणेतराभावपरा विरोजिरे . ग्रहच्छलाद् बिन्दव एव केवलम् ॥३॥ जिनस्य न विनवपुर्न खिन्नता
परेष्विति प्रत्ययनाय निर्मलाः । न रोमकूपौघमिषाज्जगत्कृता __ जलार्द्रितास्तेऽवयवाः कृतास्ततः ॥८४॥ मुखेऽस्य नालीकविमा प्रतिष्ठिता
१ गौणे-गुणभरे अप्रधाने सामान्ये बहिष्ठे। २ परे मुख्ये गुणभरे संख्या न । ३ स्वभावतः जिने संख्यं युद्धं तद्योग्या दशा न । ४ गुणेतर: दोषः । ५ जलेन आर्द्रिता न कृताः, खेदे सति मलाश्रयात् । ६ नालीक-कमलं, पक्षे सत्यभा, नम्सरशनकारेण समासः।
Page #37
--------------------------------------------------------------------------
________________
२६ . शान्तिनाथचरित्रे. _____ शेयद्वये वा चरणद्वयेऽपि च । ध्रुवेण लोनामिव मूलकैतवात्
कृताश्च किं दूषणशून्यबिन्दवः ॥८५॥ अमुष्य दोामरिदुर्गलुण्टने __ चमूचरैनोपशमाः समाश्रिताः। प्रभावभारग्रहणे यशोग्रहे
सुवर्णचन्द्रातिभासुरे पुरे ॥८६॥ भुजद्वयी भागवती बभौ यया
ध्रुवं गृहीतार्गलदीर्घपीनता । न्यषेधि तस्मिन विषये भयागमः
प्रजासु दुर्नीतिगृहे समागमः ॥८७॥ पुरं रिपूणां च कुरङ्गसंगतं
कृतं भटैर्भागवतैस्त्रसजनम् । उरःश्रिया तत्र च गोपुरस्फुर
१ पक्षे प्राशयद्वये-निश्चयव्यवहाररूपे, चरणद्वये अणुमहावतरूपे । २ प्रभावः तेजोऽस्य ग्रहण, यद्वा, प्रभौ-रिपौ, अभं= अदीप्ति यत् प्रारं-अरिसमूहस्तद्ग्रहणे ।
Page #38
--------------------------------------------------------------------------
________________
ॐ
- प्रथमः सर्गः ।..
339
कपाटताधायि विभोरसंगतम् ॥ ८८ ॥ प्रजासु वात्सल्यधरेऽपि शल्यवद् द्विषां सपत्राकृतिकारके जिने । प्रतापवह्निस्तदुरःस्थितोऽदहत्
कपाटदुर्धर्षतिरःप्रसारिता ॥८९॥ स्वकेलिलेश स्मित निन्दितेन्दुनः
पुनर्नु चन्द्रेण मुखस्य सौहृदम् । समिद्धृतारारुचिहेतुनाऽर्हत
स्वतः स भालेऽर्धवपुः शशी स्थितः ॥९०॥ विधौ श्रियाद्वदनस्य मित्रतां निजांशद्दक्तर्जितपद्मसंपदः ।
विचार्य तद्योगबलात् कुशेशयं तदालिमालाजटिलं वने स्थिरम् ॥९१॥ निशीन्दुरई ददनेऽस्ति सौहृद -
स्तथा दिवाब्जं न सदा संसंगतम् ।
१ असगतं = रिपुत्वं यथा स्यात्तथा । २ "कृतः स्वभालेन समोऽर्धतः शशी" इति वा वाठः । ३ 'अस्ति' इत्यव्ययं सद्भावे । ४ संगतं = सौहृदं = मित्रता |
Page #39
--------------------------------------------------------------------------
________________
२८
शान्तिनाथचरित्रे
अतद्द्द्वयीजित्वर सुन्दरान्तरे
न साम्यधीः कापि सतां ततः परे ॥ ९२ ॥ न चार्हतोऽनुत्तरवासिनः सुरा विधातुमङ्गुष्ठमपि क्षमाः क्रमात् । असंशयस्तेन मनःशयोऽस्ति मे
न तन्मुखस्य प्रतिमा चराचरे ॥ ९३ ॥ सरोरुहं तस्य दृशैव तर्जितं
जले निमज्जद् बहुलज्जया जयात् । ततः स्फुरत्पद्मपदं तदञ्चितं
वृतं न जैनाननसंश्रयश्रिया ॥ ९४ ॥ जडखरूपा जेडजातजन्मना
जिताः स्मितेनैव विधोरपि श्रियः । निजाननेन श्रुतिशालिनाऽमुना मनागून साम्यं द्विजराज राजते ॥ ९५ ॥ मुखे सुधांशौ च वरे सरोरुहे कलातुला स्याद् द्विजराजयोगतः ।
१ प्रशस्तम् । २ 'जडजातजन्मना' इति करणतृतीया । ३ द्विजराजाः = दन्ताः, पक्षे सुधांशुर्द्विजराज एव, तृतीयपक्षे द्विजराजः कलहंसः ।
Page #40
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ।
अतः परं भव्यमहो महीयसी सुवृत्तबोधोदयपल्लवप्रभा ॥ ९६ ॥ दिवा विबोधाद्यदिवाऽनिशोदयात् त्रयेऽप्ययं स्याद् व्यतिरेकताश्रयः । ततोऽन्वयाद्या व्यतिरेकतः स्वतस्तदाननस्योपमितौ दरिद्रता ॥९७॥
अयुक्तमुक्तं यदिवा तुरातुराशयाऽऽशया पूर्वविपश्चितामतः । समुद्रसारस्य धियाsत्र येन सा तदाननस्योपमितौ दरिद्रता ॥
( पाठान्तरम् )
२९
१ सुष्ठु वृत्तबोधानां चरणज्ञानानां उदयो येभ्य ईदृशाः पल्लवाः = पदलेशास्तेषां प्रभा= बुद्धिः, सुष्ठु वृत्तः =वर्तुलः, बोध: = प्रकाशस्तेन उदये पल्लववत् प्रभा चन्द्रपक्षे, एवं सरोरुहेऽपि पल्लवानां प्रभा । २ मुखपक्षे अनिशम् उदयः अनिशोदयः तस्मात् । ३ भेदकारणम् । ४ तुरा=संभ्रमस्तेन श्रतुरो य आ शयस्तदाशा=अभिलाषस्तया । ५ मुदो रसस्तस्य श्रारः = प्राप्तिस्ते - न सहितस्य १ समुद्रसारं धनं पुत्रत्वात् २ मुद्रा संकोचस्तस्य सारः=गमनं यस्मात् तेन युतस्य ३ ।
Page #41
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्र
दृशः प्रकाशात् सरसस्वभावतः प्रेपन्न सत्सौरभतस्त्रयी सदृक् । ततो न काचिद् विदुषां प्रभाजुषां तदाननस्योपमितौ दरिद्रता ॥
३०.
( पुनः पाठान्तरम् )
स्वबालभारस्य तदुत्तमाङ्गजै
विधित्सतः साम्यमसम्यगाशयात् । पराङ्मुखत्वाद् धवलीभवन्मुख
क्रियां चमर्यादिशति पावशात् ॥ ९८ ॥ स्वबलभारस्य तदुत्तमाङ्गजैः
१ दृशः प्रकाशादिविशेषणत्रयेण मुखं चन्द्रः पद्मं च तुल्यम् ; मुखे दृष्टे दृशः=सम्यक्त्वस्य १ चन्द्रे दृष्टे दृशः = नेत्रस्य २ कमले नेत्रस्य स्वरूपप्रकटनात् ३ । मुखे नघरसव्याख्यातः, चन्द्रे सजलस्वभावात्, पद्मे सरसः = तडागस्य । २ “कमले मुखे च सौरभं सौगन्ध्यं स्पष्टम् । चन्द्रपक्षेऽमावास्यां सूर्यस्य कान्तिश्चन्द्रेण प्रपन्ना, इति सूरस्य इयं सौरी, सा चासौ भाच सौरभा, प्रपन्ना सती सौरभा येन तद्भावस्तथा । ३ राजा स्वशिशुवर्गस्य तथा पौरलोकस्य उत्तमा ये पुत्राः तैः समं रमणे क्रोधवारणं चक्रे नागराणां पक्षं पुष्यन्, न तु स्वशिशुपक्षं चक्रे । नागराणां पक्ष इति नागरतः " व्याश्रये तसुः " ( सि० हे० ७ । २ । ८१ ) इति सूत्रेण, "देवा अर्जुनतोऽभवन् " इतिवत् । बुध्यत इति बुध्= ज्ञानं बुद्धिर्वा न विद्यते बुधू यत्र तस्मात् कोपविशेषणम् बालवर्गस्य वा ।
Page #42
--------------------------------------------------------------------------
________________
- प्रथमः सर्गः।
३१ समं परिक्रीडयतोर्बुधः क्रुधः। प्रशान्तिकृन्नागरतः स्वसाक्षिकं
दधौ स राज्यं रुचिरं चिरं नयैः ॥९९॥ उपादिशन्नीतिभरं स्फुटं भेटैः
समं चमर्येव तुलाभिलाषिणः । नृपे प्रशान्ते पितरि स्वयं जिन
श्वकार राज्यं कतिचित्समाःक्रमात् ॥१०॥ अथाप्रयत्नोदितचक्ररत्नभृ
न्नृपाधिरोहेऽत्र हयश्वलनिति । अनागसे शंसति बालचापलं
परं पराकृत्य दिशां जयी भव ॥१०॥ श्रियोऽबला नाम चलाचला इमा
भ्रमान ताः स्थैर्यभृतः कचिन्मताः। इतीव वाहः किमिवाह भूभृते
पुनः पुनः पुच्छविलोलनच्छलात् ॥१०२॥
१ भटः समं तुलाभिलाषिणो वैश्यस्य स्फुटं नीतिभरमुपादिशन् । २ चमराः सन्त्यस्य चमरी नृपः । ३ नीतिप्रवर्तनाय ।।
Page #43
--------------------------------------------------------------------------
________________
३२ . शान्तिनाथचरित्रमहीभृतस्तस्य च मन्मथश्रिया
विभूषितस्य स्वपुराद् विनिर्गमे । मृगेक्षणानां स्वगवाक्षपक्षतः
कटाक्षलक्षाः प्रकटीबभूविरे ॥१०३॥ दृशोऽनिमेषेण पैदास्पृशा पदा . निजस्य चित्तस्य च तं प्रतीच्छया। विलासिनीनां हृदये रतिः स्वतः
स्फुटीबभूवाद्भुतरूपसंपदा ॥१०४॥ पुरस्सरागा इव तत्पुरस्सरा
रमाः समा दिग्वलयात् समागमन् । द्विधा नृपे तत्र जगत्त्रयीभुवां
मनोरमाङ्गे विर्षमायुधाश्रये ॥११५॥ अनँङ्गभावादनिमेषदर्शना
१ अनिमेषेण-निमेषाभावेन । २ पदं स्थानं न स्पृशति पदास्पृक् तेन, पदा-पादेन । ३ जगत्त्रयजातार्थानां रमा श्रियः । ४ विषमायुधाः, स्मरोऽपि । ५ अनङ्गवदलिप्तभावादनङ्गं व्योम सिद्धो वा “ अनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे” इत्यनेकार्थः । अनङ्गभावे सर्वतोमुख्यभावे "अङ्गं मन्त्रिकगात्रयोः। उपसर्जन. भूते स्यादभ्युपायप्रतीकयोः" इत्यनेकार्थः। ..
Page #44
--------------------------------------------------------------------------
________________
प्रथमः सर्गः।
३३ दयं कलाकलिमयाशयं भजन् । द्विधाऽप्यतस्तत्समये रसाश्रये
नतध्रुवां मन्मथविभ्रमोऽभवत् ॥१०६॥ निमीलनभ्रंशजुषा दृशा भृशं
सुरीगणे पश्यति संगताङ्गना। पृथक् समालक्ष्यत तत्क्षणे चलैः
कटाक्षमोक्षरतिशोणिताञ्चलैः ॥१०७॥ अनन्यसाधारणरूपसंपदं
निपीय तं यस्त्रिदशीभिर्जितः । मनोऽनुरागः स फलेग्रहीभवन्
भुवि-स्थिति चातुरधुर्यदीधरत् ॥१०८॥ पुरावतारादिदिने सुराङ्गना
वतेरुरर्हत्परमोत्सवे नवे । अमूस्तमभ्यासभरं विवृण्वते...
ऽनिमेषभावेऽपि न ताः श्रमं गताः ॥१०९॥ १ मन्मथस्य विभ्रमो यस्माद् यस्मिन् वासः, अयं जिनः स्त्रीणां मन्मथविभ्रमोऽभूत्। २ भुवि-पृथिव्यां चातुरधुरि-चातुर्यमुख्ये, पसे मुविस-खर्गे, आतुरधुरि दुःखधुरि।
Page #45
--------------------------------------------------------------------------
________________
३४
शान्तिनाथचरित्रे
वशी जिनोऽपि स्ववशीभवेदयं चलेक्षणत्वादितिधीरिवोर्वशी । निनिन्द चित्ते स्वसुरावतारतां निमेषनिःस्वैरधुनापि लोचनैः ॥११०॥ अदस्तदाकर्णि फलाढ्यजीवितं
द्वयं श्रुतेः सांप्रतमीक्षितैर्दृशोः । वियुक्तितस्तप्यति तत्त्वगिन्द्रियं
निनिन्दुरेवं भुजगाङ्गना निजम् ॥ १११ ॥ पुरान्तरस्थायिमृगेक्षणास्तदा
दृशोर्द्वयं नस्तदवीक्षि चाफलम् ।
श्रुतिप्रशंसां नु शशंसुराशयात् शयालुभावेऽपि हिता लिशालिनि ॥१९२॥ निशम्य देवं वनपावनोद्यतं प्रमोदते द्वैधफलस्पृशा दृशा । इति स्म चक्षुःश्रवसां प्रियाऽनले
स्मरस्वरूपे हृदयेऽधिदीपिते ॥ ११३ ॥
१ हिताः = हितकारिका या श्रालयः = संख्यः ताभिः शोभमाने । - २ दर्शन-श्रवणरूपे |
Page #46
--------------------------------------------------------------------------
________________
प्रथमः सर्गः। विलोकयन्तीभिग्जनभावना
पुरस्सरं सर्वपदे स्मरोपमम् । न विस्मरत्वं समनीयत कचिद् __ मनस्विनीभिदृढरागिचेतसा ॥११॥ प्रसृत्वरे रेणुभरे वधूगणो __ बलादमुन्नेत्रनिमीलनेष्वपि । न्यवेशयचेतसि मा स्पृशन रजो
ङ्गजोऽयमेनं निधिवत्प्रियाशयात् ॥११५५॥ लभेत चेतः किल वैक्रियक्रियां
प्रियां वरं स्यात् समयेऽयमाशयः । अलम्भि माभिरमुष्य दर्शने
पुनः पुनः संगमनेऽप्यसंशयः ॥११६॥ भवेद् भवस्यानुभवः सुरात्मक
स्तदा वरं तत्तुषवन मानुषम् । यतो महीशस्य यशस्यदर्शने
१'मा स्पृशन्' इति शत्रन्तम्। अयं अङ्गजा कामः एनं रजःमा स्पृशन इति, अन्योऽप्यनजः चित्तानोत्तार्यते मस्पर्श शकया।
Page #47
--------------------------------------------------------------------------
________________
शान्तिमायचरित्रे___ न विनलेशोऽपि निमेषनिर्मितः ॥११७॥ न का निशि स्वप्नगतं ददर्श तं
वशा रसात् तद्धृवभावनावशात् । न का पुनः संगमनोन्मनस्तया
प्रपञ्चसंचारिकया सखीकृता ? ॥११८॥ शिरो धुनाना मधुनाऽधुनाऽशना
जगाद गोत्रस्खलिते च का न तम् । उपायनं का न चकार कार्यधी
रधीरताभृच्च पुरः सुरप्रभोः? ॥११९॥ मनोबलात् का ह्यबलापि नामिलद्
रहास्थिताऽहर्निशतदशंवदा । • तदात्मताध्यातधवा रते च का
प्रियाऽभवद् नासनकर्मणा प्रिये ?॥१२०॥ श्रुतेऽथ दृष्टेऽपि पुरोऽङ्गनां यदा
स्मरस्ततापातिशयेन निष्कृपः। १ देवाने दौकनं देवप्रसत्याप्ययं मिलति चेद् वरमित्याशयः । २ एतद्ध्यान रतौ नानासनकरणेन इष्टा भर्नाभूत् । ।
Page #48
--------------------------------------------------------------------------
________________
प्रथमः सर्गः ।
तदा तदासक्तधिया च का ध
श्वकार वा न स्वमनोभवोद्भवम् ? ॥ १२१ ॥ श्रियाऽस्य योग्याऽहमिति स्वमीक्षितुं मदार्पणाद् दर्पणधारिणी करे । अतादृशाङ्गाप्तिदृशा कृशाशया शयालुतायामपि निद्रया जहे ॥ १२२ ॥
स्वयं विलेपाय च यक्षकर्दमः
करे तमालोक्य सुरूपया धृतः ।
८.
स दुर्दमानन्यजदाहसाहसा
दुवाह दुःखादिव हव्यवाहताम् ॥ १२३ ॥ मनोभवन्मानवशेन मानवीनवीभवन्त्याऽप्यतदर्हताधिया |
विहाय भैमीमपदर्पया कया
हताशयाऽवाङ्मुखताऽभ्यनायि नो १॥ १२४ ॥ कृतेऽप्युपाये शतशोऽपशोकया यदा बभूवे न कदाचिदेकया ।
१ धिक्कारं न चकार, काममुपालभत । २ हता=भग्ना आशामनोऽभिलाषो यस्यास्तया । ३ सोद्यमया ।
Page #49
--------------------------------------------------------------------------
________________
ॐ शान्तिनाशचरित्रतदा गृहीतव्यतिरेकशङ्कया
ने दर्पणः श्वासमलीमसः कृतः ॥१२॥ गच्छाधीश्वरहीरहीरविजया
नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः
. श्रीमत्तपाख्ये गणे। शिष्यः प्राज्ञमणेः कृपादिविजय
स्याशास्यमानाग्रणीश्चके वाचकनाममेघविजयः
शस्यां समस्यामिमाम् ॥१२६॥
इति श्रीनैषधीयमहाकाव्यसमस्यायों महोपाध्यायश्रीमेघविजयगणि
पूरितायां प्रथमः सर्गः संपूर्णः ॥ श्रीः ।।
. १ नैषधीयचरिते प्रथमसर्गे ३१ श्लोकः ।२ प्राशास्यमानाः शिष्याः।
Page #50
--------------------------------------------------------------------------
________________
है अथ द्वितीयः सर्गः।
यथोह्यमानः खलु भोगभोजिना ___ रथेन विष्णुः प्रभविष्णुतेजसा । तथाधिराजः स रराज राजभिः
समं व्रजन राजपथे यथेच्छया ॥१॥ दिशोऽपि तूर्यध्वनिनाभिगर्जयन्
प्रसह्य वैगेचनिजस्य पत्तनम् । यियासुरग्रेसरवाजिराजिभि
जगाम चक्रानुगमाऽध्वनाधिपः ॥२॥ अथाजगामाभिमुखः स्वसीमनि _ नृपोऽपि भीमः किल कुण्डिनेशिता । विदर्भजाया मैदनस्तथा मनो
रथं प्रजायाः सह राजभिर्विदन ॥३॥ १ किंभूतोऽधिराजः प्रभविष्णुतेजसा उह्यमानः, किं० भोगैः रसादिभिर्भुज्यते स्म तेन । २ मार्गेण । ३ मदयति हर्षयति
मदनः ।।
Page #51
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
गजाश्वशृङ्गरिणया सतोरणं पुरं समन्तादसमं विभूषणैः । असौ समौख्यं लघुना महीभृतानैलावरुद्धं वयसैव वेशितः ॥४॥
सदभृत्प्रत्ययितं पुरा तदाऽऽदि-वृद्धिकृत्तद्धितवत्-सुसंगतम् । पैदं स्वमीषल्लेघुनाऽप्यसौ महानलावरुद्धं वयसैव वेशितः ॥
૪૦
( पाठान्तरम् )
नृपेऽनुरूपे निजरूपसंपदां जिने प्रयाणाभिमुखे दिशां जये ।
।
66
वा
१ धारायन्त्रे नलैर्याप्तं, महोत्सवे तदधिकारात् ; नरावरुद्धं नरः कृष्णेऽर्जुनेऽपि वा " इति कोशः । रुक्मिणीवर से कृष्णेन रुद्धम् । २ पक्षे श्रङ्गसंज्ञाकारिप्रत्ययो जातोऽस्मिन्निति प्रत्ययितम् । तदादि तद्दिनादारभ्य वृद्धिकृत् तद्धितपक्षे आदिवृद्धिकृत् । ३ हितवन्तो मित्रजनास्तैः सुसंगतं = मिलितम् । ४ पदं =स्थानम् । ५ लघुना वयला, पक्षे लघुना प्रत्ययेनारणादिना । ६ महान् यः नलः= पर्वतादिना विषमस्थानं तेन वेष्टितं, ईदृशं न इत्यपि "नलो राशि कपौ नडे पितृदेवे नलं तु स्यात् पद्मे' इत्यनेकार्थः । लावः=छेदः, रुद्धं=रोधस्ताभ्यां वर्जितं लोपप्रत्ययबाधरहितं वा । श्रलावर्णेन व्याप्तं पदम् । ७ पक्षे युवापत्यप्रत्ययेन ।
Page #52
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः। पुरस्सरीभूय पुरन्दरः स्वयं __ जयं चकारास्य परे पराजयम् ॥५॥ नरेशवर्गः स्वयमेव ढौकनं _ दिदेश तस्मिन् बहुशः श्रुतिं गते । स्वविक्रमादद्भुतचक्रचक्रमात्
पुरः पुरोऽभ्ययुषि तत्पदे पदे ॥६॥ अनेकशः क्षमापकनीरनीकिनी
पतिः परप्रीतिमतीरुदूढवान् । विशिष्य सा भीमनरेन्द्रनन्दिनी
प्रियाऽस्य जज्ञे रतिवद् मनोभुवः ॥७॥ सहस्रनेत्रस्य शवीव सोन्नत
स्तनी हिमांशोरिव रोहिणी प्रिया । तथा दधे पञ्चमचक्रिणोऽर्हतो.
मनोभवाकवशंवदं मनः ॥८॥ उपासनामत्य पितुः स्म रज्यते
१ परे-शत्रौ । २ दधे-पुपोष, धारयति स्म वा । ३ तीर्थकरपक्षे अमनोभवंप्रकामम् अकषायम् , अाशा-ज्ञानं तस्यैकम् अद्वितीयं वशंवदं स्थिरं, ततो विशेषणसमासः । ४ विश्वसेनाद् देवात् क्रमागतोमुपासना परेशितुः एत्य रज्यते स्म ।
Page #53
--------------------------------------------------------------------------
________________
१२
शान्तिनाथचरित्र
क्रमागतांमष्टमकृत् परेशितुः । स मागधं देवमनुस्मरन् वशी वशीचकाराखिलपूर्व मण्डलम् ||९|| प्रभासमेत्याऽप्यमुना व्यधीयत दिने दिन सोऽवसरेषु बन्दिनाम् । मुखाद निशान्ते वरदामधानि तँ - हिशोरवश्यं खलु वैश्यकर्मणे ||१०|| तटं दधानो निकटं स सैन्धवं
धवः क्षितेः साधनया धनार्जनः । पठत्सु तेषु प्रतिभूपतीनलं
जिगाय देशेषु पुरस्सरेष्वतः ||११|| उपत्यकास्थायिनृपालिरुद्धता
कृताधिसेनानिरणा प्रणाशभाक् । वने गतापीशहयागमं भयाद् विनिद्ररोमाऽजनि शृण्वती नलम् ||१२||
१ सा= उपासना | २ श्रुते । ३ तयोर्द्वयोर्दिशोर्दक्षिणा पश्चिमयोः । ४ वश्यकार्याय । ५ कृतः सेनान्याम् अधि रणः = संग्रामो यया सा । ६ वने नलं - तृणविशेषं, गिरेर्नलं नालं वा गता =: [=श्राश्रितेत्यर्थः
ः ।
+
Page #54
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
कथाप्रसङ्गेषु मिथः सखीमुखाचिकीर्षुरस्यैव पुनः प्रसन्नताम् । नता सतापा जनतापि नीवृतामुपायनस्थापनया स्थिता स्थले || १३ ||
'धने जने वा कृतरोधने भटै
स्तृणेऽपि तन्व्या नलनामनि श्रुते । घनेऽपि च स्थातुमधीरया रयात् तया तदादेशदशाऽप्यधीयत ॥ १४ ॥ पराक्रमाच्चक्रभृतः परा क्रमाद् भटालिरासन्नतरा द्विधापि या । द्रुतं विधूयाऽन्यदभूयताऽनया
नगस्या काप्युदरे देरादरेः ॥१५॥ महाहवः कापि भटैः कृताहवः समापतत् त्रस्यति तत्र शात्रवे ।
गिरौ स्थितं तत्प्रजया जयाहते
मुदा तदाकर्णन सज्ज कर्णया ॥१६॥
४३
१ मित्त्ररूपा जनता तस्या मुखात् । २ नरेदशत्=भयात् । ३ कृतपरस्पराह्नानः । ४ जयं विना ।
Page #55
--------------------------------------------------------------------------
________________
शान्तिनापचरित्र स्मरात पैरासोनिमेषलोचनाद्
वरं तमिश्राधनि लब्धवानयम् । शकादिकम्लेच्छजनैः कृताश्रयं
सुनिर्भयं साधयति स्म तत्त्रयम् ॥१७॥ पथस्तमिश्रान्तरमीयुषः पते !
बिभेमि तद्भिन्नमुदाहोति सा | वदन्त्यभीः स्त्रीमणिमण्डलत्विषा___ऽयनं समुयोत्य कृतैव चक्रिणा ॥१८॥ सरिद्वये वाकिनाऽऽद्यपद्यया
बलं समुत्तारयता नृपाज्ञया । जनेन यूनः स्तुवता तदास्पदे
सुखः कृतोऽध्वा हि गतागतोद्यताम् ॥१९॥ ततोऽवतीर्याद्भुतचक्रबान्धवो
विनिर्गतोऽब्दादिव चक्रबान्धवः । १ स्मरात्-स्मरणात् । २ परासोः परा:=प्रकृष्टा असवः= प्राणा अर्थाद् बलं यस्य । ३ अनिमेषलोचनाद् देवात् । ४ तमि. श्राया गुहाया मार्गे । ५ खण्डत्रयम् । ६ तस्माद् मार्गारहं विमेमि । ७ अयन-मार्गम् । प्रकाश्य ।
Page #56
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः। स्फुरद्रुचिम्लेच्छजनप्रसाधने
निदर्शनं नैषधमभ्यषेचयत् ॥२०॥ नलस्य पृष्टा निषधागता गुणान्
नृपेण दुर्गस्थरिपोर्विनिग्रहे। चरैर्निशम्याऽस्य परे शरण्यतां
प्रपेदिरेऽरण्यदशाविमोचनात् ॥२१॥ विधाय वेषान्तरमस्य विक्रमाद्
मिषेण दुतहिजबन्दिचारणाः । यशः पठन्तः परदेशमैयरु
गरुत्मतः सर्पगणा इवारयः ॥२२॥ कृताजयः केपि पराजयं ययु
मयं प्रपद्याद्रिमयुनिरामयम् । निगीय तत्कीर्तिकथामथानया
अहुर्मुहुस्ते मुमुहुर्भयादपि ॥२३॥ १ नितरां दर्शनं यस्य सदा चक्रिपार्श्वस्थमित्यर्थः । २ निष. धानगरी कौशलदेशे, तस्या ईशं श्रीऋषभदेववंशजं नृपम् । ३ नृपेण नैषधेन निषधानगरोतः सार्थे एवागताः सेवकाः नलस्य-पर्वतादिनल थानस्य गुणान् पृष्टाः 'कथमत्र प्रवेशनिर्गमौ स्याताम् ? इति; तश्वरैः श्रुत्वा परे शरण्यतां प्रपेदिरे।
Page #57
--------------------------------------------------------------------------
________________
१६ शान्तिनाथचरिभयेन भमेऽपि हये रथे पथे
स्थिते विचक्रेऽवनिपे निपातिते । रसेन सेनापतिनारिसेनया __ चिराय तस्थे विमनायमानया ॥२४॥ चमूपतिर्भूपतिराजसंनिधेः
प्रसाधयन म्लेच्छपुराणि तद्धनैः। । धनं ललौ, तत्प्रजयाऽपमानया चिराय तस्थे विमनायमानया ॥
(पाठान्तरम्) प्रियं प्रियां च त्रिजगज्जयिश्रियौ
नरौ स्वरूपेण शचीपुरन्दरौ। ददर्श चक्री, नभसोऽवतीर्य तो
कृताञ्जली भूमिभुजं प्रणेमतुः ॥२५॥ विनिन्यतुस्तावृषभाद्रिमीश्वरं
लिखाधिलीलागृहभित्ति कावपि । . १ कावपि स्त्रीपुंसौ ईश्वरं चक्रिणं, ऋषभकूटं निन्यतुः; च-पुनः, तं-चक्रिणम् इति ऊचतुः; इतीति किं, हे क्षितीश ! स्वनाम अधिभित्ति लिख । २'कावपि' इति चक्रिणा नोपल. क्षितौ शचीन्द्रौ ।
Page #58
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः। खनाम संसाधितभारतक्षितिः
क्षितीश ! वाचेत्युचितं तमूचतुः ॥२६॥ स विश्वसेनात्मजशान्तिचक्रिभृत्
समाजगामात्र जयेन भारते । इति स्म सा कारुवरेण लेखितं
जिनेशनामाभिननाम देवता ॥२७॥ कृतार्हदर्चाविधिनाधिनायकः
स्थितोऽष्टमे स्पष्टतयाऽष्टमङ्गलः । हेरेः स्म तत्राभ्युदयन्महोमहा
ऽनलस्य च स्वस्य च सख्यमीक्षते ॥२८॥ मनोरथेन वपतीकृतं नलं
वनाद्रिदुर्गस्थितमारुरुत्सुकः। समुत्सुकः पञ्चमचक्रभृत् पुनः
खगाचलेऽभ्यागमनेच्छयाञ्चलत् ॥२९॥ पुरश्चलचारुचमूपतेश्चमू
१ हरे: इन्द्रस्य । २ अभ्युदयत्तेजसा वह्नः। ३ मनसा अस्वपतिः स्वपतिः कृतः स्वपतीकृतस्तं नल-स्थानविशेषम् ; न 'विद्यते खः प्रात्मा पतिर्यस्य स अस्वपतिः।
Page #59
--------------------------------------------------------------------------
________________
४८ शान्तिनाचचरित्र
निशि क सा न स्वपती स्म पश्यति। नलस्थितारिप्रतिरोधनाद् वन
ग्रहेऽवरोधप्रतिबन्धनक्रियाम् ॥३०॥ परैः कृता या नलदुर्गताकृति
धनैर्जनैः सैव च दुर्गताकृतिः । अदृष्टमप्यर्थमदृष्टवैभवा
दवाप्य सेनापतिना व्यधीयत ॥३१॥ नलोदयस्याप्यनलोदयादभू
दभूतपूर्वा स्थितिराप्ततेजसा । भवेदवस्थेयमहो ! क्षितौ न यां __ करोति सुप्तिर्जनदर्शनातिथिम् ॥३२॥ निमीलितादक्षियुगाच्च निद्रया
नलात् प्रणष्टारिवधूजनेन सः । अवीक्षितोऽपि क्षितिशायिनेक्षितः स्मरादिवोचैः करवालचालकः ॥३३॥ १ निद्रया निमीलिताद् नेत्रयुगादवीक्षितः । २ स्मरणं स्मर:=ध्यानं ततः । ३ पक्षे करेण वाला: केशास्तेषां चालका कन्दात् कचग्रहतत्परः।
Page #60
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः। परासुतातावपि नायकेऽभवद्
हृदोऽपि बाह्यन्द्रियमौनमुद्रितात् । सविभ्रमा चक्रिणि वैरिणो वधूः
स्मरेऽतिविस्मेरदशाप्यथादभुता ॥३४॥ छलत्स्ख लत्पाद-प-यो-गतो वने
नलादपि प्राप्त भयो भयोज्झितः । अदर्शि संगोप्य कदाप्यवीक्षितः
प्रमीलया बा-धनलीलया निजः ॥३५॥ अभूत् सुरङ्गेक्षणता रिपुस्त्रियो
..१ मृतत्वप्राप्तौ। २ स्मरे जाग्रहशा । ३ छलन् स्खलन स चासौ पादेषु-पर्यन्तपर्वतेषु पयसे गतः। नलः स्वस्थानम् , अनलो वा ततः प्राप्तभयः । श्रवीक्षित-विमृष्टः । यद्वा अवीं क्षिणोति अवीक्षित्-प्रजापालस्तस्मात् तस्य वा। प्रमीलया निद्रया । संगोप्य कदापि निजः प्रदर्शि 'निजैः' इति शेषः । निजः पुरुषः सगोत्रैः स्वप्ने दृष्टः, यद्वा अधनत्वे न दृष्ट इति भावः । बाधनलीलया-दुःखलीलया; अधनलीलया दरिद्रभावेन राज्ञः सेनया लीलया बद्धो वा दरिद्रः कृतः। कीदृशः निजः, छलेन स्खलत्पादं यथा स्यात्तथा पयसे जलाय जले वा गतः । भया दीप्त्या उज्झितः त्यक्तः । ४ “सुरुङ्गा' इत्युणादौ, तथाप्यत्र श्लेषबलात् ‘सुरङ्गा' इति लोकोक्तिः। सुरक्षा भूम्यन्तर• मार्गस्तदर्शनता, पक्षे रङ्गदर्शनम् ।
Page #61
--------------------------------------------------------------------------
________________
५०
शान्तिनाथचरित्रद्विषश्च सिंहासनभूः क्षमाभृतः। समीहिता यैव भुवश्चिरोदयी
रहस्यमस्याः स महन्महीपतिः ॥३६॥ अहो ! अहोभिर्महिमा हिमागमे
प्रपद्यते द्योतिभिरन्वहं यथा । तथा महोभिर्गरिमाऽरिमारणाद् __ रणादवाप्यस्य समं स्वसेनया ॥३७॥ गृहोन्मुखीं भूरिदिनैर्यियासती
मभिप्रपेदे प्रति तां स्मरार्दिताम् । नृपोऽनुकम्पां चलनेतिगौरवात् ।
ततो गिरेः प्रापदुपत्यका सकाम् ॥३॥ खगाचलेऽप्याविरभूचलाचला
प्रजा प्रजारक्षणवार्त्तयार्तिभृत् । तपत्र्तुपूर्तावपि मेदसा भराद् .. न लेभिरे स्थूलनरा हि के व्यथाम् ?॥३९॥
३
१ सिंहासनं भूगुहा । २ क्षमाभृतः पर्वतस्य राज्ञो वा।
गुणेन पीडितःम् । ४ त्यामेव त्यकाम् , त्यशब्दस्य
Page #62
--------------------------------------------------------------------------
________________
. द्वितीयः सर्गः। दरादरादाऽऽश्रितकन्दरान्तरा
निरन्तरायस्थितया तया नगे। दिनानि हीनानि समान्य मान्यमा
विभावरीभिर्बिभरांवभूविरे ॥ ४० ॥ स्वकान्तिकीर्तिवजमौक्तिकस्रज। __ स्वतो गुणं योजयताऽशुगानुगमा । जिनेन को-दैण्डकरण सानुगं
नृपं समुद्दिश्य गुणो न योजितः१॥४१॥ खगाद्रिराजं समरेष्वतान्द्रतं
श्रयन्तमन्तर्घटनागुणश्रियम् । पराक्रमः पञ्चमचक्रिणः क्रमा
निवार्य चक्रे क्रमसेवनोन्मुखम् ॥४२॥ . १ अमानिनी-मानरहिता या प्रमायाः अमावस्या विभावों रात्रयस्ताभिः समानि-तुल्यानि दिनानि तया-प्रजया बिभराबभूविरे । २ आशुगः= बासः, वायुर्वा । ३ जिनेन का गुगः सं. धि-विग्रहादिर्न योजितः सानुगं पर्वतङ्गस्थं नृपमुद्दिश्य । ४ दण्डः करे यस्य तेन । ५ सानुगं-प्रनुगैः सेवः सहितं यथा स्यात् तथा । ६ क्रमसेवनं पादसेवा, यदिवा चक्रिणोऽनन्तरा संततिपरम्परा (क्रमः )।
Page #63
--------------------------------------------------------------------------
________________
५२ . शान्तिनायचरित्रविराजिराजन्यजनस्य धोरणे- रणेरणे दारुणरूपसपंदः । कदाचिदस्या युवधैर्यलोपिनं __ जयं निशम्याजनि राजनिग्रहः ॥४३॥ नृपः प्रसन्नो हि धनाय साधन
स्तदन्यथाऽयं निधनाय बाधनैः । खगाद्रिराजोऽस्य निदेशदेशने
नैलोपिलोकादशृणोद् गुणोत्करम् ॥४॥ तमेव लब्ध्वावसरं ततः स्मर__ स्वरूपभूपाय खगाचलेश्वरः । निजाङ्गनापूर्वमपूर्ववस्तुभिः
कृताधिकोपाय-नमन्मुदेऽभवत् ॥४५॥ वरैरमुष्याभरणैर्मणीमयैः
शरीरशोभाजयजातमत्सरः । ___ १ खगाद्विराजः अस्य चक्रिण इबि गुणोत्करमशृणोत् । २ माज्ञायाम् । ३ नलोपी ईदृशो यो लोकः प्रत्ययितस्तस्मात् । नप्रतिरूपकेण 'न' इत्यनेनाव्ययसमासः । ४ भूपाय कृताधिकोपाय नमन् , पक्षे कृतं यदधिकम् उपायनं तेन मदयति हृष्यति यः स कृताधिकोपायनमत्, क्विपिरूपम् ।
Page #64
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः । तदा परः कोऽपि युयुत्सथाऽपतइ
बलस्य नाशाय ससौप्तिकाशया ॥४६॥ शराशरि व्यक्तगदागदि क्रुधा
ऽऽयुधाऽनुधावद्भटकोटिदारुणः । अमोघशक्त्या निजवैव मूर्तया ।
रणोऽभवद् भूरिभयाय भूभुजाम् ॥४७॥ अनीकिनीनामधिपैरनेकशः
स युध्यमानोऽपि निरुद्धमानसः । स्वसेनया कोऽपि विमुक्तमार्गण
स्तया विनिर्जेतुमियेष नैषधम् ॥४८॥ अकारि येन श्रवणातिथिर्मुणः
क्षणं परिक्षिप्तसहस्रमार्गणः । विभिद्य सेनापतिना शरैरुरः
पुरःप्रदोषे स यमातिथीकृतः॥४९॥ मनःप्रसत्त्या विजयः श्रुतौ धृतः - क्षमाभुजा भीमनृपात्मजालयः।
१ भीमनामा या नृपात्मजो-राजपुत्रः स एव प्रालयः स्थानं यस्य सः, विजयविशेषणम् ।
Page #65
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रेप्रदाय तस्मै गजवाजिराजितां __ यथेच्छया देशभुवं पैराजिताम् ॥५०॥ ततः प्रयाणादवतीर्णकन्दरा
प्रपातदेशस्य नृपस्य तत्परम् । तदुच्चधैर्यव्ययसंहितेषुणा
रिणा रणोऽभूदरिणाऽसृजाऽरुणः ॥५१॥ क्रमेण सेनापतिनाऽर्हदाज्ञया
बलेन जिग्ये सुरसिन्धुनिष्कुटम् । वशीकृतस्तत्र वसञ्जनोऽङ्गिना
स्मरेण च स्वात्मशरासनाश्रयः ॥५२॥ अमुष्य धीरस्य जयाय साहसी
वशीकृतश्चक्रमुचा स चक्रिणा। ततः प्रयाणे गजवाजिराजिभिः
१ परैः अजिताम् । २ अरिणा-वैरिणा सह रणः, अरिणाचक्रण, असूजा-रुधिरेण अरुण रक्तः। ३ अङ्गिना-मूर्तिभृता कन्दर्पण तेन जनः वशीकृतः। ४ स्वं-धनम् , आत्मा निजः तस्य शरा-मासनानि तेषामाश्रयः अाधारः। पक्षे धनार्पकः देहेन शराणां जलानाम् आसनानि वहन्नित्यर्थः “शरं जले शरः पुनर्दधिसरे काण्डतेजनयोरपि" इत्यनेकार्थः। .....
Page #66
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
समं समादाय समा विभूतिकाः ॥५३॥ बेलावन द्वेषिबलं दधद् ध्वनिं
५५
तदा खलु ज्यां विशिखैः सनाथयन् । पुरस्सरीभूय चमूपतिः स्वयं रुरोध तत्प्राणदबाणसंचयैः || ५४|| पुरः स्फुरन कोऽपि सुरश्रमूं सृजन् भयातुरां भैरवफेरवारखैः ।
निमज्जयामास यशांसि संशय
युयुत्सुरस्या विविधायुधैः क्रुधा ॥ ५५ ॥ तदा तदावेशविनाशनाशया पुरन्दरः सुन्दरधीरुदायुधः । यशांसि तेऽस्य जयोदयादनु स्मरस्त्रिलोकी विजयार्जितान्यपि ॥ ५६ ॥
अनेन भैमीं घटयिष्यतस्तथाऽभ्यमित्रभावादनुगां बलस्य च ।
१ समाः=सकलाः, विभूतिकाः - विभूतीः । २ सैन्यमार्गे । ३ 'प्राणपाणिः सह सेनयाऽरुधत्' इति वा पाठः । ४ प्राणान् धन्ति = खण्डयन्ति प्राणदा बाणास्तेषां संचयैः ।
.
Page #67
--------------------------------------------------------------------------
________________
५६
शान्तिज्ञापचरित्रे
अभूद् विलम्बः सुरसिन्धुसैकते कृताष्टमस्यापि जिनस्य चक्रिणः ॥५७॥ प्रसन्नया स्वःसरिता तनूभृता विधेरवन्ध्यच्छतया व्यलासि तत् ।
विमुद्रपद्माननया सविभ्रमप्रकाशवद्दर्शनयाऽप्ययौद् नृपः ॥ ५८ ॥
मरालगत्यां-विलसत्तरङ्गया न गङ्गया निर्मितचक्रसङ्गया ।
अभेदि तत्तादृगनङ्गमार्गणै
3
✔
मनोऽस्य नारीवपुषाऽपि च प्रभोः ॥ ५९ ॥ कृतं मनोभूवशवर्त्ति कान्तया सरोजकोशस्त नहंसक स्पृशा ।
बलं तया तत् समभेदि मार्गणैयस्य पौष्पैरपि धैर्यकञ्चुकम् ॥६०॥
१ 'श्रयौत् इति क्रिया. 'यु मिश्रणामिश्रणयोः' । २ श्राविला =रागेण कलुषा सत्ता= सद्भावो यस्य ईदृशो रङ्गः = चित्ताभिप्रायो यस्यास्तया, पक्षे विभिः=पक्षिभिर्लसन्तस्तरङ्गा यस्यां सा तया । ३ अस्य=प्रभोर्मनः स्त्रीरूपधारिण्या गङ्गया न अभेदि । ४ अस्य बलस्य अर्थाद् भटस्य |
Page #68
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः । किमन्यदद्यापि यदस्त्रतापिता
शिवो वशीन्द्रः शिवया वशीकृतः ।... स्मरेण लक्षीकरणेऽपि लक्षशो
ऽप्यलक्षधी प्यत लक्ष्यतां प्रभुः ॥६१॥ हरिर्यदासीजलधीहिताश्रयः
पितामहो वारिजमाश्रयत्यहो ! । अनङ्गजं तापमुपेत्य, सोऽप्यभू
जिनेश्वोऽनङ्गज एव साङ्गजे ॥२॥ सदङ्गसङ्गं कुलशैलशालिनी
सितां निजाज्ञां दधतं स्वरूपतः। स्मरं तनुच्छायतया तमात्मनः
परं प्रभु क्रमितुं मनोभवः ॥६॥ प्रसाधितेस्मिन् भरते महीभुजा
जनोऽपि नानाविषयान् प्रपन्नवान् । सदारतासक्तरुचिः सरितटं
१ निष्कपटमतिः। २ न लक्षतां-वेध्यताम् प्राप्यत । ३ जलधौ ईहिता-वाञ्छित आश्रयो यस्य। ४ अनङ्गजन्मपुत्र धन्ध्य इत्यर्थः । ५ साङ्गजे-सपुत्रे। .
Page #69
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रशशाक शङ्के न स लवितुं नरः ॥६॥ उरोभुवा कुम्भयुगेन जृम्भितं
मनोभुवो दुर्गधिया जिघृक्षतः । चमूपतेः साऽरमतोद्भवे निशो
ऽप्यतीरंभावेन मतिः सतीरते ॥६५॥ क्रमात् प्रयाणेऽस्य पुरस्सराः पुरां
नवोपहारेण वयस्कृतन किम् । अधीश्वराः स्वानुगतां गताः स्वयं
प्रसाद्य भेजुः सकलास्तमुद्बलम् ॥६६॥ जयादहंपूर्विकया स्ववाहिनी
ससाहसोत्साहतयाऽवगाहिनी । त्रपाः सरिदुर्गमपि प्रतीर्य सा
स्वतः परावृत्त्य ददौ स्वदौर्जने ॥६७॥ खदुर्गभङ्गे भवनेऽवनेने वने विलमे जडता हसत्त्रपा ।
१ चम्पते नैषधस्य सतीरते मतिः अरमत २ अपारतया। ३ स्वतः धनात् = धनं गृहीत्वा प्रपा ददौ दौर्जने दुर्जनसमूहे ।
Page #70
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
भयाद् रिपूणां नृपतेः स्फुरन्महो
नेलस्य तन्वी हृदयं विवेश यत् ॥६८॥
अपह्नुवानस्य जनाय यन्निजाः
प्रजाः कचिच्छैलवनादिषु द्विषः । मृगेक्षणानामभवच्चला दशा
मृगेक्षणानामिव भूमिभृद्भयात् ॥ ६९ ॥ अजन्यतश्चञ्चलया दधद् रिपोरधीरतामस्य कृतं मनो भुवा ।
फूल
अनाधिपत्यं दिशतीममुं स्वतः
स्वतः स तत्याज सैराजराजताम् ॥७०॥ धवे भुवो वा विधवे वधूजने द्विषां वियोगादसुखं यदुन्मुखम् । अबोधि तज्जागरदुःखसाक्षिणी
१ रिपूणां हृदयं जडता' विवेश नृपतेर्भयात् । २" अनलोऽनिले वसुदेवे वसौ वह्नौ " इत्यनेकार्थः । ३ तन्वीव तन्वी लुप्तोपमा । ४ भुवा = भूम्या अस्य =चक्रिणः रिपोर्मनः अधीरतां दधत् कृतम् । किं० भुवा, श्रजन्यतः = युद्धात् चञ्चलया । अम् मुषं स रिपुः स्वत एव तत्याज । ५ राजराजता = ऐश्वयं तेन सहितां भुवं तत्यजेत्यर्थः ।
Page #71
--------------------------------------------------------------------------
________________
शान्तिमायचरित्रतडागभागस्थरथाङ्गपक्षिणी ॥७॥ समुच्छलबाजिरजोभिरञ्जसा __ नभस्तले संतमसाकुले-रिपोः। पुरश्चलचक्ररुचा-सुहृत् कृता
निशा च शय्या च शशाङ्ककोमला ॥७२॥ नॅपप्रतापाम्बुजबान्धवोदये
सुहृद्वधूनामिव वर्धने श्रियाः। १ चक्रवाकी। २ अरिपोः मित्त्रस्य निशा सुहृत्-प्रिया कृता पुरश्चलञ्चक्ररुचा शशिसुन्दरा। रिपोः द्विषः चक्ररुचा असुहृत्-प्राणहरी निशा कृता; शय्या शशानाम् अङ्कः-चिह्न यस्यामीशी कोमला च "कोमलं मृदुले तोये । ३ सैन्यं चक्रं वा। ४ अनसु-अप्राणं हृद् येषामीडनिपूणाम्। सुष्टु हरतीति सुहृत्-चौरः। नृपेति० चक्रिणः प्रतापसूर्योदये सति मित्रस्त्रीणां भोगादिना निशा प्रियाऽभवत् । प्रतापसूर्यस्य नित्यत्वात् चौरस्त्रोणां न प्रियाऽभवत्, रात्रौ चौर्याधिकारात् चौर्यप्रवृत्ते. रभावात् । यद्वा, अकारप्रश्लेषाद् असुहृद्वधूनां रात्रिः प्रिया नाशनावसरत्वात् । सुहन्मृगीहशां-मित्रस्त्रीणां रात्रिन प्रिया, प्रतापसूर्यस्यास्तप्रापणशङ्कया इव । वर्धनं छेदनं वृद्धिर्वा । धनप्राप्तौ स्त्रीणामन्तःपुररूपत्वेन निशायां कार्यकरणादिना प्रियत्वम् असूर्यपश्यत्वात् । पक्षे धनच्छेदने वनेऽपि यथेच्छंभ्रमाभावाद् निशा प्रिया निरलंकारवसनत्वन न स्यात् । शयानां जीवानाम् अङ्कः चिह्न तेन सुन्दरा च न खभूमेः।
Page #72
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
प्रियाऽभवत् सा नः सुहन्मृगीदृशां
निशा च शय्या च शशाङ्ककोमला ॥ स्मरोपतप्तोऽपि भृशं न स प्रभुः
६१
प्रभोर्निदेशेन विना कदाचन । मूपतिर्भीमभुवा कनिष्ठया वशीकृतस्तां परिणेतुमुच्चधीः ॥७३॥ नृपस्य तद्भावविदो निदेशतो विदर्भराजं तनयामयाचत ।
रसेन सेनापतिरप्युदृढवान् निगूढभावामपि तां तदन्तरे ॥ ७४ ॥
कृपाणतः केचन केऽपि चक्रतः परेऽपि तन्मार्गणवेधमार्गतः । त्यजन्त्यसून् शर्म च मानिनो वरं
भुवि स्म सैन्यस्य समीपमागते ॥७५॥ अयाचितैरेव नयाञ्चितैर्जयादुपायनैरागमनादुपायेंनम् ।
१. परिणेतुं न प्रभुः =न समर्थः । - २ चमूपतिः नैषधः । ३ मार्गणाः = बाणाः । ४ मार्गम् ।
Page #73
--------------------------------------------------------------------------
________________
शान्तिनापरिप्रेकृतः प्रसन्ना स यतो महाशया
स्त्यजन्ति न त्वेकमयाचितव्रतम् ।।७६।। मृषा विषादाभिनयादयं क्वचिद्
नृपाय नूनं नमते स्वतेजसा । तदीयदुर्णीतिनिवारणेच्छया __ रणेच्छया स्वकुधमप्युपादिशत् ॥७॥ यदा प्रयाणान्तरितापि भीमजा ___ जुगोप निःश्वासतति विये गजाम् । मिषेण केनाप्यवगम्य तजनाद्
निनाय तां क्वाप्यवलम्ब्य संनिधिम्।।७८॥ नवाप्यथासन निधयः स्त्रियोऽनुगा
भुवा निगूढा अपि साधनात्प्रभोः। । विलेपनस्याधिकचन्द्रभागता
र्पणात्सितास्या इव मुद्रयान्तिके ॥७९॥ क्वचिच्च दानावसरे विमुद्रणाद्
१नवापि नवसंख्या निधय आसन् । २ भूम्यन्तरे । ३ विलेपनमत्र मुद्रणाय कृतं तत्र कर्पूराधिकक्षेपात् । ४ सितास्या प्रसत्या उज्ज्वलाननाः, "षिञ् बन्धे' निबद्धास्था वा।
Page #74
--------------------------------------------------------------------------
________________
. द्वितीयः सर्गः। बिभेद शङ्खस्य निधेः स धैर्यकम् । मुखे तथा भीमभुवोऽधिचन्द्रता
विभावनाच्चाफ्ललाप पाण्डुताम् ॥८॥ शशाक निह्नोतुमये न तत्प्रिया
प्रियाशयं साम यदा स चाश्रयन् । तदीयकोपस्य जिहीर्षुचेतसा
तदा चकारानुनयं नेयं विदन ॥८॥ पुरस्थितां तामनुनीय साशय
मयं बभाष यदलीकवीक्षिताम् । क्षितीश्वरः किं क्षितिमीक्षसेऽधुना.
मयि प्रिये विप्रियमादधासि किम् ?॥२॥ ततः प्रियामित्यनुनीय सत्त्वतः
समाधिमाधाय निजात्मनात्मनि । समाज एवालपितासु वैणिकैः
प्रणीतवीणासु रराज राजभिः ॥३॥ १ अधिकस्वर्णभूषणादिप्रकटनात् "चन्द्रोऽम्बुकाम्ययोः स्वणे सुधांशो कर्पूरे कम्पिल्ये मे वकेऽपि च' इत्यनेकार्थः । २ "पाश्चातः स्त्रीषु मार्दवम्" इति नीतिम् ।
-
Page #75
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
सधर्मधीः कर्म सशर्मनर्मणे प्रवर्तयन् सद्व्यवहारधारणः । न वीतरागः स विनिश्वयात् पुनमुमूर्च्छ यत्पञ्चममूर्च्छनाखपि ॥ ८४ ॥ अवाप सापत्रपतां स भूपतिगुरुत्वमन्यत्र नयाय शिक्षयन् । प्रशस्य मुद्दिश्य दयादमक्रमं
पुरः पुरश्वात्मविबोधनक्षमम् ॥ ८५ ॥ देधार यो वा चरणेऽतिकौशलं
जितेन्द्रियाणां धुरि कीर्त्तितस्थितिः । धारयोवाच रणेऽतिकौशैलं
स मार्गंणीये विषयं श्रर्यन् स्वयम् ॥ ८६ ॥ पुरः प्रयाणे न्यरुधद् न कोऽप्यमुं यियासुम खलु हस्तिनापुरम् ।
६४
१ अन्यत्र = लोके सावत्रपतां शिक्षयन् । २ यो रणे इति कौशल दधार । ३ द=दानं तत्र धारया = जलस्य निरन्तरतया उवाच । ४ रणे शब्दे श्रुते । ५ अयोध्यामतिक्रान्तम् । ६ मार्गणीये=याचकसंबन्धिनि, 'रणे' इत्यस्य विशेषणम् । ७ विषयं देशम् |
श्रयन् = भजन् ।
Page #76
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ॥ ।
असंवरेऽसंवरवैरिविक्रमे
विना श्रमं भङ्गमुपेयुषि क्रमात् ॥८७॥
असाधयत् साधनमप्यबाधया
स भारतं प्राप्य जयादनारतम् । प्रताप भानावुदयाद्रिसानुनि
क्रमेण सत्र स्फुटतामुपेयुषि ॥ ८८ ॥ अलं नलं रोडुमिहाभवन्नमी
भ्रम जन्तो रिपवोsस्य कानने । क्वचिद् विमृष्टं विषमस्थलेऽचले जलेऽतिदुर्गे स्वत एव दुर्गताः ॥ ८९ ॥ नयं विनिन्युः प्रचलन्नृणां बलं गुणा विवेकेप्रमुखा न चापलम् । ततः सुखायाजनि तन्निवेशनं
१ पुरः प्रयाणे कीद्दशे, असंवरे= "सेतौ पाल्यालिसंवराः इति कोषात् सेतुरहिते । " शम्बरं जले चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे मत्स्यैणगिरिभेदेषु ” । असंवरः = प्रबलः वैरिविक्रमः | २ "विना श्रमं नश्यति तस्य तेजसा" इति वा पाठः । ३ पर्वतादौ स्थानविशेषम् । ४ स्वतः = धनात्, दुर्गताः=दरिद्राः । ५ बलं गुणा नयं=नीतिं निन्युः, न पुनश्चापलं चपलत्वं निम्युः ।
५
77
Page #77
--------------------------------------------------------------------------
________________
शान्तिमायचरित्रस्वसीम्नि देशेऽपि च तत्प्रवेशनम् ॥१०॥ नयप्रवादी प्रतियानमानदन्
पटुः पदव्यां पटहस्तथार्हतः । स्मरः सरन्त्यामनिरुद्धमेव यद्
विरुद्धतां वारयति स्म संगतौ ॥९॥ नृपे प्रजायां सकृपर्नयाव्यया
दनीतिकृद् भीतिमुपैति दुर्जनः । रविच्छवि! किमुलूकमूकतां
सृजत्ययं सर्गनिसर्ग ईदृशः ॥१२॥ अनङ्गचिह्नं स विना शशाक नो
प्रवक्तुमन्यत् तदनन्यमानसः । यथा भवे भावि तथैव भावना
पुरः स्फुरेद् धातुरिहातुरे हृदि ॥१३॥
१ स्मर्यते इति स्मरः लोकैः स्मरणयोग्यः। २सरन्त्यांक चलन्त्यां पदव्यां-एकपदीमार्गविशेषे । ३ अनिरुद्ध-चपलं नरं विरुद्धतां वारयति स्म । ४ अनङ्गा इह सिद्धास्तेषां चिहंशानं विना। ५ यथाभावि-अनागतं वस्तु भवे-संसारे, तथैव भावना धातुर्मनसि पुरः स्फुरेत्।
Page #78
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
अलं विरक्तोऽपि न राज्यधूर्भराद् यदासितुं संसदि यत्नवानपि । नियोगिनोsपोस्य स योगिनोऽङ्गिनो विनोद हेतून विदधे संदः सदः ॥ ९४ ॥ ततः समुत्थाय वने तपस्विना यशस्विनाऽनेन समं समासितुम् ।
क्षणं तदारामविहारकैतवा
•
दभाजि राजापि तदीयमण्डलम् ||१५|| तदन्तरे दन्तुरिते नभोऽन्तरे शरैश्वलद्भिः करवालचालनैः ।
निदेशलाभाय नरेशपेशलं
निषेवितुं देशमियेष नैषधः ॥ ९६ ॥
अथ श्रिया भत्सितमत्स्यलाञ्छनः क्वचित् परोपहृतमण्डलश्रुतेः । स यानहेतुं पटहं स्फुटं दृशाप्यवीवदद् योधविबोधनोन्मनाः ॥९७॥
१ मुक्त्वा । २ सदसि सीदन्तीति सदः सदः तान् । ३ राशब्दः तत्र तृतीया ।
Page #79
--------------------------------------------------------------------------
________________
शान्तिमायचरित्रेखतन्त्रमामन्त्रणयाऽप्यमीमिलत् ___ समं वयस्यैः स्वरहस्यवेदिभिः । चलाचलं भूपबलं क्रुधा ज्वलद् - महोज्ज्वलं स्वामिविधेर्विधित्सया ॥९८॥ क्षितीशिता सैन्यपतेगिरा गुरुः
स्वतेजसे वाऽगरुवद् रिपून दहन् । पुरोपकण्ठं सवनं किलेक्षिता
न्यवेशयद् वस्त्रकुटीः पटीयसीः ॥१९॥ स्वयं समारोढुमना निगूढधी
स्तुरङ्गमं निस्सममष्टमङ्गलम् । रयादुपानेतुमहेतुयोगतो
दिदेश यानाय निदेशकारिणः ॥१०॥ अमी ततस्तस्य विभूषितं सितं
यशोभिरीशस्य दिशोभितः स्थितैः । अतुच्छपुच्छे तदुरःखुरे पुनः
सुपर्णकीयैव च मूर्तया श्रितम् ॥१०॥ उपाददुस्तस्य तुरङ्गपुङ्गवं
Page #80
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
जवेऽपि मानेऽपि च पौरुषाधिकम् ।
धरां समुत्सृज्य नभो यियासया निजक्रमैराक्रममाणमुच्चकैः ॥ १०२ ॥ हयं सपक्षैरुभयांश संगतैर्नरेशवस्त्राञ्चलरूपशालिभिः । द्विधा विपक्षं किल जेतुमुद्यतं
परेऽपि मत्वाऽवसरं परं पुरः ॥ १०३ ॥ उदीतपक्षैरिव सादिनि स्थिते तदंशुकस्योभयपार्श्वतोऽचलैः । उपाहरन्नश्वमजस्रचञ्चलै
रैमी विहङ्गैः सह यातुमुत्सुकम् ॥१०४॥ दिशां जयायोधुरसाधने मयि
नवं धनं साधु न बन्धनं पुनः । इतीव रोषादतिशायिपौरुषात् खुराञ्चलैः क्षोभितमन्दुरोदरम् ॥ १०५ ॥ अथान्तरेणाऽवटुगामिनाऽध्वना
१ वीनां पक्षं वैरिणं वा गमनस्पर्धया, यद्वा विपक्षंारुडं बतुकान्त्या । २ अञ्चलैः =प्रान्तैः | ३ अमी-सेवकाः ।
६९
Page #81
--------------------------------------------------------------------------
________________
शान्तिनाचरित्रऽऽशयेन हेपारवमाप्तुमुद्यतम् । अहंकृतिः शुद्धमतेन संगता __ हिताय लोकैरिति मौनमागतम् ॥१०॥ यथा मुखे पृष्ठपदे तथा स्थिति__ निशीथिनीनाथमहःसहोदरैः । करैरितीवाश्रितमुज्ज्वलैरलं
निगालभागेप्युरसा समैः समः ॥१०७॥ महोदयं स्वामिनि कामितं जया
दुपादिशद्भिः परितस्तथोर्ध्वगैः। निगालगाद् देवमणेरिवोत्थितैः
खगैर्मयूखैरिव सेवितं पुनः ॥१०॥ प्रभावभारैर्भविता स भूमिभुक्
समारुहन मा सविता सहस्ररुक् । सदावदातैरिति म राजिभि
विराजितं केशरकेशरश्मिभिः ॥१०९॥ अजस्रभूमीतटकुट्टनोद्गतै रजोबजेईरत एव गत्वरैः।
Page #82
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।
विरोधभावाद् मलिनैस्तनुत्विषा विषादयोगादिव नाश्रितं कचित् ॥११०॥ भुवः स्वमातुर्विरहास हैः पुनरुपास्यमानं चरणेषु रेणुभिः । पतद्भिरेतत्सहनं चिकीर्षुभिः
पदप्रणामे हि सतां प्रसन्नता ॥ १११ ॥ सुवर्णपर्याणमणीमयण्डजै
विचित्ररूपैः परितोऽनुवेष्टितम् ।
स्यप्रकर्षाध्ययनार्थमागतै
स्तदीयतार्क्ष्याभिधयऽधिभूधिया ॥ ११२ ॥
सपक्षभावात् प्रसरे सरेखतां
दिदृक्षुभिर्मङ्क्षु रजःकणच्छलात् ।
पदप्रसक्तैः सततं समन्वितं
जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ ११३ ॥ चलाचलप्रोथतया महीभुजे
निबोधयन्तं च सुगन्धिबोधने ।
१
.११ कृत्रिम पक्षिचित्ररूपैः । २ अधिभूः = खामी तार्यः तद्दु
द्धया ।
Page #83
--------------------------------------------------------------------------
________________
शान्तिनाचचरितचतुष्पदेभ्यः प्रणयेऽपि चाधिक - स्वमश्ववर्गे पुरुषे सुखावहम् ॥११४॥ रवेरवेक्ष्याश्वगणे गतेर्भिदः
खवेगदर्यानिव वक्तुमुद्यतम् । तदीयशिक्षाविधये वियत्कृत
क्रमं सिसृहुं त्वदसीयमान्द्यतः ॥११५॥ क सूरसूतानुजधीः क मे प्रभा
घुनाथजस्येत्यभिधातुमुत्सुकम् । अलं गिरा वेद किलाऽयमाशयं
महाशयश्चेति विमृश्य मौनिनम् ॥११६॥ विजेतुमुच्चैःश्रवसं हयं हरे
भयादिवोचैध्रुवमुल्लसत्पदम् । १प्रणये रहे, च-पुनःसुगन्धिशाने स्वम् अात्मानम् अधिक राशे शापयन्तम् । २प्रत्यहं भिन्नभिन्नगतिभेदान् । ३अमीषां रविहयानाम् इदम् अदसीयं मान्य-मूर्खत्वं गतिमन्दतां वा । ४ गरुडः। ५ 'अश्वाः सूर्यादुत्पन्नाः' इति कविसमयः । ६ उच्चैःश्रवसं विजेतुमिव उल्लसत्पदम् उच्चैर्लसन्तौ पदो क्रमौ यस्य तम् । हरेः इन्द्रस्य मम सगोत्रिणः हयस्य गती मनः मा व्यरा. इतीदिति हेतोर्मोनमास्थितम् । मौनमिह संघरं निवर्तनं शनैश्चरत्वमाश्रितम् इति भयाद् ध्रुवम् ।
Page #84
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः ।'
न वैमनस्यं घटते सगोत्रिणः
स्वयं हयस्येति च मौनमास्थितम् ॥ ११७॥
महारथस्याध्वनि चक्रवर्तिनः
भु
परः प्रयाणश्रवणाददुदुवत् । अमंस्त तत्राशरणः शरण्यतामैरण्ययोगस्य निशां विशां दिशा ॥ ११८ ॥ हयं तमारुह्य जयं पुरस्थितं स मन्यमानः लैवमानमानसः ।
परानपेक्षोद्वहनाद् यशः सितं
प्रमोदकामोदधियाऽविशद् वनम् ॥ ११९ ॥
चमूचराणामतिचारुखेलनैः परस्परप्रेरणवादिसादिनाम् ।
रदावदातांशुमिषादनीदृशां
बभौ विभुस्तत् पिवतां यशोऽन्तरे ॥ १२० ॥
१ शत्रुः । २ अरण्यवासस्य तथा निशां = रात्रीणां शरण्यतां बुबुधे विशां= नराणां दिशा = मार्गेण । ३ प्रवमानं विस्तीर्यमाणं मानसं = मनो यस्य सः । ४ श्रामोदो = हर्षः परिमलो वा । ५ अमीदृशां द्विषां यशः पिवतां सादिनामन्तरे विभुर्बभौ ।
Page #85
--------------------------------------------------------------------------
________________
शान्तिनाथचरितीददर्श तं सादिगणं समीरणे
विधाकृतस्पर्धनवर्धनं प्रभुः। प्रसृत्वरैर्वाजिबलैश्च सत्वरै___ हसन्तमन्तबलमवतां रवेः ॥१२१॥ सितत्विषश्चञ्चलतामुपेयुष
स्तुरङ्गरङ्गन्निवहस्य चास्यतः । श्रमात् पतफेनमिषादरेर्यशो
निपातनं मर्दनहेतु सोऽस्मरत् ॥१२२॥ विषूनतो वैरियशोऽधुनाऽधुनाद्
मिषेण पुच्छस्य च केसरस्य च । तदा तदाश्वस्य पदात् पदान्तर
स्पृशः समाश्वस्य जनानयं श्रमात् ॥१२३॥ प्रभोर्यशोऽपि प्रससार सर्वतः
क्षमातलं वाऽऽप्य नभस्तलं पुनः। १ आश्वस्य पुच्छस्य च-पुनः केसरस्य विधूनतः कम्पित. स्य मिषेण वैरियशोऽधुनात्-चकम्पे, अन्तर्णिगर्थः। किं कृत्वा, पदात्-स्थानात् पदान्तरस्थान् जनान् समाश्वस्य । अयं-चक्री। २ प्राप्य प्राप्य ।
Page #86
--------------------------------------------------------------------------
________________
६
द्वितीयः सर्गः ॥
स्फुटं चलच्चामरयुग्मचिह्ननै
'भूव रूपं तदखण्डपिण्डितम् ॥ १२४ ॥ विनोदसिद्ध्यै स नुनोद सोदरं
गरुत्मतः स्वं पुरतोऽश्वमाशुगम् । सितातपत्रोद्भवदंशुमण्डलै
रनिद्दुवानं निजवाजिराजताम् ॥ १२५॥ अपि द्विजिह्वाभ्यवहार पौरुषे
bra धिक्कारकरे गरुत्मति । हयेऽधिरूढश्च वसुन्धराधवः पराजयायैव स - दा - नवद्विषः ॥ १२६ ॥ स्फुटीकृता श्रीरमुनेन्द्रधन्वनो
१५
मुखानुषक्तायतवल्गुवल्गया ।
हयेन तत् किं न स चक्रभृजिनः सहस्रनेत्राकृतिमान् भवेदहो ! ॥ १२७॥
१ " स्वरूपमादेशि तदीयमेव किम् " इति वा । २ तस्य यशसः संपूर्णपिण्डितम्, प्रतिस्थानमखण्डतायोगात् । ३ रुषां इव = क्रोधेनेव । ४ सदा सर्वदा अनवाः = जीर्णाः, नवा वा; स चक्री; दानवद्विषः = कृष्णस्य पराजयाय =भङ्गाय |
Page #87
--------------------------------------------------------------------------
________________
शान्तिमायचरित्रजिनो मनोभूविषयं स्वरूपतो
यमश्वमारुह्य जिगाय विस्मयात् । उपेयिवांसं प्रतिमल्लता रय
स्मये जयात्तं मनसः स्मरेन कः ? ॥१२॥ विभुर्दधौ कांचन काञ्चनत्विषं ___ स्वकीयतन्वाऽद्भुततेजसा पुनः । तदा प्रभां वाहनमस्य तां रय
स्मये जितस्य प्रसभं गरुत्मतः ॥१२९॥ गच्छाधीश्वरहीरहारविजया
. नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः
श्रीमत्तपाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजय
१ जिनेन मनोभूविषयो जितः, तर्हि मनसः जयात् तं हयं को न स्मरेत् ? मनसि भवतीति मनोभूः ईडशो विषयः गोचरस्तं जिगाय वशीचक्र-यावान् मनोगोचरस्तं सर्व जिगायेत्यर्थः । २ नैषधीयस्य प्रथमसर्गस्य ६३ श्लोकः ।
Page #88
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः।
- स्याशास्यमानाप्रणीश्चक्रे वाचकनाममेघविजयः
शस्यां समस्यामिमाम् ॥१३०॥
इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्रीमेघविजयगणि
पूरितायां द्वितीयः सर्गः संपूर्णः ॥ श्रीः ॥
१भाशास्यन्त इत्याशास्यमानाशिन्याः।
Page #89
--------------------------------------------------------------------------
________________
|| अथ तृतीयः सर्गः
स सिन्धुजं शीतमहः सहोदरं जयन् यशोभिर्विजयौजसां भरैः । पुरःप्रयाणं प्रति हस्तिनापुरं
चकार कारुण्यधियाऽरुणीभवन् ॥१॥ नृपाधि परितो मनोहरं
हरन्तमुच्चैःश्रवसः श्रियं हयम् । सकण्टकैस्तैः सुभटैः स्फुटीभवद्वनाघनच्छायममंस्त हस्तिनम् ||२|| रिपूरगाणां विषये विषच्छिदे हरन्तमुच्चैःश्रवसः श्रियं हयम् ।
सं-वै-नते-यं तनुमन्तमन्तरा
१ सिन्धुजं समुद्रजम् - ऐरावणं शीतमहसः = चन्द्रस्य भ्रातरं यशोभिर्जयन् । विजयतेजसा श्रहः सहोदरं = सूर्यम् । कथंभू० पुर:प्रयाणं शीतं शान्ततया शनैः शनैरिति । २ " नृपाधिरोहात् सुमनोमनोहरं " इति वा । ३ सः चक्री वै=निश्चितं नते= नम्रीभूते इयम = अश्वं प्रसादेन प्रतिपादयन् = ददत् ययौ = चचाल । किं० हयं तनुमन्तं=मूर्त अयं = शुभभाग्यम् | ' प्रसादात्' इति " गम्ययपः - (सि० हे० २।२ । ७४) इति पञ्चमी, प्रसादं प्रपद्य ।
Page #90
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। नृपे प्रसादात् प्रतिपादयन् ययौ ॥ जयेन दीप्तः स निजाङ्गजन्मना
पुनर्जयन्या सुरसेनयान्वितः ।। जिताखिलक्ष्माभृदनल्पलोचन
श्रिया तदैन्द्रया रुरुचे विरोचनः ॥३॥ सहस्रदेवैः कृतसेवयेव यो___ऽश्वरत्नमासीद् बहुरत्नभूषणैः । पटूकृतारात्रिकमुच्चशासन
स्तमारुरोह क्षितिपाकशासनः ॥४॥ निजा मयूखा इव तीक्ष्णदीधिति
सरित्सवाहा इव पाथसां निधिम् । विरेजिरे राजसमाजराजयो __ जयोर्जितात् तें सृतसंगता गताः ॥५॥ निरीक्ष्य केचिच्चतुराः पुराधिपाः
स्फुटारविन्दाङ्कितपाणिपङ्कजम् । स्वतोऽपि विश्वंभरमेव मानसे
स्मृतिं दधानाश्चरणौ प्रपेदिरे ॥६॥ १तं-भगवन्तं गताप्राप्ताः धृतमित्वभावाः ।
Page #91
--------------------------------------------------------------------------
________________
মালিকাपथे चलन्तं यदि वा स्थितं रथे
तथेति तस्यैव मनोरथेरिताः । तमश्ववारा जवनाश्वयायिनं
वने जने वा प्रधने निषेविरे ॥७॥ स्थिते प्रभौ स्थैर्य धियश्चलाशये
नृपेऽचलायाः प्रभवश्वलाचलाः । परं शयानेऽप्यशयालवोऽद्भुतात्
प्रकाशरूपा मनुजेशमन्वयुः ॥८॥ चलन्नलंकृत्य महारयं हयं ।
स शक्रवचक्रधरो धराधरान् । प्रकम्पयशेषविशेषभीतये
तयेह जज्ञे गजवाजिसेनया ॥९॥ करेण रेणोः स्वशिरस्यहो धृतात्
खवाहवाहोचितवेशपेशलः । जगाद सादी गजपालबालकं · करोत्ययं तत्समलं परालकम् ॥१०॥
१ अयं तव करी रेणोः स्वशिरसि धृतात् परालकम् अन्यबेणिं समलं कुरुते मलयुक्तं तनुत इति चित्रम् ।
Page #92
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
कदाप्ययं पट्टगजे रजन् क्वचित् स्ववाहवाहोचितवेशपेशलः । सुखासने वा नरवाहने स्थितो तं ययौ चित्तनिलीन कौशलः ॥
मृगाक्षिलक्षैः समवेक्ष्ययं चलन बलादतुच्छोच्छलदध्वरेणुभिः । प्रमोदनिस्पन्दतराक्षिपक्ष्माभि
८१
( पाठान्तरम् )
र्निरुद्ध मानेक्षणमप्यतिक्षणात् ॥ ११॥
स वन्द्यमानोऽप्यनवद्यधीर्नृपैः कृपाणपाणिः कृपणैर्निजौजसा । पदं दधानो न मदं मनागयं व्यलोकि लोकैर्नगरालयैर्न लेः ॥१२॥ क्षणादथैष क्षणदापतिप्रभः प्रभानुसंधानकरः स्वमण्डलैः ।
१ उत्सवात् । २ यैः पौरैर्न पूर्व लः इन्द्रः व्यलोकि तैः अयं लः = इन्द्रः व्यलोकि 'अयमेवास्ति इन्द्रः नास्मात् परः कोsपीन्द्रः' इत्याशयः ।
६
Page #93
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रेअनीत्यधर्मादिषु हानिकृद् ययौ
नरैः परं गीतयशाः सकिनरैः ॥१३॥ इतस्ततो दिड्नगरप्रभञ्जनात्
प्रभञ्जनाध्येयजवेन वाजिना । जनान् विमुच्यैव गतं कचिनिशि
द्विषा विषादेन विषाऽदनेच्छया ॥१४॥ महीभृताऽऽतिथ्यकृता प्रवेशितः
कृतार्थतामात्मनि जानता कचित् । सहैव ताभिर्जनदृष्टिवृष्टिभिः
पुरं पुनाति स्म स चक्रभृजिनः ॥१५॥ स तत्र चित्रेण दिनानि कानिचिद्
व्यतीत्य नीत्याऽनुदिनं नवोत्सवैः । सपौरलाजोपरिवर्षहर्षितं
बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥१६॥ ततः प्रतीच्छ-प्रहरेतिभाषिणी
द्विधा विभक्तेव पुरस्सरा चमूः । १ किंनरसहितैनरैः। २ द्विषा वैरिणा कचिद् गतम् ।
Page #94
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
नृपस्य तस्योभयपक्षविस्तृता जगजिघृक्षोरिव दोर्द्वयी बभौ ॥१७॥ बले नृपस्यानुगताग्रगामुके परस्परोल्लासितशल्यपल्लवे । पयोधिवेले इव दुर्धरे नदत्रिरेखचक्राश्वगजे विरेजतुः ॥ १८ ॥ प्रभोरलं दर्शयितुं निजं बलं
बलोत्कटास्तत्र भटा नटा इव ।
मृषा मृधं सादिबले कुतूहलाद्
निबध्य वध्यस्य रिपोर्भियेऽभवन् ॥ १९ ॥ जलस्य दुर्गे नलस्य संभवे खलस्य कालाय युधे बले चले । निवेश्य तद्वारिपदार्थमानने
नलस्य नासीरगते वितेरतुः ||२०||
*
१ नलस्य =स्थानविशेषस्य श्रनने मुखे जलस्य दुर्गे सति तस्य जलदुर्गस्य वारकं निषेधकं पदार्थं नौप्रमुखं निवेश्य बले द्वे वितेरतुः । श्रनलस्य संभवे वह्निसंसर्गे तस्य वह्नेर्वारकं पदार्थ जलवाहादिकं निवेश्य बले द्वे वितेरतुः =तरणं चक्रतुः ।
Page #95
--------------------------------------------------------------------------
________________
८४
शान्तिनाथचरित्रेप्रयातुमस्माकमियं कियत्पदं
भवेत् त्रिलोकीति यशोऽस्य पिण्डितम् । मृगातारागणतारकैतवाद्
नभस्यसंख्येयमपीह संख्यजम् ॥२१॥ पवित्रिता श्वेतपयोजमूर्तिभि
धरा तदम्भोधिरपि स्थलायताम् । अखण्डडिण्डीरभरच्छलाद् यशः
समूढमित्यूढाधियेव भूभुजः ॥२२॥ किमर्कजायाः समलं जलं भवेद्
हिमाद्रिरूपेऽस्य यशोभरे स्थिरे । इतीव वाहैर्निजवेगदर्पितै
स्तदङ्गजैर्गाङ्गपदात् तदाश्रितम् ॥२३॥ यशःस्वरूपैस्तुरगैर्दिशां गणे
प्रसत्वरैः श्वेततरैः पुरःखरैः । स्वगातृसंस्थानधिया सुदुर्धरैः
१ असंख्येयम्-अगण्यम्। संख्यजम्-युद्धजं यशः। २ समूढं-समूहभावेन स्थितम् । ३ पाहैः हिमाद्रिजातक्षुद्रजलप्रवाहैः। ४ पदात्-मिषात् । ५ तत्-यमुनाजलम् । ६ खगायकनरनिवासधिया।
Page #96
--------------------------------------------------------------------------
________________
यद्वा--
तृतीयः सर्गः । पयोधिरोधक्षममुद्धतं रजः ॥२४॥ हरेर्यदक्रामि पदैककेन खं
त्रिभिधरेत्येव चतुष्पदीफलम् । बभूव पूर्वं द्विपदस्ततोऽधिका
गतिहरीणामुचिता चतुष्पदैः ॥२५॥ हरेर्यदक्रामि पदैककेन खं -
त्रिभिर्धरेत्येवमभूत् त्रिविक्रमः । ततो हरीणामपि रोदसक्रिमा___ चतुष्क्रमत्वं चतुरब्धिलङ्घनात् ॥ दिशां न सोशोऽस्तु न यत्र संगतिः
पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । पराङ्मुखीभूय दिशोऽपरां दिश__ मिति व्रजन्तो भिससञ्जिरे हयाः ॥२६॥ दिवाकराश्वीयजिगीषयोद्गतै
१ विष्णोद्धिचरणभाजोऽपि बहुशक्तिकत्वाश्चतुर्भुजत्ववत् चतुष्पदीफलं जातम् । तत्समयेऽपि दर्शदिनाचतुष्पदकरणम् । २ तस्य दिशोऽशस्य क्रमणे दिशोऽवकाशाभावात् परावृत्ताः।
Page #97
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
र्हयैश्चतुर्दिग्विजयैर्नृपाश्रयैः । त्रपा हरीणामिति नम्रताननैः प्रपद्यते वारुणदिग्रवेर्हयैः ॥२७॥ गतं पापात्रतया दिगन्तरे महोदयं नः समवेक्ष्य पाक्षिकैः । दिनेश्वराश्वैरिति चक्रिसप्तिभिन्यवर्ति तैरर्धनभः कृतक्रमैः ॥२८॥
चमूचरास्तस्य नृपस्य सादिनो
२
विनोदिनोऽप्यस्य दिनोदये जयम् । विधाय सर्वत्र विचित्रवादिनो
निवेदयामासुरथो रथोद्धताः ॥२९॥ अलंकृताः केचन राजवाजिनो जिनोक्तिषु श्राद्धतयेव सैन्धवाः । शनैश्चरन्तश्च रणेऽतिकौशलाद् वृतास्ययन्त्रा अपि निर्वृतिं दधुः ॥३०॥
१ नास्माकं सर्वदिग्जयः, किन्तु दयास्तदिग्द्वयमेव । २ नृपाश्रयैः हयैः कृत्वा त्रपा । ३ श्राद्धपक्षे मुखवस्त्रिकादि, अश्वपक्षे मुखयन्त्रणम् ।
Page #98
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। निनसुना भूमिभुजापि भक्तये .. पदे पदे भूर्युपदाप्रदायिना। विहारदेशं तमवाप्य मण्डली |
निवेश्य चक्रीशमकार्यतानुगैः ॥३१॥ स्थितस्य तस्यां पुरतो निजाङ्गजा .
मतङ्गजाश्चाकरजा महाध्वजाः। उपायनान्येभिरमुष्य भूमिपा
अकारयन् भूरितुरङ्गमानपि ॥३२॥ द्विषद्भिरेवास्य विलचिता दिशः
पुरेषु दग्धेष्वयशोनिवेशनात् । प्रभञ्जनैर्देवयशोरथायितं
प्रभञ्जनैरिपुरां धुरां बलात् ॥३३॥ यथेष्टदानाम्बुभिरम्बुधिः सरो
यशोभिरेवाब्धिरकारि गोष्पदम् । व्यधायि पूर्णा वसतिर्भुवस्तले . . १भूयुंपदा-स्वर्णढोकनम् । २ मण्डल्याम् । ३ अङ्गजाः पुत्रिकाः । ४ मतङ्गजा इभाः महाध्वजाः । ५ एभिर्वस्तुभिः उपायनानि भूमिपा प्रकारयन् ।
Page #99
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे___ रिपुस्थले वाऽप्यमुना ह्यमातमा ॥३४॥ सुवर्णधारामवलोक्य मार्गणे
कृपाणधारां समरे समार्गणे । इतीव धारामवीर्य मण्डली ___ कृता घनश्चापधरैस्तनूहिया ॥३५॥ भुजंगमवक्रगतौ नृपाद् भिया
धृतं तलं शून्यपदं विलासिभिः । विहंगमैः सा सकला ततश्चल
क्रियाश्रियाऽमण्डि तुरङ्गमैः स्थली ॥३६॥ अचीकरच्चारुहयेन या भ्रमीः
श्रमी मनाग् नेति चमूचरः परम् । न्यवेदि यत् ताभिरलाभि तेरिणा - नरेश ! देशभ्रमिरेव नाश्रयः॥३७॥
१ श्रमातमा दर्शरात्रिः, अमाता-अगणिता मा लक्ष्मीर्वा । २ धनुर्धराणां मण्डलं स्थानविशेषः। ३ चापं-धनुः, पक्षे अपां समूहः प्रापम् । ४ बिलेषु भासते बिलासिनस्तैः, पक्षे विभिः पक्षिभिर्लसन्त इति । ५ चमूचरः भ्रमीर्या न अचीकरत् , परं ताभिर्भमीभिः इति न्यवेदयत् ; इतीति किम् , नरेश ! तव अरिणा भ्रमिरव अलाभि ।
Page #100
--------------------------------------------------------------------------
________________
. . तृतीयः सर्गः। अयं समारुह्य हयं प्रभामयं ___ निजातपत्रस्य तलस्थलेऽनलः । दिदेश नीराजनकर्मणे जनान
महौजसाऽऽविष्करणाय तेजसः ॥३०॥ प्रभोः प्रभावर्द्धिविधो समादधौ __ सहायता या मरुतां पतिर्भुवि । भैरुत् किमद्यापि न ताः सुशिक्षते
सनाऽप्यनालस्यधियाऽनले सुहृत् ॥३९॥ प्रभूतदूतैरपि यः कृताहवो
ऽप्यनाश्रवोऽभूत् पुरुहृतविक्रमः । तदत्ययः प्रत्ययतः कृतोऽमुना _ वितत्य वात्यामयचक्रचंक्रमान् ॥४०॥ विवेश गत्वा स विलासकाननं
१ अनलः महौजसा । अग्ने खतेजसः प्रकटीकरणाय नीराजनकर्म कार्यत इति । २सहायता मित्रभावा याश्चकार इन्द्रः भुवि-पृथिव्याम् । ३ मरुत्-वायु गाधीशप्रसङ्गेन अनले वह्नौ सुहृद् भूत्वा प्रभावद्धि समाधत्ते-वायुरनलमित्वं भूत्वाऽरिपुरदाहादिना साहाय्यं सुशिक्षते। ४ कृतामन्त्रणः। ५ श्राश्रवो -वचने स्थितः, अनाश्रवान आशाकृत् । ६ संमुखगमनात् ।
Page #101
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
विहारयुक्तं मुनिराजिराजितम् । तदन्तिके पातककर्मणोऽन्तिके न के चिदानन्दविदस्तदान के ? ॥ ४१ ॥ स सात्त्विकस्तात्त्विकवर्गसंगत
स्ततः क्षणात् क्षोणिपतिर्धृतीच्छया । चकार चर्चा श्रमणाश्रमेऽश्रमः स्वसंपदो वैश्रमणः स्वसंपदाम् ॥ ४२ ॥
ततः समुत्थाय महाशयः शयं निवेशयन् वज्रभृदर्पिते शये ।
प्रबालरागच्छुरितं सुषुप्सया
ययौ वनं यौवनभृत् कृतावनम् ॥ ४३ ॥ वयोनिनादैर्जयवादमादधत्
प्रवालवालव्यजनैः समीरयत् । निशम्य सम्यग् वनमेष पिप्रिये हरिर्घनच्छायमिवार्णसां निधिम् ॥४४॥
१ तेषां पटहे । २ " चर्चा स्याच्चर्ममुद्रायां चिन्तास्थासकयोरपि " इत्यनेकार्थः, कथं 'मया एषा संपल्लब्धा, किं दत्त्वा, तपस्तप्तम् ?' इत्यादिका । ३ स्वं=धनम् ।
किं
Page #102
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
वनान्तपर्यन्तमुपेत्य सस्पृहं संमेत्य तच्छासनमन्यभूधनैः । पटालयाः शिश्रियिरे घटालयान् पुरो दधानै बहुगन्धसिन्धुरान् ॥ ४५ ॥ परेऽप्यथासन्नचराश्चराचराः
क्रमेण तस्मिन्नवतीर्णदृक्पथे । विशश्रमुस्तच्छिबिरे विलम्बिनि भैरावताराखदुष्ट्रमालिनि ॥ ४६ ॥
मतङ्गजं वॉरिनिवारणं द्विधा
व्रजन्तमन्तः शिबिरं दिदृक्षताम् । न्यवति दृष्टिप्रकरैः पुरौकसा
मसैान्द्रभावाध्वयुषामुपेयुषाम् ॥४७॥
प्रविश्य तन्नगरे ससाधनैधनैरुपादाय यथेष्टवास्तवम् । स्फुटं दिदीपे कटकं भटैर्जनै
१
१ प्राप्य । २ श्राज्ञाम् । ३ भरस्य श्रवतारणे श्रारवन्तो ये - उष्टास्तैः शोभिते । ४ वारिनिवारणं = सेतुं प्रति व्रजन्तम्, पक्षे श्ररिनिवारणम् । ५ पलायनात् ।
Page #103
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्ररनुव्रजद्वन्धुसमाजबन्धुभिः ॥४८॥ ततः प्रसूने च फले च मञ्जुले
निवेश्य देश्ये वनपालपुङ्गवे । नृनाथसभ्येभ्यपटाश्रयान्तरं
विनीयमानेऽत्र चरैर्मुदोऽभवन् ॥४९॥ कृतप्रसादो धनमालिनाऽवदत्
स सन्मुखस्थाङ्गुलिना जनाधिपः । निवेदिते पुष्पफलादिवस्तुनि
सुनिश्चलं तिष्ठ सुतुष्टचेतसा ॥५०॥ विदेशजैः पुष्पफलादि सादरं ___ मनःप्रसादाय विदायलिप्सया । निवेद्यमानं वनपालपाणिना
प्रपद्य भूपैर्मुमुदे पदे पदे ॥५१॥ विवेकिलोकैः कृतकेलिकर्मभि
विलोक्य लोकंपृणतागुणे स्तुते । महाजनश्वारुसभाजनाश्रितो
व्यलोकयत् काननकामनीयकम् ॥५२॥
Page #104
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। फलानि पुष्पाणि च पल्लवे करे
समं समादाय जने परस्परम् । - प्रसर्पति प्रीतिमना महामना ___ अमन्यतास्मिन् समये खधन्यताम् ॥५३॥ न याऽजनिष्टाऽप्येनयाऽजनिष्टया
घयोतिपातोद्गतवातवेपिते । पुरा जने नीतिरयं पुरा धृता
वयोऽतिपातोद्गतवातपिते ॥५४॥ नृणां क्रियाऽस्मिन् शिबिरे पुरीप्रिया
क्रयादिकाऽभूदधिकाप्यनेकशः। स्थितैः समादाय महर्षिवार्धका
नुगैर्जनैवस्तु विसिष्मिये ततः ॥५५॥ यदत्र तन्त्रे विषयान्तरागते
खसजने तथ्यमकार्षुरुत्तमाः। १ श्रात्मनो धन्यताम् । २ अनया पुरा इयं नीतिधृता । कया, अजनिष्टया परमेश्वरकृतसंतोषेण या नीतिः पुरा नाऽज. निष्ट न जशे । कस्मिन्, वयोति० वृद्धे; तथा वयःअवस्था तस्या अतिपातः अतिशयस्तेन उदूतं नष्टं वातवेपितं यस्मात् तस्मिन यूनि, यद्धा, अप्रश्लेषात् अवयोतिपादोद्तवातवेपिते ।
Page #105
--------------------------------------------------------------------------
________________
९४ शान्तिनाथचरित्रेफलैः प्रसूनैर्बहुमानमादराद्
वने तदातिथ्यमाशिक्षि शाखिभिः ॥५६॥ विनिद्रपत्रालिगतालिकैतवाद्
ब्रजैरुतापीयत सोमजं नृणाम् । तदप्यभूदुन्मदसंपदेऽपदे
ऽप्यहो महाविभ्रमकारणं धियाम् ॥५॥ चतुर्दिगन्तेषु जयात् ससाधनं
मृगाङ्क चुडामणिवर्जनार्जितम् । धनं विरेजे शिबिरे चयीकृतं
सुराचलस्पर्धनयाऽनयाश्रितम् ॥५०॥ प्रभोर्भयाद् वैरिकदम्बकं बकं
धिया गुरुकृत्य विलक्षमानने । दधानमाशासु चरिष्णु दुर्यशः
१ विकस्वरपत्रश्रेणिपूर्णा या अलिः सुरा तस्याः कपटात् "अलिः सुरामधुलिहोः' इत्यनेकार्थः, चन्द्रहासमद्यभ्रमात् सोमज-दुग्धं पीतम् । २ सोमाजातं विशेषेण भ्रमकारणं स्यात् "शीतकरश्चरस्तपस्वी च'' इति ज्योतिर्विदः। मृगः अङ्के यस्य मृगाङ्कःपञ्चमचक्री जिनःतंचूडामणौ वरयतीति क्विपि मृगाङ्कचूडामणिवर् स चासो जिनः सेनान्यादिस्तेन अर्जितम् ।
Page #106
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। पयोधिरोधः खलु संनिधौ दधौ ॥५९॥ . वने चरन सानुचरः पयोरुहां
परागभागैरिव पूजितोऽम्बरे । जिनेश्वरः पञ्चमचक्रिपञ्चमः ___ स कौतुकी तत्र ददर्श केतकम् ॥६०॥ वियोगभाजां हृदि कण्टकैः कटुः
पटुः स्मरायोधनसाधने भटः। त्वदीयपत्त्रं मदनेन दिग्जये ।
निधीयते तार्किकवादिनाऽऽदितः ॥६१॥ अलं दलं त्वं युगपजगजये _ निधीयसे कर्णिशरः स्मरेण यत् । ततः कृतं तत् करपत्त्रदारुणं
वियोगिनां हृद्दलनात् सनान्वितम् ॥२॥ यदा हनिष्यत्यमुना स्मरश्चरन्
प्रपद्य वैरं किमिति स्मरन् हरः । ततो दुराकर्षतया तदन्तकृद्
१ "पञ्चमो रुचिरे पक्षे' इत्यनेकार्थः । २ यथा तार्किकवा. दी आदितः पत्रं निदधाति । ३ 'दलम्' इति सव नाम अन्वितंत्र यथार्थमित्यर्थः । ४ तस्य स्मरस्य अन्तकृत् ।
Page #107
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रेन्यवारयत् केतक ! चेतसा त्वकाम् ॥३॥ दधासि पत्रं करपत्रकैतवात्
समादेवत्वेऽपि जनार्दनोचितम । कृतालिपानं तत एक सेवनाद्
विगीयसे मन्मथदेहदाहिना ॥६४॥ त्वदग्रसूच्या सचिवेन कामिनो__ मनोयुगं योजयते मनोभवः । भवेत्तदाश्लेषविशेषणे नयाद्
न शीतभीतिर्नववाससीव सा ॥६५॥ त्वयि प्रपन्ने तरुणस्य योषितां
मनोभवः सीव्यति दुर्यशःपटौ । प्रसह्य संकेतपदेऽपि केतनं
त्वमेव तत्केतकवानिकेतनम् ॥६६॥ करेऽधिकुर्यात् तव पत्त्रमेव यो
धृतिः सपत्रा-कृतिमेति तस्य यत् । १ धृतिः धैर्य दुःखम् एति कम्पते चलतीति यावत् । यद्वा ध्रतिः धैर्य सपत्रा-सपना सवाहना कृति प्रयत्नम् उद्यमं प्रा. मोति-चलनायोद्यतं भवतीत्यर्थः । वियोगकारिसंबन्धे-विशिष्ट योगवतां सङ्गेऽपि, अपरस्य मोहो-मूर्छा, अपगतः रमायाः= लदम्याः ऊहो-विमर्शः, यद्वा, परे-परमात्मनि मोहं कृतति वा ।
Page #108
--------------------------------------------------------------------------
________________
वतीयः सर्गः। स्फुटं च पत्रैः करपत्रमूर्तिभि
वियोगियोगे-परमोहकृत् त्वकम् ॥६॥ फलं न सुखादु दलं सधूलिकं ___ तवास्ति वापल्लव एव चादरः । विना फलं केतक ! केन पशुवद्
वियोगिहृद्दारुणि दारुणायसे ? ॥६८॥, धनुर्मधुस्विन्नकरोऽपि भीमजा
प्रियं परागैरनुरागमुन्नयन् । मनो हिनस्त्येव हि नस्तिरोभवन
मनोभवः स्वाश्रयभित् कृशानुवत् ॥६९॥ मुनेर्मनोऽवोमनकामनाशने ___ परं परागैस्तव धूलिहस्तयन् । स्मरः स्मरन् विश्वजयं शरैर्व्यधाद्
व्यथान्वितं धिग् मुनिघातपातकम् ॥७॥ रतिप्रसक्तं तदसक्तमाशयेऽप्यसंशयं नः सकलं बलं बलात् । १ आपल्लव पत्र आदरः। २ अवामनः सजः।
Page #109
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
प्रसूनधन्वा शरसात् करोति मां विमुच्य रुच्योपशमस्य चेतसि ॥ ७१ ॥ उदीर्य वीर्यादतिविप्रियं वशे निधित्सता शान्तरसाख्यमानसम् । प्रपद्य वेलां संमितेर्हृतारते
रिति क्रुधाऽकुश्यत तेन कैतकम् ॥७२॥ विदर्भसुभ्रू स्तन तुङ्गताप्तये तपस्यतोऽद्रीन् नृपतिर्व्यतित्रजन् । ततः प्रयाणात् तदुपत्यकाश्रये जहार तुङ्गत्वमदं पटालयैः ॥७३॥ प्रतिस्थलं तत्र गजान् समुन्मिलइटानिवापश्यदलं तपस्यतः । स्वकुम्भयोस्तत्कुचशोभयाऽभयं
तथैव धित्सून् शिरसा नमस्यतः ॥ ७४ ॥ विभुर्वनातिक्रमणे स चक्रभृत् क्वचिद् घटान् वैक्षेत संतपस्यतः ।
१' मा ' इति मां विमुच्य = त्यक्त्वा चेतस्युपशमस्य रुच्या । २ समितिः = युद्धम्, पक्षे यतिसमितिः | ३ वाशब्द इवार्थे ।
Page #110
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
फलानि धूमस्य ध्यानधोमुखान् कुचोपमाप्त्यै पथि दाडिमागमे ॥ ७५ ॥ केपालिनः क्वापि कपालिपालितासनस्थितानैक्ष्य तदाकृतेस्तुलाम् । अदीवरद वीरतया फलान्विते
स दाडिमे दोहदधूपिनि द्रुमे ॥७६॥ वियोगिनी मैक्षत दाडिमीमसौ तपस्तपन्तीं बहुलातपे तेपे । समुद्गिरन्तीं करुणाऽरुणास्रवं
पदे तदासेविभिरीहितं रसम् ॥७७॥ वनेचरीं कामपि तद्भटैर्धृतां
प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् ।
ย
त्रसन्मृगाक्षीमचिरादमोचय
लतामिवायं गिरिजां रजोन्विताम् ॥७८॥ शिशूनपि स्वान् सममोचयद् नृपं कृपाप्रपारूपमुपेत्य सत्यगीः ।
१ कपालिनः = संन्यासिविशेषान् ऐक्ष्य = दृष्ट्वा तेषामाकृतेस्तुलां तुल्यतां दाडिमदुमेऽदीधरत् । २ तपऋतौ ।
Page #111
--------------------------------------------------------------------------
________________
शान्तिनापपरित्रफलस्तनस्थानविदीर्णरागिह
निदर्शनात् सा सृजती तदाशिषम् ॥७९॥ अभिक्रमे भीमसुतां वियोजितां
श्रियाऽथ सस्मार सुराङ्गनाजितम् । नृपश्चलन वीक्ष्य लतां फलान्तराद्
विशच्छुकास्यस्मरकिंशुकाशुगाम ॥८॥ स्मरार्धचन्द्रेषुनिभे कशीयसां
समापतत्पान्थनृणां कदम्बके । प्रभुः पलाशे तुलनामदीदृशद्
गलज्जरदस्त्रितपत्रसंकरे ॥८॥ वियुक्ततापत्त्रधनर्विनाशने
स्फुटं पलाशेऽध्वजुषां पलाशनात् । १ "अभिक्रमो रणे यानमभीतस्य रिपून् प्रति " । २ युज-समसंख्यतां मुक्त्वा प्रवृत्तिर्वियुक् तादृशी तता विस्तीर्णा आपत् तस्यास्त्रायन्ते ईदृग्ध विनाशने सति पलाशे पत्तत्रयात् , वियुक्तता-पक्षियोगः, पत्राणि च, ततो द्वन्द्वः, तद्रूपधनैः; पक्षे वियुक्तं-विरहः तस्य तापं त्रायते; यद्वा, विरहरूपा आपत् तांत्रायन्ते ईदृग्धनविना अशने भोजने सत्यपि अध्वजुषां-मार्गसेविनाम् ।
Page #112
--------------------------------------------------------------------------
________________
वतीयः सर्गः। मुखेऽपि मालिन्यदशा ह्यमन्यता. ___ऽमुनोचिता पातकचिन्तयाऽध्वनि ॥२॥ स किंशुकः किंशुकवक्त्रतुल्यतां
घरेद्विपत्त्रीभवनादिति स्मरन् । सवृन्तमालोकत खण्डमन्वितं
विशङ्कमुद्यत्सुमनः सुवर्णरुक् ॥८३॥ *, कचित् पुनः शाल्मलिशालमालिनि
शिलोच्चये राजपथावरोधिनि । ददर्श भूपः सुमनोनिबन्धनं
वियोगिहृत्खण्डिनि कालखण्ड जम् ॥४४॥ नबोलतागन्धवहेन चुम्बिता
जिनेशपादा युवराजताभृता । समीयुषा स्वागभुवा प्रणेमुषा
गजाश्ववृन्देन समं समङ्गलम् ॥८५॥ प्रिया तदीया जननी नृपेण सा
करम्बिताङ्गी मकरन्दसीकरैः । १ बाल्यावस्थाया गन्धो लेशस्तं वहति न-यूनत्यर्थः, नम्नतिरूपण 'म' इत्यन्ययेन समासः।
Page #113
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रेसमालिलिङ्गे शुचिवासरे रसं
प्रकाशयन्ती गिरिजेव तापमुक् ॥८६॥ लतेव तन्वी विभुविप्रयोगतः
प्रतापमेवादिशती नवोदयम् । दृशा नृपेण स्मितशोभिकुड्मला
भृशाऽकृशारूढरतियपीयत ॥८॥ अदम्भसंरम्भविमुक्तमानसा
न सा प्रियं प्राप्य न विप्रिये प्रिया। नृपेण सर्वा प्रमदा मदालसा
दरादराभ्यां दरकम्पिनी पपे ॥८८|| विचिन्वतीः पान्थपतङ्गहिंसनै
विना शुभान्यभ्रगताः प्रकाशिकाः। निशि व्यधुः स्वालयसंमुखोत्सुक
प्रयाणयोगादपि दीपिका भटाः ।।८९॥ घटा गजानां मदसंकटैः कटै___ रपुण्यकर्माण्यलिकज्जलच्छलात । निदर्शयन्ती बहुधागमोदित
Page #114
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। प्रभञ्जनान्ममवपुः सरस्यभूत् ॥१०॥ सहेत न कापि स हेमपुष्पकः
कलङ्कपत मधुपोज्झितस्ततः । व्यलोकयच्चम्पककोरकावली
नृपः पथि क्वापि सुवर्णभास्वराः ॥११॥ अहर्पतेर्दर्पभरात् प्रसर्पति
प्रभाभरे भूमिभुजां महोदये । ददर्श ताराः पतनोन्मुखाः प्रगे
सं-संवरारेबलिदीपिका इव ॥१२॥ अमन्यतासौ कुसुमेषु संभवं
जिनोऽपरागः स परागमाश्रयन् । दिशां जयालोहितचन्दनेज्यया
कृतां रुचिं पद्मनिवासिपद्मया ॥१३॥ क्वचित् सरोऽन्तर्जलकेलिकमणि . १ अहर्पतेर्महोदये सति दर्पभराद् भूमिभुजां राक्षां प्रभाभरे प्रसर्पति सति; यद्वा, अहर्पतेः प्रभाभरे भूमिभृतां-पर्वतानां महोदये प्रसर्पति सति । २ संवरार-कन्दर्पस्य; पक्षे सर्व वस्तु संवृण्वन् ससंवरः सर्वत्यागी अरिः शत्रुः, तदा 'स' इति पद्मध्याहार्यम् । रात्रिभागे दीपान कृत्वा अनश्यत् ।।
Page #115
--------------------------------------------------------------------------
________________
२४
शान्तिनाथचरित्र___ परागमन्धकरण वियोगिनाम् । तदप्यभूद् राज्ञि सुवर्णवर्णित
तत्विषां नूनमनूनवृद्धये ॥९॥ वेनेचरेणापि वनेत्र पत्रिणि ___फलाढ्यपुष्पैस्तदघानि तजनः। मरेण मुक्तेषु पुरा पुरारये
शरेषु लेभे विफला क्रिया यतः ॥१५॥ वने चरचारुचमूचराशुग
स्थले बभौ पुष्परजोव्रजः क्वचित् । हृदि ज्वलत्काममहानलाषि
स्तदैङ्गभस्मेव शरेषु संगतम् ॥९॥ पिकाद् वने शृण्वति भृङ्गहुङ्कृतैः
स्फुट भटानां वचनानुवादिभिः । जयारवोद्घोषणमेव चक्रिणो
जनोऽनजन्यस्तदमन्यताध्वगः ॥१७॥ १ धनेचरेण स्मरेण सैनिकः फलाव्यपुष्पैः प्रघानि, केवलेषु शरेषु मुक्तषु क्रिया विफला लेभे । फलमत्र शस्त्राग्ररूपम् अनेकार्थकोशे च प्रसिद्धम् । २ कामाग्नेर्भस्मेव। ३ मजन्येन-उत्पातेव रहितः।
Page #116
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
स्वसैनिकानां नृपतिः स्वमानसे दशामुदञ्चत्करुणो वियोगिनाम् ।
निधाय चाज्ञापयदागमं पुनर्निजावरोधस्य परस्परेच्छया ॥९८॥
नृपाज्ञयाऽऽमन्त्रितकामिनीजने
पुरस्तथान्वागमने मनस्विनाम् ।
अनास्था सुनकर प्रसारिणीं
स्त्रियं श्रमेणानुनिनाय कश्चन ॥ ९९ ॥ चलन् नृपादेशनिवेशपेशलः
पुरः स्वसेनान्वयतो नृपो गुणैः । स्वगेहमाप्यापि वियोगिनीं प्रियां
ददर्श दूनः स्थलपद्मिनीं नेलः ॥ १०० ॥
रसालसालः समदृश्यताऽमुना
स्वदेशजन्मा वसुधातपत्रितः । सृजन् दलैस्तोरणधोरणीं चलैः
फलैः पुनर्युञ्छनकर्म शर्मणे ॥ १०१ ॥ |
१०५
१ स्थलपद्मिनीय स्थल पद्मिनी, लुप्तोपमा । २ गुणैः कृत्वा नरः =अर्जुनः कृष्णो वा यद्वा, नल इष नलः इयमपि लुप्तोपमैव ।
Page #117
--------------------------------------------------------------------------
________________
१०६
शान्तिनाथचरित्रे
जगर्ज गर्जेषु मणिर्मदोत्कटः स्फुरद्विरेफारवरोषहुंकृतिः । स्पृशंश्च सत्तावयवैर्भुवं जयै
दिशां गजानामिव सौङ्गजश्रियाम् ॥ १०२ ॥ समुच्छ्रिते चाम्रतरौ समीपगे ध्वजे महेन्द्रस्य चलोचकेतनैः ।
समीर लालमुकुलैर्वियोगिने
हितः स्वलोकाय सुखाकरोद् नृपः ॥ १०३ ॥ वियत्युदीयाय जिनेशचक्रिणः
सदानुयानादिव चक्रकैतवात् । अनीतिनिष्ठाय नु चक्रबान्धवो
जनाय दित्सन्निव तर्जनीभियम् ॥ १०४ ॥
दिने दिने त्वं तनुरोधि रेऽधिकं
मणे ! करस्पर्शनो ममेति सः । निजातपत्राय जगत्त्रयीविभु
१ गर्जेषु=गजेषु मणिः=रत्नमित्यर्थः । २ दिक्करिणां विजयैः । ३ अङ्गलक्ष्म्या सहितानाम् । ४ स्वदेशलोकेन बहुकालं वियोगिना ईहितः = वान्छितः । ५ सूर्यः ।
Page #118
--------------------------------------------------------------------------
________________
तृतीयः सर्गः ।
૧૯૩
नृणां विपेत्राय ददौ प्रेभाभरम् ॥ १०५ ॥
कृपाणरत्नं कृपणे कृपाधनं
पुनः पुनर्मूर्च्छ च तापमृच्छ च ।
द्विषे मिषेण स्वकराकरस्य यदितीव नित्यं समुपादिशत्प्रभोः ॥ १०६ ॥ धृतं पदं वार्धकिरत्नयत्नतो मृषाकरोद भूरिकृतोपभोगदम् । इतीव पान्थं शपतः पिकान् द्विजान्
क यासि हित्वा वनिता नितान्तमुक् ॥१०७॥ यथेष्टदानेन विशिष्टशिष्टधीः स्वसैन्यजन्ये शिबिरे पापदे ।
१ विपदस्त्रायत इति विपत्त्रं तस्मै । २ स्वोपरिधररोन छत्राय प्रभादानं, स्वप्रभाया आधिक्यात् । ३ कृपाणरत्नं कृपणे=दीने कृपाधनं = कृपामयम् ; द्विषे = रिपवे त्वं मूर्च्छ तापं वा ऋच्छ = प्रामुहि, इत्युपादिदेशेव । ४ किं० पदं भूरिणा स्वर्णेन कृता ये उपभोगास्तेषां दायकम् । ५ 'हे पान्थ ! त्वं वनितानितान्तमुक् क्व यासि ?' इति पान्थं शपतः पिकान् वा द्विजान् = गमनवारकदैवशांश्च वार्धकिकृतं पदं स्थानं मृषाऽकरोत् ; किमर्थ वारणं क्रियते, स्थानलोभादेव न यास्यतीति भावः । ६ सः = राजा शिबिरे प्रपायाः स्थाने पथिकान कयापि रीत्या दैन्यतः सखेदं यथा स्यात्तथा लोहितेक्षणान् न ऐक्षिष्ट ।
Page #119
--------------------------------------------------------------------------
________________
૨૦૬
शान्तिनाथचरित्रे
कयापि रीत्या पथिकान्न दैन्यतः सखेदमैक्षिष्ट स लोहितेक्षणान् ॥ १०८ ॥
अलिस्रजा कुड्मलमुच्च शेखरं
निरीक्ष्य मेने मुनाऽपि चक्रिणा । मेsपि दानातिशयः फलोदय
श्रिये पुनः किं पुरुषे सचेतसि १ ॥ १०९ ॥ अलिस्रजा कुड्मलमुच्चशेखरं
श्रिया जयच्चर्म मणिं नृणां मणिः । दधार धाराधरधारणे रणे
क्षमं गुरु द्वादशयोजन प्रमम् ॥ वनं घनच्छायमिहाग्रतोऽग्रहीद् निपीय चाम्पेयमधीरया धिया । मणिः पुरोधा अवरोधसङ्गतं
स्वकान्तकान्तागमनात् स्मरं गतः ॥ ११०॥ अखण्डदण्डं महसाऽभिपिण्डितं सुवर्णवर्णांशुक केतुमण्डितम् ।
१ धाराधरो = मेघः कृपाणश्च; कृपाणस्य धारणं यस्मिन् रणे; अथवा रणे मेघस्य धारणे समर्थ चर्ममखिं दधार ।
Page #120
--------------------------------------------------------------------------
________________
तृतीयः सर्गः। स धूमकेतुं विपदे वियोगिना. ___ मजीगणद् नाशयितुं गणं द्विषाम् ॥१११॥ हृदः पयोधेः स गभीरताभृतः
समुच्छलत्स्वच्छमहामहोमणिम् । स्वतेजसां बीजमिव धुर्ति नय
दुदीतमातङ्कितवानशङ्कत ॥११२॥ गैलत्परागं भ्रमिभङ्गिभिः पत
घृतालिदूरीकरणेऽब्जमावहन् । स काकिणीरत्नसयत्नपाणिना
रराज राजन्यजयी कृपाणिना ॥११३॥ नृपेण चक्रे ह्यवनीवनी पुरं
प्रसक्तभृङ्गावलिनागकेसरम् । १.हृदयसमुद्रात् उदितं-उत्थितम् । २ प्रातङ्कितं मरजचनितं अस्यास्तीति नित्ययोगे मतुप् "प्रातको रुजि शङ्कायां संतापे मरुजध्वनी" इत्यनेकार्थः । ३ स-राजा रराज । किं कुर्वन् , का किणीरत्ने सयत्नो यः पाणिस्तेन कमलं दधत् । किं० अब्जम् , गलत्परागम् ; पूर्व पतन्तः पश्चाद् धृता ये अलयो भृङ्गास्तत्प. राकरणे। ४ नृपेण अवन्या भूमौ या धनी-वनराजी सा पुरं चक्रे । प्रसक्तति० प्रसक्तानि भृङ्गावलिनागकेसराणि यत्र तत् । भृङ्गादयः ओषधिविशेषाः ।
Page #121
--------------------------------------------------------------------------
________________
११०
शान्तिनाथचरित्रे
व्यधायि तस्मिन्नभिषेचनान्नृपैमहोत्सव द्वादशवार्षिकोऽन्वहम् ॥ ११४ ॥ जने वधूनां लसदञ्जने दृशि परस्परेणाभिनये तदुत्सवे । स भारनाराचनिघर्षणस्खल
त्कृतारणैराभरणैरमन्यत ॥ ११५ ॥ न वीतरागस्य रतौ नवाऽरता
वनामनस्यं मन एव तज्जनः । अवीतरागस्य तु वीतरागता
ज्वलत्कणं शाणमिव व्यलोकयत् ॥ ११६ ॥ कृपालयं पालयतोऽर्हदीशितुवामनं वा मैननेन तन्मनः ।
66
"
१ श्रामनस्यं = प्रगाढं दुःखम् । २ यानमङ्कुशवारणम् । निवादिनां पादकर्म यतं वीतं तु तद्द्वयम् ( श्र० चि० ४, २६७) । ३ " वीतं फल्गुहयद्विपम् ( श्र० चि० ४, ३१४ ) तत्र रागभावरूप एव ज्वलन् = दीप्यमानः कणो अंशो यत्र तत् । वीता रागभावरूपा ज्वलत्कणा यस्माद् वा । "करणो धान्यांशलेशयोः" "शाराः कषे मानभेदे" इत्यनेकार्थः । ४ अवामनं= पटुतरम्, वान्तिरहितं वा । ५ ज्ञानेन ।
""
Page #122
--------------------------------------------------------------------------
________________
वृतीयः सर्गः।
१११ जगत्परं पौरजनो जगद्भुजि___ बलत्कणं शाणमिव व्यलोकर्यत् ॥ गच्छाधीश्वरहीरहीरविजया
____नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः ।
. श्रीमत्तपाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजय
स्याशास्यमानाग्रणीश्चक्रे वाचकनाममेघविजयः
शस्यां समस्यामिमाम् ॥११७॥
इति श्रीनैषधीयमहाकाव्यसमस्यावां महोपाध्यायश्रीमेघविजयगणि
परितायां तृतीयः सर्गः संपूर्णः ॥ श्रीः ॥
-
-
१ जगत् पालयतः । २ मगतो भुजि जनं तत्र ज्वलन्तः कणा यस्मिन् , बहुभोजने बहुपाक एव वरमिति । ३ पौरजनः महन्मनः साणं सशब्दमिव ददर्श, पुनः पुन जनादेशात् । ४ नैषधीय०६२ श्लोकः।
Page #123
--------------------------------------------------------------------------
________________
॥ अथ चतुर्थः सर्गः ॥
तदङ्गमुद्दिश्य सुगन्धिपातुका __ महौषधिप्रासरसा रसाधिकाः । अपः प्रपद्याम्बुनिघेरधैर्यता____ऽजनिष्ट मृष्टाऽन्यपयोनिधेर्भिया ॥१॥ कृतेऽभिषेके नृपरूपभादृशः
शिलीमुखालीः कुसुमाद् गुणस्पृशः । स्त्रियः समुद्दिश्य मनोभवोऽमुचत्
समं रसावेशवशां दशां गताः ॥२॥ कुतूहलेऽस्मिन जनराजिसंकुले
मिलच्चलाक्षीजनलक्षवीक्षणात् । खचापदुर्निर्गतमार्गणभ्रमाद्
न कस्य हास्याय भटा विलक्षिताः ? ॥३॥ सुराङ्गनाः स्वामिगुणाङ्गनाटने
१ चक्रिणोऽभिषेके अप: पानीयानि प्रपद्य-प्राश्रित्य समुद्रस्य अधैर्यता अजनिष्ट मृष्टः पयोनिधिरन्योऽभूदिति भिया ।
Page #124
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। स्वरागभागात् कृतशूरपूरणे। निजप्रियां मौनरुचिं रतिं स्मरन्
स्मरः स्वनन्तीरवलोक्य लज्जितः ॥४॥ मरुल्ललत्पल्लवकण्टकैः क्षतं
वनेषु पात्रं न पुनर्जनेषु तत् । जिने दिनेशेऽभ्युदितेऽवरोधनं
वधूजनेष्वेव न पूर्जने मनाक् ॥५॥ जिनेऽभिषिक्तेऽनुपदं तदञ्चने __ समुच्चरच्चन्दनसारसौरभम् । वनं बभूवाऽऽगतग्गुणप्रम
सहस्रदेशेशकृतैर्महोत्सवैः ॥६॥ विशुद्धमुक्ताभरणाद् गुणान्वितं
१ "रतौ मौनम्" इति नीतिशास्त्रम् । २ "पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभोजनयोर्यज्ञभाण्डे नाट्यानुकतरि" इत्यनेकार्थः । ३ पात्रम् । ४ पूजायाम् । ५ एक्शब्देन द्वयं, गुणानया, एवं द्वात्रिंशत्सहस्रराजभिः । ६ पदपक्षे विभिः पक्षिभिः शुद्धं-शोधितम् ; पक्षे मुक्ता-त्यक्ता प्राभा यत्र ईशाद् रणात्संग्रामात् । ७ गुण मौर्वी तदन्वितम् ।
Page #125
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रसदोन्नतं काममलीनताश्रयम् । स वारनारीकुचसंचितोपमं __शमेन मेने प्रभुतापदं प्रभुः ॥७॥ यतः प्रिया सा-नु-भति-क्रियोचिता
धृताऽमुना पीतरसानुगामिनी । पुरो निधायेति जनोऽत्र चक्रिणं ___ ददर्श मालूरफलं पचेलिमम् ॥८॥ युवद्वयीचित्तनिमज्जनोचितं
स्थलं बभूवोत्सवतः सरःसमम् । समुच्छलत्तुङ्गतरङ्गवीचिभि
मरुत्प्रयुक्ताम्बुकणाभमौक्तिकैः ॥९॥ जिनेशभीतस्मरपाणितः पत
१ उन्नतं-साहंकारम् । २ कुचौ मलीनताश्रयौ, चूचुके श्यामत्वात् ; पक्षे कामः स्मरः, लोभो वा तस्य मलीनताश्रयं; यद्वा, कामम्प्रत्यर्थम् , अलीनताश्रयं वापि न लीनम् चश्चलमिति यावत् । ३ यस्मात् मालूरफलात्। ४ साऽनुमतिशैले प्रिया क्रिया क्रीडादिः अमुना राशा धृता; पक्षे नु-वितर्के, साम्प्रसिद्धा उचिता मतिक्रिया बुद्धिकार्य राज्ञां वर्धन-विदाबदानादि धृता; तृतीयपक्षे प्रिया भैमी अनुमतिक्रियया सहिताऽनुगामिनी सार्थे धृता । ५ मालूरः श्रीफलः। .
Page #126
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः
1
स्प्रसूनशून्येतरगर्भगह्व म् | वनं तदुच्चैर्भवनं सभावनं दिशो दशामोदभरैरपूपुषत् ॥ १०॥ हरेण वैरे कविना व्यनीयत सिसृक्षया तद्विजयैषिणाऽङ्गजः ।
स्मरेषुधीकृत्य धियाऽसयाधयाः
पदौ प्रभोराश्रय तज्जयश्रियः ॥ ११ ॥ पुरीव पूर्वापणरत्नबिम्बितं प्रतीच्यभागस्थितमर्जुनान्वितम् । वणिग्मणिर्वीक्ष्य हृतार्थशङ्कया
,
१९५
स पाटलायाः स्तवकं प्रकम्पितः ॥ १२ ॥ मुनिद्रुमः कोरकितः सितद्युतिस्तदुत्सवेऽभ्यागतकामिनीमुखैः ।
१ हे स्मर ! त्वं प्रभोः पादौ इषुधीकृत्य = इषवः=बाणाः अधिकारात् प्रसूनानि ते धीयन्ते ऽस्मिन्निति इषुधिस्तं कृत्वा आश्रय= सेवख = कुसुमाञ्जलिधारणादिना पूजयेत्यर्थः, इति कविना श्रङ्गजः व्यनीयत= शिक्षा प्रापितः, सिसृक्षया=जगतो निर्माणेच्छया । किं० कविना तस्य स्मरस्य विजयैषिणा । किंवि० जयश्रियः, अभयम् आ=समन्ताद् धयन्तीति श्रभयाधयाः ।
1
Page #127
--------------------------------------------------------------------------
________________
शान्तिमायचरित्र स्फुरद्रिभूषाङ्गमयूखसंमुखै
बनेऽपि मेने सुमनोभिरन्वहम् ॥१३॥ उपायनैः श्याममणीगिरिर्जन
बनेऽमुनाऽमन्यत सिंहिकासुतः । विलोक्य कान्तामिह राजमण्डली
स्वमार्गभेदानुगमात् सचेतसा ॥१॥ बभौ तदा रात्रिपदेऽप्यहः सुकृ
न्महो द्विधाप्याहवनैर्हविर्भुजाम् । तमिश्रपक्षं त्रुटिकूटभक्षितं
तमेव धूमभ्रमतोऽपि दूरयत् ॥१५॥ नरः क्षणे कुत्रचिदेव पुत्रिका
कदम्बकं विभ्रमभाविताम्बकम् । ददर्श लोकः स्वयमेव नर्त्तने
कलाकलापं किल वैधैवं वमन् ॥१६॥
१ पण्डितेन । २ नाशकपटेन भक्षितम् । ३ तमेव तमिश्रपक्ष =तमोभरं पक्षशब्देन बलम् अनेकार्थे । ४ " विधुश्चन्द्रेऽच्युते धीरुल्लतायां विटपेऽपि च" इत्यनेकार्थः, ततो वैधवं-अच्युतसंबन्धिनम् ।
Page #128
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। १९७ अथ प्रवृत्ते स महे महाशयः
पणाङ्गनास्ता नररूपधारिणः । पुरप्रवेशे नटयन् ययौ स्वयं __ कलाकलापं किल वैधवं वमन् । पुरो हठात् क्षिप्ततुषारपाण्डुर___च्छदावृतं गोपुरमस्य चक्रिणः । प्रवेशयोगेऽप्यरुचत् सतोरणं
रणद्धिपाश्वेन समं समन्ततः ॥१७॥ अवाकिरंस्तं सुदृशोऽथ मौक्तिकै
श्छदावृतेर्वीरुधि बद्धविभ्रमाः । पदे पदे पोरगिरा 'जय प्रभो'
ऽप्युदीरयन्त्यः प्रमदात् तदाशिषः ॥१०॥ चतुष्पथे जग्मुषि राजराजिभि
विभाविभाश्वोदितरेणवो नृणाम् । मिलन्निमीलं ससृजुर्विलोकिता
न चक्षुरक्षुब्धसमक्षवीक्षणात् ॥१९॥ १ समन्ततःचतुर्दिनु।
Page #129
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
पुरन्दरेणापि समीयुषा सुरैः प्रतिष्ठितास्तुष्टिपरेण वृष्टिभिः । स्वकेतनैश्छादयता प्रणेमुषा
नभवतस्तं कुसुमेषु केलयः ॥ २० ॥
११८
गता यदुत्सङ्गतले विशालतां -
तनूजपौत्रानुजपुत्रतत्सुताः । अलंकृताश्चेभकृताधिरोहणाः
पुरस्सरा रेजुरदः प्रसत्तये ॥ २१ ॥ नमन्ति नूनं विनयेन मेदिनीं
द्रुमाः शिरोभिः फलगौरवेण ताम् । नृपोऽप्यतोऽन्तःपुरमाप्य सो नतो
ऽचिरात् सवित्रीमचिरां चिरागतः ||२२|| सलाजराजन्नवमौक्तिकौक्तिका
शिषां प्रसारैरवरोधसंगताम् । कथं न धात्री मतिमात्रनामितैः
स नाभ्यनन्दद् विभवैः सनाऽमितैः १ ॥२३॥ सभाजनाधीननिलीनचेतसः
Page #130
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। सभाजनान् वीक्ष्य विशेषतस्त्रिधा। यथार्हमानेन समं विसर्जनः
स वन्दमानानभिनन्दति स्म तान् ॥२४॥ नृपाय तस्मै हिमितं वनानिलै__ स्तपेऽपि धाराधरयन्त्रवेश्मनि । ययावहोरात्रकदम्बकं सुखं __ स्वराजधान्यां सततोदयोन्मुखम् ॥२५॥ असौरभेऽप्यत्र ससौरभीभवत् __ सुधीकृतं पुष्परसैरहर्महः । असौ ससौख्यं समये सुँचेरपि
विभासमानो मनसाऽप्यमन्यत ॥२६॥ तपात्यये नन्दिनि तदिनं घनै
घनाघनैः श्यामलिते नभस्यपि । विनिर्मितं केतकरेणुभिः सितं
१ विसर्जनः दानैः । २ सुखयतीति पचाद्यच् । ३ सुरभिः =वसन्तः तस्य भावः सौरभं तदभावेऽपि । ४ शुचे प्राषाढस्य, पक्षे शुचे सूर्यादपिविभासमानः विभया असमाना=अतुल्यः ।
Page #131
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
स्वतेजसा वाऽनुबभूव सस्मितम् ||२७|| यथेष्टकार्यस्य स सर्जनाजने
सनिर्भरं निर्भयसंकथे पंथे । सदैव राजा प्रियोगिनेऽङ्गिने वियोगिनेऽदत्त न कौमुदीमुदः ॥ २८ ॥
१२०
अयोगभाजोऽपि नृपस्य पश्यता
यथेष्टदानं स्वजनेन मन्त्रणे । कृतेऽफलकामनया रत्नवत्
स्वैसिद्धिदे स्वामिनि नाद्भुताय तत् ॥ २९ ॥ क्वचिज्जलक्रीडनकेऽपि भूभुज
स्तदेव साक्षादमृतांशुमाननम् । निरीक्ष्य युक्ताम्बुजशङ्कया रंजा उपेयुषी राजमगलमण्डली ||३०|| कचित्तथाऽसौ मतिशालिमालयो
१ ' वा ' उपमाने । २ पथशब्दोऽकारान्तोऽपि बृहद्वृत्तौ । ३ विशिष्टयोगिने कौमुदीमुदो न श्रदत्त इति काकूक्तिः; यद्वा, विरुद्धयोगिने कौमुदीमुदः न श्रदत्त, नीतिकरत्वात् । ४ इच्छया । ५ स्वस्य = धनस्य सिद्धिदे, वान् श्रथवा स्वस्य श्रात्मनः मोक्षदे | ६ अमृतांशु जाग्रज्ज्योतिः । ७ अरजाः-निर्मला ।
Page #132
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। पवीणितस्तत्कणनैपुणे गुणे । पिकेन रोषारुणचक्षुषा मुहुः
कृताप्यवज्ञा विफला यथाऽभवत् ॥३१॥ दिदृक्षया चन्द्रमसो वनेऽर्हता
न्यषेध्यतेशेन पिकस्वरोऽमुना । यतो मृगाङ्कत्वसुहृद्विधौ रिपुः __कुहूरुतायत चन्द्रवैरिणी ॥३२॥
अशोकमर्यान्वितनामताशया ___ वकानने तं निदधे स तन्मये । अनुक्रमेणाभ्युचिते ह्यनु मात् ___स केवले बोधबले यतोऽनुगः ॥३३॥ पुरारिरूपेऽस्य पुरारिरूपिणो . गताशरण्यं गृहशोचिनोऽध्वगान् । चकार चक्री विषयैः प्रतिष्ठिता
१ परिपाट्या । २ "क्रमः कल्पाँहिशक्तिषु परिपाट्याम्" इत्यनेकार्थः,क्रमात्-कल्पात्-प्राचारात् अनु-पश्चात् । ३ पूर्वमस्य दिक्साधने अरिरूपिणस्तान् शरण्यं गतान् सेवकीभूतान् विषयः देशैः, भोगैर्वा प्रतिष्ठितांश्चकार ।
Page #133
--------------------------------------------------------------------------
________________
१२२
शान्तिनाथचरित्र__ नशल्यवात्सल्यमतिर्महत्यहो ! ॥३४॥
अमन्यतावन्तमिवैष पल्लवैः __ खरागयुक्तैः सुरसालमङ्गिनः । हितं गिरन्तं त्रिजगद्गुरुं जनो
जिनं विमुक्तः प्रभुशोभया भयात् ॥३५॥ खतः प्रशान्तं शतशो मृगीदृशां __ निशान्तमाप्तं द्विविधं क्षमाधनम् । खरूपनिष्ठं वशमातनिष्ट न
प्रतीष्टकामज्वलदस्त्रजालकम् ॥३६॥ विलासवापीतटवीचिवादना.
दनाविशन्मानसमेनमेनसि । रसेन लीलासु मनखिनीजन
श्कार नोद्भूतविकारकारणम् ॥३७॥ मनो मनोभूवशवर्ति नाऽभवत्
१ जिनं सुरसालं कल्पतरु जनोऽमन्यत पल्लवैर्वाक्यः प्रा. णिनः अवन्तम् । २ भयाद् विमुक्तः । ३ स्वयं संबुद्धत्वाद् न गुरुपदेशतः प्रशान्तं-कामाद् निवृत्तम् । निशान्तं गृहं रात्रिसीमानं वा । क्षमाधनं-राजानं शमिनं वा । ४ कामशस्त्रजालकं वशं न प्रतनिष्ट ।
Page #134
--------------------------------------------------------------------------
________________
. चतुर्थः सर्गः।
१२३ पिकालिगीतेः शिखिलास्यलाघवात् । सरोरुहामोदविनोदतोऽप्यहो
महोदयार्थेऽस्य निलीनतावशात् ॥३०॥ यथाऽऽलये तालविशालयन्त्रज
ध्वनिश्च गान्धर्वविशेषनर्तनात् । वनेऽपि तौर्यत्रिकमारराध तं
तथामृदङ्गोदितवेणुवादनात् ॥३९॥ अलीनचेता विषयोपभोगवान्
न-दीनवृत्त्यातिगभीरधीरधीः। अरीरमत् सारसनान्वितालिभिः
क्व भोगमाप्नोति न मैग्यभाग् जनः ? ॥४०॥ तदर्थमध्याप्य जनेन तद्वने
पैटूकृता वा भवनेऽपि माँगधाः । तमभ्यनन्दन्नवभावभावनैः
१ विषयः शब्दादिर्देशो वा ।२ सा रसना कटिमेखला तत्सहिता पाल्या स्त्रियाः सख्यः ताभिः, पक्षे सारसनं कवचविशेषस्तयुक्तानां श्रेणीभिः । "पाली सख्यावलीसेत्वमर्षेषु विशदाशये" इत्यनेकार्थः। ३ पण्डिताः कृताः। ४ बन्दिनः।
Page #135
--------------------------------------------------------------------------
________________
१२४
शान्तिनाथचरित्रस्वकाव्यभाव्यन्वयरञ्जिनं जिनम् ॥४१॥ वनेचरैः सार्धमुपात्तकिंशुकाः
शुका विमुक्ताः पटवस्तमस्तुवन् । तथा यशोभिर्विशदीकृताशय
र्यथा प्रशस्याः सकृपैर्नृपैरपि ॥४२॥ विभोः स्वशीलश्रुतिशालितालिभिः
समं निवृत्ताः सुरतेभिसारिकाः । खरामृतेनोपजगुश्च सारिका
गृहे गृहे तच्चरितस्य कारिकाः ॥४३॥ सुरानुवृत्त्याऽप्सरसो रसोर्मिभि__ स्तरङ्गिताङ्ग्यः प्रभुवृत्तनतने । विभावयन्ति स्म सुविस्मयं हरे
स्तथैव तत्पौरुषगायनीकृताः ॥४४॥ इतीष्टगन्धाढ्यमटन्नसौ वनं.
वधूतमाधूतमनाः स्वयौवनम् । त्रिवर्गसंसर्गनिसर्गसाधुधीः
१ विभोः शीलश्रुत्या शालिताः शोभिता या प्रालयस्ताभिः समम् । २ कारिकाः श्लोकविशेषाः ।
Page #136
--------------------------------------------------------------------------
________________
१२५
चतुर्थः सर्गः। __ १२५ पुपोष निर्दोषतयैव देवेनैः ॥४५॥ निधीयमानो हृदये सुरीजनैः
पिकोपगीतोऽपि शुकैः स्तुतोऽपि च । दिदृक्षितः कुण्डलिकामिनीमनो
रथैरथैष प्रभुराप विष्णुताम् ॥४६॥ सुधाभुजामप्यतिशायिशासनाद्
निषेवितोऽयं वसुधाभुजां गणैः । अविन्दताऽऽमोदभरं बहिश्चरं ।
परं तमध्यात्मभरं दधौ चिरम् ॥१७॥ प्रियत्वमास्थाय च भीमभूमनो
विनोदासधै विषयेष्वरज्यत । धियाऽमुनाऽमानि सुखं भवेऽभव
द्विदर्भसुभ्रूविरहेण नान्तरम् ॥१८॥ करेण मीनं निजकेतनं दधत
स्मरः स्वरूपोपमया तमाश्रयत् । ततो रिरंसुः सुहृदा यथेच्छया १ देवनः रमणैः । २ न भवन् विदर्भसुभूविरहो यस्य तेन ।
Page #137
--------------------------------------------------------------------------
________________
१२६ शान्तिनाथचरित्रे
वने दिदीपे स मधुर्मधुव्रतैः ॥४९॥ पवित्रितोऽसावृषिकुल्यया लयाद्
द्रुमालवालाम्बुनिवेशशङ्कया । सुसौरभासानु-गतोऽथ तापसे
द्विधापि संतापनतापमादधौ ॥५०॥ मधुव्रतज्याजुषि पुष्पकार्मुके
निधीयमानेऽथ खगे युगेषुणा ।। व्यर्कि सर्वर्तुवने घने मधु
सहायमाधाय कृता हतिर्नृणाम् ॥५१॥ खगे द्विधा रागिणि पद्मिनीगणे
स्फुटे करस्पर्शनजाङ्गजज्वरे । स्वलोकसाम्राज्यममंस्त निर्भयं
स मित्रमत्रानुसरन्निव स्मरः ॥५२॥ लताबलालास्यकलागुरुस्तरुः ।
१ सुष्ठु सूरस्य भासा अनुगतः, पक्षे सुष्टु वसन्तभावेन आसानु-शिखरं मर्यादीकृत्य गतः प्राप्तः। २ द्विधापि-अन्तः कामरूपं, बहिः सूर्यतापरूपं च । ३ मित्तं सूर्य वा सतेजसं अनुसरन् खयमपि तथा भवन् । ४ तरुः रणादू न शमी अभवत् ।
Page #138
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ।
१२७
शमी रणाद् न ह्यभवत् समीरणात् । स किङ्कितोऽपि किरातजातवद् भियेऽध्वगानां सपलाशवासनः ॥५३॥ रजो दधानामपि मल्लिवल्लिकां प्रसूनगन्धोत्करपश्यतोहरः । जहौ न दूरे मधुपोऽन्धसाऽऽदरादहोऽलिमत्ते समये नॅ चेतना ॥५४॥ स्फुटार्त्तवाङ्का घृतकामधीर्गजं प्रभिन्नगण्डं तदचण्डगर्जितम् । असेवतामुं मधुगन्धवारिणि
sc मदेनोच्चकरे करेणुका ॥ ५५॥ द्विधा बलं प्राप्य च सौरभस्थितेरनूनसून स्पृगसेव्यताङ्गिभिः । सरिद्वरात्यक्तनिषद्वराम्भसि
प्रणीतलीलाप्लवनो वनानिलः ॥५६॥
१ समीरणात् = वायोः । २ किङ्किरातः = कोरण्टकः पलाशवासनायुक्तः भियेऽभूत् । पलाशं=पत्रं राक्षसश्च । ३ अन्धसा= भोजनेन श्रादरात् । ४ न विवेकः ।
Page #139
--------------------------------------------------------------------------
________________
१२८
शान्तिनाथचरित्रे
अथ खमादाय भयेन मन्थनात् तडागभागव्यपदेशलेशतः । पुरोपकण्ठे शरणागतं प्रभुः कदाचिदम्भोधिमिह व्यलोकयत् ॥५७॥
जडात्मकत्वादुपभोग्यताच्युतं चिरत्नरत्नाधिकमुत्थितं चिरात् ।
दधत् त्वधः स्वं विभवं स चक्रिणाऽप्युपाललम्भे कृपणक्रियाश्रिया ॥ ५८ ॥ वदान्यलोकेन कृताः प्रपात्रपां
कथं न धत्से रसभृत समीक्ष्य ताः । निलीय तस्मिन्निवसन्नपांनिधि
भवानतस्त्वां मकराकराऽस्तु धिक् ॥५९॥ इतीव मन्ये भगवद्गवीरसात्
- सितोपदेशां स सुधां सुधारयन् । विशिष्य पुष्यन् वसुधां रसागमै
र्वने तडागो ददृशेऽवनीभुजा ॥ ६० ॥ पयोनिलीनाऽमुकामुकावली
Page #140
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः । बलीयसां राजिरमुष्य दन्तिनाम् । पिपासुराक्रान्तिपदाद् दिवा दिवा
पुरस्य साम्यं सरसोऽधिनाऽवदत् ॥ ६१ ॥ जलान्तसद्भिन्नमदान्धसिन्धुर
रदाननं तोरगपुच्छसच्छवीन् । निरीक्ष्य मेने नगरीं नु भोगिनां समापतन्तीं जिनसेवया जनः ||६२ || जिनेशितुर्दर्शनलालसाऽलसा
भुजङ्गकन्या हसितोन्मुखश्रियः ।
जलार्धरुद्धस्य तटान्तभूभिदः
पदात् पयोजन्मवनस्य रेजिरे ||६३ || वशीकृते तत्सरसाप्सरोजने
Sवतारमा प्रतिविम्बितोडुभिः । सरोरुहे सौरभचौरबन्धनं मृणालजालस्य मिषाद् बभार यः ॥ ६४ ॥ तटान्तविश्रान्ततुरङ्गमच्छटा
१ दिवा = स्वर्गेण |
&
१२ल
Page #141
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्र__स्तटाक एष प्रतिबिम्बितैर्दधौ । अमन्दनन्दीसरसो जिगीषया
चलाचलोत्तुङ्गतरङ्गसंगमैः ॥६५॥ पिनाकिनाकिप्रभुराजराजिभिः
समं तटस्थे क्षितिपे पटालये। स्फुटानुबिम्बोदयचुम्बनेन यः ___ स्फुटीचकाराप्सरसां प्रभोः सभाम् ॥६६॥ जलान्तरुन्मज्जदनेककामिनी___ मनोऽनुषङ्गात् तरलैरिवामलैः । बभौ चलहीचिकशान्तशान्तनै
हयानुबिम्बैरविलम्बमेव सः॥६७॥ तमेकमुच्चैःश्रवसं बिडौजसे . प्रकाशयन्तं मथितेऽपि चाशये । जिगाय वार्षि तुरगानुबिम्बितैः
सहस्रमुच्चैःश्रवसामिव श्रयन् ॥६॥ सिताम्बुजानां निवहस्य यश्छलातू १ अप्सरसा प्रभोः इन्द्रस्य सभाम् ।
Page #142
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः ।
पयोनिधेः पारगतं यशोभरम् । न्यवेदयत् पारगतस्य किंनरैः प्रगीयमानं लेसदङ्गमानसैः ॥ ६९ ॥
सरोरुहां तत्र च खण्डमण्डनं बभावलिश्यामलितोदरश्रियाम् । स्वैनाथदर्शिक्षितिकामिनीमुखं विकस्वरेन्दीवरचारुनेत्रभृत् ॥७०॥
संकर्णिकं तत्र ललद्वधूमुखं सपत्रलेखं कृतपद्मसौहृदम् i
तमः समच्छायकलङ्कसंकुलं
१३१
निरीक्ष्य चक्रे स्वमहर्निशं शशी ॥ ७१ ॥
अभात् सभा सा रसभा सुरानना नृपस्य नीरे प्रतिबिम्बिताश्रिता । यया तडागोऽवजयार्थमौर्जिजत
कुलं सुधांशोर्बहुलं वहन्निव ॥ ७२ ॥
१ लसन्ती श्रङ्गमानसे द्वे अपि येषां तैः । २ स्वस्वामिदर्शिन्याः क्षितिरमण्याः | ३ कर्णाभरणम् । ४ स्वम् = श्रात्मानम् ।
Page #143
--------------------------------------------------------------------------
________________
१३२
शान्तिनाथचरित्रे
रेथाङ्गभाजा कर्मलानुषङ्गिणा सरस्तदालोक्य से -सार-सं- गतम् । क्षणाद् गणागाहननीरसं गतं दधे मनोऽन्तर्भवनीरसंगतम् ॥ ७३ ॥ अंकारि धर्मेण जगज्जयो मया
शिली - मुखस्तोमसखेन शार्ङ्गिणा । से चापरागः स्वत एव मां भजन् परागसः किं न विभागमानयेत् ? ॥७४॥ प्रबोधयत्येष तडागबान्धवः
१ चक्रिणा । २ सारं = श्रेष्ठं संगतं = मिलितं तेन सहितम्' सारस्ययुक्तं वा, सारसैः सहितं गतं = प्राप्तम् । ३ क्षणेन लोकानामवगाहनेन नीरसं= रसाभावं = नीरसत्वं गतं प्राप्तम् । ४ धर्मेण =धनुषा । मया किंभूतेन, शिलीमुखस्तोमसखेन=बाणसहायेनेत्यर्थः, शार्ङ्गिणा = शार्ङ्ग= धनुः तद्धारकेन । किं० जगज्जयः, शिली=शिला अस्मिन् पर्वत इव लुप्तोपमा महान् दुष्करः गुरुर्वेत्यर्थः । धर्मपक्षे मुखे प्रारम्भे स्तोमो = यज्ञः = पूजा सखा= मित्रं यस्य तेन । धर्मेण किं० शिली = जलौकाः, तत्प्रमुखाणां यः स्तोमः=समूहस्तस्य सखा इव सखा यः स शिलीमुखस्तोमसखः द्वीन्द्रियादिरक्षक इत्यर्थः तेन । ५ सः = धर्मस्तु श्रपराग एव, पक्षे चापरागः = धमूरागः । ६ विगता भा यत्र तद् = विभं=नरकं तस्य अगं वृक्षं शाल्मलिं न नयेत्, काकुः ।
Page #144
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः । कृताधिकोशाञ्जलीपद्मपाणिभिः । सरोजिनस्तिम्बकदम्बद कैतवात्
श्रियश्चलत्वं निगदन्निवेह नः ॥ ७५ ॥
जगच्चिरं जीवयता रसार्पणैविरोगता हंसविलासभाविता ।
सरोजिनस्तिम्बकदम्बकैतवात् कृताऽमुना मे स्वरसानुषङ्गिणा ॥
प्रभा - सितं वा समयज्ञमुज्ज्वलं विभावयेऽमुं कलहंसशिक्षितम् । प्रयोगकर्त्रा विधुना पदे पदे
१३३
१ वीनां = पक्षिणां रागता, पक्षे विरक्तता, हंसानां विलासभावित्वं, पक्षे हंसो = जीवस्तद्भावित्वम्=अध्यात्मविचारः । २ प्रभा= बुद्धिः तथा सितम् = उज्ज्वलम् । ३ समः समग्रः यज्ञः=पूजाविधिर्यस्मात् तत्र पूर्वं जलयात्रैव । ४ कलाः = म धुराः हंसाः = योगिविशेषास्तेभ्यः शिक्षितम् । ५ प्रयोगकर्त्रा = सूत्रकारकेण विधुना = चन्द्रनाम्ना; यद्वा प्रयोगः: प्रपञ्चः संसारस्य तत्कर्त्रा = विष्णुनाऽनुयातः, यद्वा विधुना = कृष्णपण्डितेन ।
=
Page #145
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे____ऽमृणाल ! शेषाहिभुवाऽन्वयायि यः ॥७६॥ इति स्वचित्ते स विभाव्य भव्यधीः
प्रभुर्मुमुक्षुर्भवतो ययौ वनम् । जनेन चक्रेण च भूतलस्पृशा___ऽमृणालशेषाहिभुवाऽन्वयायि यः॥ गच्छाधीश्वरहीरहीरविजया
नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः
श्रीमत्तपाख्ये गणे। शिष्यः प्राज्ञमणेः कृपादिविजय
स्याशास्यमानाग्रणीश्चके वाचकनाममेघविजयः
१ मृणा=हिंसा पालं मिथ्या तद्रहितस्य कस्याप्यामन्त्रणं चक्रिणा कृतम् । २ शेषाहिभूर्यस्य तेन विष्णुना, पक्षे शेषवंश्येन विधुना=चन्द्रेण रामचन्द्रण, यद्वा, शेषाहिभुवा= पतञ्जलिना इत्यर्थः । ३ अनुयातः तत्तुल्यः सेवितः । ४ यः =तडागः । ५ अमृणालो-महाजनः, शेषःक्षत्रियादिः, अहिभू-वप्राधिकारी तेन, “अहिः स वृत्रे वगै स्यात्" इत्य. नेकार्थः। ६ नै० श्लो० १११ ।
Page #146
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः। शस्यां समस्यामिमाम् ॥७७॥ तस्मिन् विस्मयकृत्काव्ये
तुर्यः सर्गोऽभवत्तराम् । प्राप्नोतु शिष्टाचरणात्
प्रतिष्ठामप्यनुत्तराम् ॥७॥
इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्रीमेघ विजयगाण
पूरितायां चतुर्थः सर्गः संपूर्णः ॥ श्रीः ।।
Page #147
--------------------------------------------------------------------------
________________
" अर्थ पञ्चमः सर्गः ॥
तरङ्गिणीरङ्कजुषः खवल्लभा
रेसा रसानामवशा वशास्त्यजन् । अचीकरच्चक्रधरः प्रदेशनं __ यथेष्टमाहूय स तुष्टपूर्जनम् ॥१॥ प्रवर्धमानाः समितिक्रियाम्बुधौ ___ तरङ्गलेखा बिभरांबभूव यः। स मार्गणानां समभीयुषां गणं
प्रपद्य सद्योभिमुखीभवेन किम् ? ॥२॥ दिनाः क्षपा वैप्सितदानतः प्रपा
नृपाज्ञया दित्सुकरैश्चरैर्बभुः । दरोद्गतैः कौकनदौघकोरकैः
सरित्प्रदेशा इव संगतद्विजाः ॥३॥ स दानदेशः स्थिरचक्रभृद्रसः
१ रसा-भूः। २ समितिः= युद्धम्, यतिचर्या च । ३ प्रपा. रूपाः। ४ द्विजाविप्राः पक्षिणश्च । ५ स्थिरश्चक्रिणो रसो य
स्मिन् ।
Page #148
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः।
१३७ सदा नंदेशः स्थिरचक्रभृद्रसः । धृतप्रवालाङ्करसंचयश्च यद्
धृतप्रवालाङ्कुरसंचयश्चयः ॥४॥ महीयसः पङ्कजमण्डलस्य यश्छेलेन लोकाशनयानजन्मनः । समं सिचा संचयनैश्च राजतैः
सुपर्वणां संगममादिशद् भृशम् ॥५॥ व्रजस्य चेन्दोम॑गनाभिजन्मन
श्छलेन गौरस्य च मेचकस्य च । अमानि देवासुरमन्त्रभासुरं
मनस्विनाऽन्योन्यसुहृत्क्रियातुरम् ॥६॥ . १ नदेशः समुद्रः । २ स्थिराश्चक्राः जीवविशेषास्तैभृता रसा-भूर्यत्र । ३ प्रवालानि-विद्रुमाः पल्लवा वा, अङ्कराः= काश्मीरजन्मादीनि । ४ धृताः प्रवालानां पल्लवानाम् अङ्कराणां जलानां संचयाः संग्रहा यत्र दानदेशे । ५ चीयत इति चयः राशिः पुष्ट इत्यर्थः, ईदृशो दानदेशः । "प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे” इत्यनेकार्थः; "अङ्करोरोम्णि सलिले रुधिरेऽभिनवोद्गमे" इत्यपि। ६ पङ्काजातं यद् मण्डलं वृन्दं तस्य । ७ लोकानाम् अशनं भोजनं यानं गमनं ताभ्यां जन्यस्यामराजतैः= रूप्यमयः ।सुपर्वणा महोत्सवानां देवानां वा ।१० कर्पूरस्य।
Page #149
--------------------------------------------------------------------------
________________
१३८
शान्तिनायचरित्रेग्रहीतुरुग्राहयितुः करस्थितं ___ कुशोदकं तत् सुहिताय चोभयोः । नलेन मेने सलिलेऽनिलीनयोः ___ स्वपावनं जीवनभावनं पुनः ॥७॥ नवं सरश्चोदभवन्महोत्सवे __यथेष्टसृष्टाञ्जलिमृष्टवारिभिः। पराजितोऽभूल्लवणाब्धिरप्यत__ स्त्विषं विमुञ्चन् विधुकालकूटयोः ॥८॥ चलीकृता यत्र तरङ्गरिङ्गणै
जिनेन्द्रदीक्षासमयोत्सवाम्बुधौ । हया दधुः स्वाप्लवनैमहोर्मितां - ब्रजा गजानामपि संधैचारिताम् ॥९॥ मिथो रथानामपि सादिनां ध्वजै
रबालशवाललतापरम्पराः । मलीमसै रेणुगणैः सखीकृताः
१ नरेण । २ विधोस्त्विड्मोक्षः मृष्टवारिप्राप्त्या तोषात्, मम स्पर्धाकर उत्थित इति कालकूटत्विड्मोक्षः। ३ संघचारी
मत्स्यः ।
Page #150
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः। . १३० पयोनिधेर्धर्मनिधेव्रतोत्सवे ॥१०॥ बले बलदेषिपुरस्सरे चले __ हया ध्वजाः शोणरुचः प्रसृत्वराः। ध्रुवं दधुर्वाडवहव्यवाडव__स्थिति त्रिलोकीजनसङ्गमाणवे ॥११॥ व्रती बभूव प्रभुराप्य शुक्रजां ___ चतुर्दशी तां बहुलां च लोचकृत् । कचेषु मत्वेव कषायपावक
स्थितिप्ररोहत्तमभूमधूमताम् ॥१२॥ प्रकाममादित्यमवाप्य कण्टकै
स्तपस्यतोऽभूत् तनुरर्हतः केटः। पटुः समाधो विमना मनाग् न सा
रसालसा वा नियमाद् यमादपि ॥१३॥ सुरार्चने चन्दनचन्द्रलेपनैः
करम्बितामोदभरं विवृण्वती । १ बलद्वेषी-इन्द्रः । २ "कट्वकार्ये मत्सरे च दूषणे च कटू रसे। तिक्ते प्रियङ्गो सुरभौ"। ३ चन्द्रः कर्पूरः। ४ा. मोदेन विश्वपूरणी योगमाहात्म्यात् सर्वार्थसाधनों ।
Page #151
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रतनुर्ननु प्रौढिसमाधिसाधन
र्जिनस्य विश्वभरतामिवाऽन्वशात् ॥१४॥ क्वचित् तनूत्सर्जनमुद्रया विभो
रनतिमूर्तिर्वरिवर्ति सा स्म या । धृतस्फुटश्रीगृहविग्रहा दिवा
निशं मृणालाभभुजावलम्बिनी ॥१५॥ यथाऽन्तिकस्थामरभक्तिवृष्टिभि
र्जिने धृतध्यानधने त्वऽधर्मणे । नवं सरस्तत्क्षणमप्यभूच्छ्रिया . सरोजिनी यत्प्रभवाप्सरायिता ॥१६॥ यदम्बुपूरप्रतिबिम्बितायति
गणो ग्रहाणां पुरतोऽर्हतः प्रभोः । तरंस्तरङ्गेषु भवार्णवान्तरं
स्वमाह तीर्णं नटनेतिपाटवात् ॥१७॥ वने स्थितावस्य च चामरक्रियां
मरुत्तरङ्गैस्तरलस्तटद्रुमः। सदातपत्रायितपल्लवोचय
Page #152
--------------------------------------------------------------------------
________________
१४१
पञ्चमः सर्गः। __ श्चकार सत्कारपदं दिवौकसाम् ॥१८॥ न धीरता तादृगिह क्षमाधरे
दधौ जिनो यामुदधौ गभीरता । निमज्ज्य मेनाकमहीभृतः सतः ___ परीक्षणाद् वाम्बुनिधेश्चलत्तया ॥१९॥ विपक्षतां यो गत एव योगतः
किमस्य शम्भोर्न न पक्षताऽक्षता । पुरापि पारापतपक्षिणो भये
ततान पक्षान् धुवतः सपक्षताम् ॥२०॥ पयोधिलक्ष्मीमुषि केलिपल्वले .
जिनेऽप्यनैकान्तिकता कृता जनैः। तटेऽपि साधारणया धिया श्रिते
क्वचिन्न लेभे व्यभिचारचारिता ॥२१॥ कदापि देवोऽकृत हंसमंशंतो
१ पक्षा-परिवारस्तेन विरहितो विपक्षः। २ 'नु' वित अस्य पक्षता-प्रानुकूल्यं सर्वत्र अक्षतापूर्णा न, काकुः, सर्वस्य हितावहत्वात् । ३ तत्तुल्यतुलानिषादनात् । ४ पक्ष-सपक्ष विपतवृत्तिरनैकान्तिक एव, स्याद्वादाद् वाऽनैकान्तिकः स जिनः न ऐकान्तिकः स्यादिति भावः । ५ स्वजीवप्रदेशैः।
Page #153
--------------------------------------------------------------------------
________________
१४२ शान्तिनाथचरित्रे
रिरंमुहंसीकलनादसादरम् । सुवर्णवर्ण जिनवर्णने कृते
बिडौजसा क्षोभायतुं मनोऽर्हतः ॥२२॥ पुरः किरन्तं विकरं वसूत्करं
समौक्तिकं मौक्तिकयुक्तमैक्षत । स तत्र चित्रं विचरन्तमन्तिके ___ मनागपि क्षुब्धमना हि नाऽभवत् ॥२३॥ तपस्यतस्तस्य विवन्दिषामिषात् __ स्वरागतः स्निग्धमनास्त्वरागतः । स देवदेवस्य निषेवणापरं ___ हिरण्मयं हंसमबोधि नैषेधः ॥२४॥ प्रियासु बालासु रतक्षमासु च
ललन्तमेतं चरणानुरागिणम् । विसिष्मिये वीक्ष्य नृपो विरुद्धता
निवारिता द्वन्द्वबलेऽर्हतेत्यसौ ॥२५॥ - १ समम्-अनुकूलं मृष्टम् औक्तिकं वाक्यं यस्य स तम् । २नैषधः-पूर्व चक्रित्वे चमूपतिः । ३ प्रियाललनं चरणानुरागित्वं चेति विरुद्धता निवारिता ।
Page #154
--------------------------------------------------------------------------
________________
१४३
पञ्चमः सर्गः। सितच्छदं तं चरणानुरागिणं
द्विपत्रितं पल्लवितं च बिभ्रतम् । विभोर्मनोऽन्तः स्मरमेव भावितुं
सुरेण चक्रे बहधाऽऽयुधादरः ॥२६॥ कृताभियोगः स तु योगसंगमे
प्रयोगदक्षेण तपोदिपेन यत् । स्मरार्जितं रागमहीरुहाङ्कुरं.
बभञ्ज मूलादनुकूलया धिया ॥२७॥ विमोहलीलां मिथुनालिपालितां
प्रदर्शयन् हंसमहामना मनः। शशाक नोच्चालयितुं विरागवान्
मिषेण चञ्चोश्चरणद्वयस्य च ॥२८॥ महीमहेन्द्रस्तमवेक्ष्य स क्षणं
सुरं प्रशान्तं बहुधोपसर्गतः। जगाम पुर्यां प्रभुचर्यया मुदं
तूदा दधानः स्मृतिसावधानधीः ॥२९॥ अवर्णयत् तच्चरितं विचिन्तयन्
१ निकषायमत्या।
Page #155
--------------------------------------------------------------------------
________________
१४४ . शान्तिनाथचरित्रे- ' . शकुन्तमेकान्तमनोविनोदनम् । स नैषधश्चानुदिनं सुधीरतो
सुधीरतां वीक्ष्य विभोश्चमत्कृतः ॥३०॥ प्रभोस्तपःसंतपनाद् वशीभव
अहौ न पाच ह्युसदां जनः सदा । प्रियावियोगाद् विधुरोऽपि निर्भर
स्वमापुपूषुः परिचर्ययाऽऽयया ॥३१॥ प्रकृष्टषष्ठाष्टमपाक्षिकादिभि
र्वने सयोगासनधर्मसेवनैः। निरीक्ष्य देवं ध्रुवमेव देवता ___ कुतूहलाक्रान्तमना मनागभूत् ॥३२॥ अवश्यभव्येष्वनवग्रहग्रहा
नृणां मतिः कामति यत्क्रमानुगा। समूलमुन्मूलयितुं तदान्तरं
प्रचक्रमे चक्रमयं द्विषां क्रमात् ॥३३॥ पटुः पुरस्कृत्य पुराकृताकृति १ यस्य-आन्तरद्विट्चक्रस्य क्रमानुगा नृणां मतिः कामति
चलति ।
Page #156
--------------------------------------------------------------------------
________________
.
१४५
पञ्चमः सर्गः । यया दिशा धावति वेधसः स्पृहा । भवस्य वश्यस्तदवश्यपश्यधीः
प्रवर्ततेऽनर्तितया तयाऽऽतुरः ॥३४॥ तपोविधौ मन्दरसुन्दराशयः
स्थिरः प्रभुः स्यान कदापि चञ्चलः । तृणेन वात्येव तयाऽनुगम्यते
भियतरेणैव नु कातरक्रिया ॥३५॥ वृते समाधेर्विधिनाऽऽत्मबोधने
धनेऽपरस्मिन् न मुनेमनोरुचिः । अनात्मलीनस्य मलीनताऽऽदृता
जनस्य चित्तेन भृशाऽवशात्मना ॥३६॥ अथावलम्ब्य क्षणमेकपादिकां
धरल्लयं धीरतयकतालयम् । तिथौ नवम्यां शुचिपोषपक्षजे
स शिश्रिये केवलबोधमुज्ज्वलम् ॥३७॥ तदुत्सवे कोऽपि जनः सुरो नवा १ कर्मकर्तुः परमेन्द्रस्य आत्मनः।
Page #157
--------------------------------------------------------------------------
________________
१४६
शान्तिनाथचरित्रेतदा निदद्रावुपपल्वलं खगः । सुगन्धिपृष्टेरनु दिव्यनाटक
प्रवर्त्तनेत्राप्सरसाप्सनर्त्तने ॥३८॥ समं तदोच्चैनमने समं पुनः - प्रपञ्चने संवरणे तथाऽऽसने। स तिर्यगावर्जितकन्धरः शिरः
प्रणामकृद् देवगणो नटन् बभौ ॥३९॥ स हंसदेवोऽपि विभोर्गुणावली
निबद्धबुद्धिः समुपेत्य नृत्यकृत् । विशिष्टभक्तीबहुधा स्थितोऽन्तरे
विधाय पक्षेण रतक्लमालसः ॥४०॥ सनालमात्मानननिर्जितप्रभं
प्रयुज्यमानं त्रिदशैः सरोरुहम् । धृतातपत्त्रत्रयरूपमावभौ
प्रभुप्रभावाद् बहुकाञ्चनाञ्चितम् ॥४१॥ १रतं-नाटकरमणं तस्य क्लमः खेदः। २ श्रात्मना-स्वरूपेण आननस्य निर्जिता प्रभा येन तत् । ३ "काञ्चनं हेनि किनल्के" इत्यनेकार्थः।
Page #158
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः ।
उपात्तलक्ष्मि प्रभुवक्त्रपाणिना
ह्रियाऽऽनतं काञ्चनमम्बुजन्म किम् । तमुच्छ्रितच्छत्रमिषेण दण्डभृद् निषेवते स्माहत मुक्तसंपदा ||४२ ॥ अहर्निशं सेवनया विभोर्द्विधा
सचामरं चामरमान से प्रियम् । अबुद्ध तं विद्रुमदण्डमण्डितं
पवित्रहस्तं शुचिमेव पण्डितः ॥ ४३ ॥ चकार कश्चिद् वरणत्रयीं न किं सुरश्च सिंहासनमर्हतः पुरः । परो महेन्द्रध्वजमाप्तभक्तये
सेपीतमम्भः प्रभुचामरं च किम् ॥ ४४ ॥ कृतावरोहस्य हयादुपानहौ विनेयुषस्तत्र बलद्विषस्तदा ।
१४०
१ पविः = वज्रं त्रायत इति पवित्रः = इन्द्रस्तस्य हस्तम् = इन्द्रहस्तं पण्डितः शुचिं = पवित्रम् अजानात्; किं०करं द्विधा सचामरम् । २ पीतवर्ण सहितम्, अम्भःप्रभोः :-वरुणस्य चामरमिव । ३इन्द्रस्य ।
Page #159
--------------------------------------------------------------------------
________________
१४८ . शान्तिनाथचरित्रनियोगतस्ताः सुमनःपरम्पराः __ परागपूर्णा ववृषुर्विकस्वराः ॥१५॥ सुवर्णपद्मोदरचारचारुतां
ततः पदे रेजतुरस्य विभ्रती। निवेशकल्याणपदं सुसंपदं
सुवर्णसेवामिव धर्तुमुत्सुके ॥४६॥ महोत्सवेऽस्मिन्नसुरैः सुरैः समं
तथैव मैत्री जनसंनिधेरभूत् । तयोः प्रवालैर्वनयोस्तथाम्बुजै
रवापि मोदः सुमनस्तया यथा ॥१७॥ रुजाविरोधेतिकलिक्रिया मृते
भियाऽभवद् निविषयार्हतः श्रिया । रसेन सेने अपि सख्यमीयतुः
नियोडुकामे किमु बद्धवर्मणी ॥४॥
१ एकं वनम् उद्यानम् , द्वितीयं वनं-पानीयम् अनयोयो. रपि प्रवालैः पल्लवैः, तथा अम्बुजैः, मोदः हर्ष अवापि। २ रोग-वैर-इति-क्लेशानां क्रियेत्यर्थः। ३ निर्गतः विषयः प्रसारो यस्याः सा।
Page #160
--------------------------------------------------------------------------
________________
.. पञ्चमः सर्गः। १४८ विधाय मूर्ति कपटेन वामनी
शनैश्चरन् यो त्रिपदीमदीधरत् । प्रसृत्वरां तां पुरुषोत्तमः परा___ मनेकपेऽधत्त गणेशपेशले ॥४९॥ त्रिविक्रमोरिष्टबलं पिनष्टि यः
स्वयं बैलिध्वंसिविडम्बिनीमयम् । तनूं न धर्ता किमनूनतेजसा
संचक्रपाणिश्च कृपाणिनां प्रभुः ॥५०॥ पुरा व्रते तीव्रतयैव केवलात्
तपःकलाऽश्रान्तनितान्तशान्तधीः । उपेतपार्श्वश्चरणेन मौनिना
मृषा चकारैष तृषां वृषार्चितः ॥५१॥ यतोऽतिदूरादपि ताप्यते वपु
दृशो शोल्लासिदशापि नाप्यते । तमहतः संनिधिनाप्तसौहृदं , - १ कपटेन-विनयरूपेण वामनी नम्राम् । २ त्रिषु-सानादिषु विक्रमाबलं यस्य सः। ३ बलिध्वंसिनः कृष्णस्य विडम्बिनी जित्वरीम् । ४ चक्रण सहितः पाणिर्यस्य सः।५ तृषां-लोभम् ।
Page #161
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रनृपः पतङ्ग समधत्त पाणिना ॥५२॥ तदात्तमात्मानमवेत्य संभ्रमाद् । __ मदादिनाऽनर्थकृताऽऽतवाक्यतः। जराजनुसृत्युमुमुक्षुणा नृणां
गणेन दीक्षा जगृहेऽगृहेप्सुना ॥५३॥ पतङ्गवत् कश्चन समपञ्जरात् __ पुनः पुनः प्रायसदुत्प्लवाय सः । स्वकर्मसंलीनतया मलीनधी
गुहे व्रतान्येव बभार भारमुक् ॥५४॥ प्रभोगिराऽन्तःप्रतिबुद्धमानसः
खगो मृगो वाऽप्यगजो मतङ्गजः। गतो चिरुत्योड्डेयने निराशतां
प्रपद्य सद्यः प्रणमन् ययौ वनम् ॥५५॥ १ नृपः भूचरो राजापि पतङ्ग-सूर्य पाणिना मैत्रीवशात् अधत्त । २ मदादिना श्रात्तं - गृहीतम् । ३ विरुत्य शब्दं विधाय पक्षिणो मुख्यत्वाद् उड्डयनं विरुतं च, लक्षणया स्वस्वशब्दित. गत्यादि । ४ मृगे उडुयनं = उत्प्लुत्य गमनम् , गजे उडयनं = शीघ्र गमनमात्रम् ; निराशतां = निर्लोभतां प्रपद्य = स्वीकृत्य उड्यने प्रणमन् वनं ययौ इत्यर्थः ।
Page #162
--------------------------------------------------------------------------
________________
पञ्चनः सर्गः। १५१ वयोगणः सुव्रतभाग निशाशनं
निरस्य मावान्तकबन्धनेऽप्यहो। न तत्प्रदत्तं फलमादिताऽऽनन । - करौ निरोद्भुर्दशति स्म केवलम् ॥५६॥ ससंभ्रमोत्पातपतत्कुलाकुलं
विमोचितात्मा कथमप्यतः स्वतः। कुलायमास्थाय जिनोपदेशतः
स्मरन् व्रतं प्रासुकभुक्तिभागभूत् ॥५७॥ मृगः शृगालादिररण्यजः परः __ सरः प्रपद्योत्कतयाऽनुकम्प्रताम् । विचारयन् निर्भरमप्यपादपा
मचित्तमावाहगतं स्वतन्त्रधीः ॥५८॥ पुरे वने वा समवासृते प्रभौ
सरस्सुरैनिर्मितमम्बुभिर्भूतम् । तमूर्मिलोलैः पतगाग्रहाद् नृपं
स्वशब्दितैर्वान्यमिवाभ्यमन्त्रयत् ॥५९॥ १निवार्य । २ स्वकूजनैः पक्षिणामाग्रहादिव नृपं - नरमु. ख्यम् अभ्यमन्त्रयत् = आजुहाव ।
Page #163
--------------------------------------------------------------------------
________________
१५२ शान्तिनाथचरित्रेजलं हि साङ्ग किल गाङ्गमङ्गिना. मपुण्ययोगाद् न हि पुण्यमिष्यते । सरस्तदम्भोग्रहदम्भसंभवं
न्यवारयद् वारिरुहैः करैरिव ॥६॥ पतत्त्रिणा तद् रुचिरेण वञ्चितं
न राजहंसेन पदानुरागिणा । न लक्षणैः श्रीकमलाकरैः परैः ' सरोऽरुचच्चारु विभोः पदश्रिया ॥६॥ कृते विहारे विभुना ततः समं
श्रियः प्रयान्त्या प्रविहाय पल्वलम् । अधायि चक्रेण तु हंसकप्रभा
१ सरः खयं तस्या गङ्गाया अम्भोग्रहणं पुण्यमिति कपटनाटकं न्यवारयत्, अपुण्यं गाङ्गं वारि न ग्राह्यमिति भावः । २ भगवद्विहारे चक्रं व्योनि चलति, तत्रायं भावः; श्रियः नूपुरमेतत् पल्वलं विहाय गच्छन्त्याः ; अथवा, चक्रेण नम:सरस्याः घनपुष्करोदयः अधायि = आकाशरूपे तटाके कमल. मिदं जातम् ।
"पुष्करें द्वीपतीर्थाहिखगरागौषधान्तरे । ... तूर्यास्येऽसिफले काण्डे शुण्डाने खे जलेऽम्बुजे॥"
हंसकं =नपुरं, पक्षे सूर्यस्य प्रभा। अत्र जलार्द्रतावशाद् नपुरे न शब्दः, प्रभा तु भवत्येव ।
Page #164
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः । १५३ . नभःसरस्या घनपुष्करोदयः ॥६२॥ सुरैः कृताऽऽजानुपदं मणीचकैः
सुगन्धिभिवृष्टिरिहालिमालया। चलत्पदाम्भोरुहनूपुरोपमा
समादधे स्मेरदृशां विशां पथि ॥३३॥ सरित्पचारेऽपि सितेच्छदास्तदा __ खेभावनालीकरुचो व्रतिव्रजे । निरीक्ष्य सारूप्यधिया शनैश्चरा
चुकूज कूले कलहंसमण्डली ॥६॥ जिनानुरागाद् छुसदाऽनुयायिना __ स्वहंसरूपावलिभिः समं पथि । कचित् तटिन्या निजजातिदर्शना___ चुकूज कूले कलहंसमण्डली ॥ प्रभोः प्रभावादविरोधबोधनात्
सहैव सिंहेन मृगी वनेऽचरत् । १ सितच्छदान् = मुनीन् दृष्ट्वा हंसालिः चुकूज । २ स्वभावेन
न अलीकरुचः = मुनयः, पक्षे नालीकं कमलम् । ३ साहश्यमत्या ।
Page #165
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
बिडालबालेन समं रिरंसया चुकूज कूले कलहंसमण्डली ॥ नवी सेयोग्या वसुधेयमीदृशः प्रभोविहारे त्रिदशैरपि स्तुता । रसान् न कांस्कानू समसूत नूतनान् स्वतः स्वमापूर्य च तूर्यनिःस्वनैः ॥ ६५॥ दिगisse पूर्वाप्यपरामधो भव
त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः । जडेषु नाथः कृतवारुणीरुचिमेमेशितेन्द्रस्तु शतक्रतुर्जिने ॥ ६६ ॥ शून्यं नभस्तद्वसनेन शून्यधी
र्न किं हि नः कौशिक एव यत्पतिः । इति प्रहाय क्षितिमाश्रिता नभः
प्रभो समस्ता विबुधा जंयत्यभुः ॥६७॥ अजन्यभावेऽजनि नातिभक्तिभाग्
१ नवा = नवीना । २ योग्यैः सह सयोग्या । ३ जयति प्रभौ सर्वे विबुधाः = देवाः नभो विहाय भूमिं श्रिताः अभुः = रेजुः । ४ यो जिने भक्तिभाग् न अजनि : न जातः । किं० जिने, श्रजन्य - भावे = उत्पाते सति जगत्त्रयेऽपि शान्तिकरे | तद्दिनात् खगाः = पक्षिणः सुरासुरा वा तम् श्राचुक्रशुः ।
१५४
Page #166
--------------------------------------------------------------------------
________________
पञ्चमः
सर्गः ।
जगत्रये शान्तिकरे जिनेऽपि यः । नरः सुरो वोषसि तद्दिनादिव
खगास्तमाचुक्रुशुरारवैः खलु ॥६८॥
भवेऽस्मदीयेऽजनि यत्र न प्रभुः प्रेमा स्वभावेन जिनेन्द्र सेवने । प्रतिप्रभातं द्विजरूपमागताः
खगास्तमा चुक्रुशुरावैः खलु ॥६९॥
गच्छाधीश्वर हीरहीरविजयानाये निकाये धियां
प्रेष्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्पाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजयस्याशास्यमानाग्रणी - श्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् ॥७०॥
१५५
१ प्रभुः = समर्था । २ प्रभा बुद्धिः । ३ खगाः - मिध्यादृशो देवा विद्याधरा वा । ४ नैषधीयच० प्रथमे सर्वे श्लो० १२८ ।
Page #167
--------------------------------------------------------------------------
________________
१५६
शान्तिनाथचरित्रे
तस्मिन् विस्मयकृत्काव्ये पञ्चमः पञ्चमाञ्चितः । सर्गः सज्जनसंसर्गात् श्रेयोऽध्ययनतत्परैः ॥ ७१ ॥
इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्री मेघविजयगणिपूरितायां पञ्चमः सर्गः समाप्तः ॥ श्रीः ॥
१ पञ्चमैः = चतुरैः अञ्चितः = प्रशस्तः "पञ्चमो रुचिरे दक्षे" इत्यनेकार्थः ।
Page #168
--------------------------------------------------------------------------
________________
# अथ षष्टः सर्गः ॥
न जातरूपच्छदजातरूपता
न कङ्कणाद्याभरणैरलंकृतिः । मुमुक्षुणा कापि विधीयतां धिया स्वजातरूपैकसिचा भवडुचा ॥१॥
वेदन स्वरागादपि वैभवस्थिति
र्द्विजस्य दृष्टेयमिति स्तुवन् मुहुः । विनिश्विकायैष हि वै भवस्थितिं निजां जराजन्मकृताधिसंस्थिताम् ॥२॥ मुखेऽपि नालीकरुचिर्महात्मनां
न संशयो वा न पैराशनाशयः । अवादि तेनाथ समानसौकसा
१ स्वस्मिन् जातं रूपं तदेव एकं सिग यस्य तेन; भवन्ती रुक् कान्तिर्यस्य स तेन । २ यः कश्चिद् रागात् = स्नेहाद् द्विजस्य = ऋषेः वैभवस्थितिं वदन्; यद्वा, इयं वैभवस्थितिर्दृष्टा इति स्तुवन् वै= निश्चितं निजां भवस्थितिं विनिश्चिकाय । ३ पराशनं = हिंसा । ४ समाना = सज्ञाना तुल्या वा ये सौकसः = श्रगारिणस्तेषामुपाश्रयन्ती या संसत् = सभा तस्याम् अर्हता इत्यवादि ।
Page #169
--------------------------------------------------------------------------
________________
१५८
शान्तिनाथचरित्रे___मुपाश्रयसंसदि चाहतेत्यहो ॥३॥ तदस्ति नाभ्यस्तमिह युसदलं
छलं जयन्मन्त्रकलं च चञ्चलम् । तनूभृता येन यमोअप जीयते
जनाधिनाथः करपेञ्जरस्पृशा ॥४॥ धिगस्तु तृष्णातरलं भवन्मनः __ समुच्छलद्वाजिबलं विलोक्य यत् । परं परार्थाच परम्परार्थतः __समुन्मिषद्भूरिमिषेषु हे जनाः ! ॥५॥ करोषि किं दुर्जनतां धनान्वितान्
समीक्ष्य पक्षान्मम हेमजन्मनः । भृशं सखायो विवदन्त इत्यतः
परिग्रहे नाग्रहयालुता हिता ॥६॥
१ जनानाम् आधे मनःपीडाया नाथ: स्वामी । २ यमस्य करपजरवासिना । ३ परः = उत्कृष्टः योऽर्थः ततः= शिवसाधनात् परं दूरे । ४ परम्परया=क्रमेण अर्थतः धनात्, भूरिमिषेषु समुन्मिषत् = जागरूकम्। ५ मित्रं प्रति अन्यमित्रोतिरियम् । ६ हेमसमुत्पत्तित इत्यर्थः ।
Page #170
--------------------------------------------------------------------------
________________
- षष्ठः सर्गः। मितायुषा तृड् जनिता जनाजनै
न बाधिका स्यान्नमसो नवाधिका । तवार्णवस्येव तुषारशीकरैः
प्रवृद्धवेलेव तुषाररोचिषा ॥७॥ सदाऽऽदिनाथार्च निकादिना दिना.
गमे सेमेता स धनं जनोऽर्जनैः। मृषा कषायानपि मा कृथा वृथा __भवेदमीभिः कमलोदयः कियान् ? ॥८॥ न केवलं प्राणिवधो वधो मम
प्रसक्तिभाजैकवपुष्मतीहितः । तदाश्रयान्याङ्गिजिघांसयाशयः
कृतः क्षयायेव स नारकाश्रये ॥९॥ १ हे जन ! तव मितायुषा कर्तृभूतेन अञ्जनः पापैर्जनिता तृड् न बाधिका भवेत्= निषेधिका न स्यात् । २ आकाशात् । ३ नवीना। ४ चन्द्रण । ५ किं० जनः प्रातः पूजादिनाधनं समेताप्राप्ता। ६ अमीभिः कषायैः कियान् कमलोदयः लक्ष्मीलामः स्यात्। ७ एकजीवे वधः केवलं प्राणिवधो न, किन्तु तदाश्रया अन्येऽङ्गिनस्तेषां जिघांसया कृत प्राशय अभिप्रायः नारके क्षयायैव भवेत् । ममो ममत्वं, ममशब्दोऽदन्तः, अमम-निर्ममा. दिवत् तत्र प्रसक्तिभाजा-रागिणा; ईहिता वितर्कितः।
Page #171
--------------------------------------------------------------------------
________________
१६०
शान्तिनाथचरित्रे
इमां नु शिक्षां कथयन्तमीश्वरं त्वदीक्षणाद् विश्वसितान्तरात्मनः । करोतु रक्षा पततो भवाम्बुधावितीह चक्रायुधभूपतिर्जगौ ॥ १० ॥ ततः प्रपन्नत्रतमेनमेनसा वियुक्तमायुङ्क्त गणेशितुः पदे । विगर्हितं धर्मधनैर्निबर्हणं
वदन्तमेवं सकलेभ्य संसदि ॥ ११ ॥ परेऽपि चाक्षत्रिमिता गणेश्वरा बभूवुराप्ताः सदृशं दृशं भृशम् । गणेऽनुगानामविगानधीबलाद्
विशिष्य विश्वासजुषां द्विषामपि ॥ १२ ॥ पदे पदे सन्ति भटा रणोद्भटाः
प्रशामयन्ते शमिनः स्म तानपि । दियुक्तषष्ट्या हि सहस्रसंख्यया
१ श्रनुगानां तथा द्विषां गणे सदृशं दृशमाप्ताः अक्षत्रिमि ताः=षट्त्रिंशद् गणधराः । *६२ सहस्राः शमिनः = यतयः ।
Page #172
--------------------------------------------------------------------------
________________
१६१
षष्ठः सर्गः। द्विधापि शान्तिक्रमलीनचेतसः ॥१३॥ सदा तदापिटलेषु शूकता
ऽऽनतेषु हिंसारस एष पूर्यते । क्वचित् क्षमायां न मनाक्, तदुन्मनाः
स नारकानेव निषेवतां न किम् ? ॥१४॥ प्रमाणमार्यास्वपि भूरसैर्मितै___ रभूत् सहस्रैर्यद॑दीर्णया गिरा। धिगीदृशं ते नृपते ! कुविक्रम
प्रजेशमूचे मृगयाऽशुचिं शुचिः ॥१४॥ अविक्रियं वैक्रियलब्धिशालिनां
प्रभुर्यतोऽप्यङ्गसहस्रमालिनाम् । दयां दिदेश स्थलनीरचारिणि
१ शान्तिः शमो जिनश्च । २ तस्य भगवतः आर्यासमूहेषु दयाभावे मानतेषु सत्सु क्षमायां भूम्याम् एष हिंसारसः क्वचिदपि मनाग् न पूर्यते, इतिहेतोः हिंसारसे उन्मनाः स-जनः नारकानेव न किं निषेवताम् ? नतेषु-प्रतीभूतेषु "आसक्तः प्रवणः प्रह्वः" 'णम् प्रह्वीभावे' धातुः । १२ यासाम् आर्याणां गिरावाण्या प्रजापि शानमाप्य ईशं-राजानमूचे, 'हे नृपते ! ते तव कुविक्रमं धिक।
Page #173
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे_कृपाश्रये या कृपणे पतत्रिणि ॥१६॥ फलेन मूलेन च वारिभूरुहा
तथा परेषामनुकम्पयान्विता । छचतुःशताढयात्रिसहस्रवादिन
श्चतुःसहस्रा मनसोऽवबोधिनः ॥१७॥ शतत्रयीयुक्तचतुःसहस्रिका
मुनेरिवेत्थं ममयस्य-वृत्तयः । अभुः प्रभोः केवलबोधशालिनो
दिशां प्रकाशादहिमांशुमालिनः ॥१०॥ जगत्त्रयं दण्डितमात्मसात् कृतं
•विमोहराजा रजता रजोबले। . त्वयाऽद्य तस्मिन्नपि दण्डधारिणा
कृता त्रिलोकी प्रभुताद्भुता करे ॥१९॥ * ३४०० वादिनो मुनयः। १मनःपर्ययज्ञानिनः । २ वृत्तीनां विशेषणत्वात् स्त्रीलिङ्गम् । ३ एकवचनं जातौ। ४ 'म' शम्भुः-तीर्थकरः तत्प्रधानस्य-तदाज्ञानुचारिमुनेः केवलिनः; मम ममत्वं यस्यति-क्षिपति इति शप्रत्यये ममयस्या, इति वृत्ति. विशेषणं वा।
Page #174
--------------------------------------------------------------------------
________________
षष्ठः सर्गः। • प्रणूयमानस्त्रिसहस्रयोगिनां
गणोऽवधिज्ञानवतां सुरैरिति । विभूषिताऽद्यापि च येन संस्मर
कथं न पत्या धरणी हृणीयते ॥२०॥ इतीदृशैस्तं विरचय्य वाङ्मयै
गणेश्वरैः पूर्वगणं पटूकृतः। मुमुक्षुवर्गोऽष्टशतीमितः स्थित
स्तपोभर यः स्वयमहतारतः ॥२१॥ त्रिलक्षयुक्ता नवतिः सहस्रकाः
सँचित्रवैलक्ष्यकृपं नृपं खगः । क्षमां गतो वाऽणुयतिः प्रतिष्ठित
श्वकार वाचा परमार्हतं बहुम् ॥२२॥ - १ येन गणेन, विभूषिता धरणी अद्यापि न हणीयते । किं० येन, पत्या स्वामिना।२ संस्मरत्कथं सं-सम्यक्प्रकारेण स्मरन्ती कथा यत्र तत्, क्रियाविशेषणम् । ३ पूर्वगणं विरचय्य पटुः पण्डितः कृतः पटूकृतः। ४ लक्ष्यत इति लक्षः-अङ्कः गणना, विगतः अङ्को यत्र तद् विलक्षं तस्य भावः वैलक्ष्यम्, चित्रं नाना तञ्च तद् वैलक्ष्यं च तेन सहिता कृपा यस्मिन् , तम् । ५ कश्चिद् विद्याधरः आकाशचारी भूचारी वा श्रावकः । ६ श्रावकः। .
Page #175
--------------------------------------------------------------------------
________________
१६४
शान्तिनाथचरित्रेउपासिकानां निवहस्त्रिलक्षभृत् ___ पुनः सहस्रत्रिनवत्यधिष्ठितः । दयासमुद्रे स लंदाशयेऽतिथी
बभूव रत्नाकर एव केवलः ॥२३॥ प्रभुर्विजहे भुवि यत्र केवली
बलीयसो मोहगिरीन् विभेदयन् । रसैः प्रसन्ने जनमानसे सखी___ चकार कारुण्यरसापगा गिरः ॥२४॥ मदेकपुत्रा जननी जगतुरा
पिता सनत्पूर्वकुमारताविषम् । पुरो गतौ स्वस्य निसयाऽऽगतो
विमोच्य मोहात् स हि तावबूबुधत् ॥२५॥ प्रवर्तिनी बाल्यत एव सुव्रताः
नवप्रसूतिरैटा तपस्विनी,। १ श्राविकाणाम् । २ तदाशये नृपाशये। ३ अहमेव एकः पुत्रो यस्याः सा । ४ नवनं नव-जिनस्तवः तस्य प्रसूतिर्यस्याः सा; अनवप्रसूतिर्वा न विद्यते नवा प्रसूतिर्यस्याः सा । ५ वरम् अटतीति वरटा, पृषोदरादित्वात् , "वरटा हंसयोषिति गन्धोत्याम्" इत्यनेकार्थे, सितच्छदत्वाद् वरटाया उपमा।
Page #176
--------------------------------------------------------------------------
________________
धष्ठः सर्गः । १६५ स्थिरा सुदृग्मानसनीरजालये
शुचिः सपक्षा चरणानुरागिणी ॥२६॥ मुनेर्गृहस्थस्य च वार्हदागमः
फलानि दत्ते त्रिदिवं शिवं ध्रुवम् । गतिस्तयोरेष, जनस्तमर्दयन् ।
रसेन हीनो भविता धनातपात् ॥२७॥ अहर्निशं सांतपनक्रियाविधौ
प्रवृत्तिभार जैनरुचिं विना जनः । अधः पतेत् दुःखममुष्य बिभ्रत
महो विधे ! त्वां करुणा रुणद्धि न ॥२८॥ मुहूर्त्तमात्रं भवनिन्दया दया
दरेण संसाध्य धियाहतं मतम् । शुभं लभन्ते भविनो विनोदतः
क्षणेन मुक्त्यम्बुजलोचनायुजः ॥२९॥ स्त्रियः श्रियो वा विरहासहा महा
सखाः सखायः श्रवदश्रवो मम । १तयो-मुनिगृह-स्थयोः गतिः एष आगमः । २तम्-भागमम्, अर्दयन् त्रोटयन भिन्दन ।।
Page #177
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रेइति प्रियालीनमलीनमानसा __न सातभाजोऽत्र परत्र देहिनः॥३०॥ कुशासनेनापि कुशासनेन ये
नयेऽनुरक्ता बहुविप्रयोगतः। निवृत्तिमेष्यन्ति परं दुरुत्तर___ स्तरस्विभिर्मोहमहोदधिस्तु तैः ॥३१॥ निजस्य वप्रत्रितयाग्रनिष्ठया __ जनोऽत्र निर्वाणिकया हृते शिवे । इति स्तुते स्मातिमुदैष शोषित. स्त्वयैव मातः ! सुतशोकसागरः ॥३२॥ मदर्थसंदेशमृणालमन्थरः
कदाऽभ्युपेता पथिकोऽथ बान्धवः । इतीह पृष्टो गरुडोपि यक्षराद
तदाऽऽचचक्षेऽस्य हितं ससाक्षिकः ॥३३॥
१ ये कुशासनेन कुप्रवचनेन नये मार्गे शास्त्रे वा रागिणस्ते कदाचिद् निवृत्तिं वैराग्यम् एष्यन्ति, परं तैर्मोहार्णवो दुरुत्तरः। २ निर्वाणी देवी । ३ जनो निर्वाणीम् इति स्तुते स्म । ४ मम कारणमाश्रित्य मृणा=हिंसा कस्यापि दुःखदानं, तथा, आलम्असत्य तत्र मन्थरः अलसः हिंसातोऽसत्यतश्च निवृत्त इत्यर्थः ।
५प्रच्छकस्य।
Page #178
--------------------------------------------------------------------------
________________
षष्ठः सर्गः । मया नु पृष्टो भगवद्विवन्दिषुः
प्रियः कियदूर इति खयोदिते । विलम्बतेऽसाविति सा पराङ्मुखी _सखी सखीं तां निजगाद नाऽदरात् ॥४३॥ केचित् प्रभातप्रभया भयादृते - प्रमाद्यतो नीलमणित्विषा निशि । विलोकयन्त्या रुदतोऽथ पक्षिणः स्त्रियाः क्षणोऽभूद्धृतलक्षलक्षणः ॥३५॥ न यावता भागवती लसन्नया
श्रुतास्ति गौस्तावदभीष्टता परे । चलाशु तस्याः श्रवणे विचक्षणः
*प्रिये ! स कीदृग् भविता तव क्षणः ? ॥३६॥ कथं विधातर्मयि पाणिपङ्कजाद्
*विधेर्जिनस्याशनपुण्यमुद्भवेत् ।
१ त्वया अन्यया, त्वशब्दोऽन्यार्थः । २ चक्रवाकादीन् नीलमणित्विषा भ्रमाद् निशि रुदतः पश्यन्त्याः, भयं विना प्रभातंप्रभयापि रुदतः, 'अद्यापि न रात्रिर्गता, कदा जिनदर्शनं करिष्ये' इत्याशयः । ३ कश्चित् पतिर्जिनं विवन्दिषुः प्रियां प्रत्याह, हे प्रिये ! शीघ्रं चल । ४ विधेः शुद्धक्रियातः।
Page #179
--------------------------------------------------------------------------
________________
१६८ शान्तिनाथचरित्रेइतीव सौराष्ट्रिकभव्यचिन्तनैः __ स्थितः प्रभुः श्रीविमलाचलोपरि ॥३७॥ स्थितिक्रिया मासचतुष्टये प्रभो ! ___तव प्रिया शैत्यमृदुत्वशिल्पिनः । ऋतोर्जनस्येव सुरैः समं भव
त्विति प्रचक्रे सफलामसौ गिरम् ॥३८॥ तवाश्रयादेव च शान्तिरप्यभूद्
भियां प्रदेशे जिन ! तनवालिके । वियोक्ष्यसेऽवल्लभयेति निर्गता
क्षरालिरीत्याऽत्र कदाप्यटाट्यते ॥३९॥ गुरुत्वभावात् शुचिशास्त्रसंभवात्
सुरार्चितत्वादतिपुण्यभूभवात् । अदीदिपत् तीर्थकृदित्यसौ विभो
लिपिर्ललाटंतपनिष्ठुराक्षरा ॥४०॥ - १ हे प्रभो! मासचतुष्टये तव स्थितिर्जनस्य प्रिया; किं० तव, शैत्यं मृदुत्वं च तस्य शिल्पिनः कारकस्य, शैत्यं कामको. धोपशमात्, मृदुत्वं मानोपशमात् , जनस्य इति गिरं वाणी सफलां चक्रे । २ अवल्लभया अनिष्टया। ३'मट गतौ', 'गत्यर्थाः प्राप्त्यर्थाः', प्राप्यते।
Page #180
--------------------------------------------------------------------------
________________
षष्ठः सर्गः। अयि स्वयूयैरशनिक्षतोपम
समं विषेहेऽप्युपसर्गकारणम् । सुरैनरैर्वा पशुभिः सहासुरैः
कृतं त्वमीषां विकृतं न मानसम् ॥४१॥ भुवं पुनानस्य तवेति निर्गल___ न्ममाऽद्य वृत्तान्तमिमं बतोदिता । तनोति संसद् दिवि गायनैः प्रभो !
पुरन्दरस्यापि पुरो महोदयम् ।।४२॥ प्रभोर्विहारे मगधेऽपि मागधैः
प्रवर्ण्यमाने विविधैर्महोत्सवैः । मुखानि लोलाक्षि ! दिशामसंशयं
प्रियोऽवदत्पश्य विभूषणैरितः ॥४३॥ खसिन्धुचापप्रमयोन्नतावित
स्तनूं प्रिये ! पश्य महोज्ज्वलां दिशाम् । मुखान्यमुष्याः किरणैश्च तामसाद्
दशापि शून्यानि विलोकयिष्यसि ॥४४॥ १ हे निर्गतन्मम त्यजन्ममत्व ।
Page #181
--------------------------------------------------------------------------
________________
१७०
शान्तिनाथचरित्रममैव शोकेन विदीर्णवक्षसा
मनः किमाकस्मिकमद्य नोद्यतम् । निवेदितुं सर्वविदे तदास्पदे
बिडौजसाऽगामि भुवस्तलेऽञ्जसा ॥४५॥ मयाऽद्य मुक्तिः प्रतिपत्स्यते श्रिया
लैया विचित्राङ्गि ! विपत्स्यते यदि । निषेवणाद् मे न कदापि मामतः ___ समेतशैलं चलितुं तु मा भज ॥४६॥ विहाय सर्वामथ तीर्थकृच्छ्रियं . विभुर्ययौ तद्गिरिशृङ्गमुन्नतम् । तदाऽस्मि दैवेन हतोऽपि हा हतः
सुरेशितेति प्रलपन्नुपागमत् ॥४७॥ त्रयोदशाहे किल शुक्रजेसिते
जिनः प्रपन्नानशनः शिवं ययौ ।
१ शोकेन न उद्यतम् । २ त्वया अन्यया, त्वशब्दोऽन्यार्थः । विचित्राणि अङ्गानि तीर्थंकरशरीराणि साधनानि यस्यास्तत्सं. बोधने हे विचित्राङ्गि! त्वया अन्यया भवत्या मे निषेवणात् कदापि श्रिया न विपत्स्यते अतः मां मा भज।
Page #182
--------------------------------------------------------------------------
________________
षष्ठः सर्गः । अगुर्विनेया नवशत्य प्रभु - स्फुटं यतस्तेऽशिशवः परीसवः ॥४८॥ तवापि हा हा विरहात क्षुधाकुलाः
कुलाश्रया अन्यतपस्विनोऽधुना । त्वयीश ! भुक्ते त्वनुभुञ्जतामिति
गणीन्द्रमाशास्त हरिः प्रशस्तधीः ॥४९॥ विधाय कल्याणककर्म सोत्सवं
कुलायकूलेषु विलुट्य तेषु ते । खगा इव स्तूपतटेषु च क्रमाद्
दिवं ययुस्त्यक्तशुचः सुरेश्वराः॥५०॥ ततो विजदुर्गणिनः ससंयता
उपासकैर्भूपतिभिः कृतार्चनाः । चिरेण लब्धा बहुभिर्मनोरथै- ..
रुपादिशन्तः प्रभुशान्तिशासनम् ॥५१॥
१ प्रभोः पश्चात् अनुप्रभु, अत्र “ विभक्ति-" (सि० हे. ३।११३६) इत्यादिनाऽव्ययीभावः। २ अशिशवः तरुणा वृद्धा वा। ३ परे सिद्धा ज्ञानरूपा वा असवः प्राणा येषां ते । ४ विरहोऽत्र भोजनादेः, अधिकारात् । ५ कुलेषु-गृहेषु प्रायः ध्वजादिस्तत्प्रधानं कूलं तटं येषु ईदृशानि स्तूपतटानि स्तूपभूमयः; "कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि" इत्यनेकार्थः ।
Page #183
--------------------------------------------------------------------------
________________
शान्तिनाथचरित्रे
प्रभोर्विमुक्तेः पदमाश्रिताः सुरा अपूपुरनीप्सितमंद्विसेविनाम् । कदापि साक्षाद्भवनात् कदाचन गताः क्षणेनाऽस्फुटितेक्षणा ममम् ॥ ५२ ॥ सुताः कमाहूय चिराय चुङ्कृतै
रिवाण्डजाः पक्षबलं तथागमम् । इहाश्रयन्तामिति शिक्षया क्रमाद् ययुर्विनेया गणिनां गणेशताम् ॥ ५३ ॥ विधौ विधेया मतयो विधेयका
१७२
विधाय कम्प्राणि मुखानि कं प्रति । वृथा निरीक्षध्वमितस्ततः किमु ऋते न बोधात् संविधेः शिवाश्रयः ॥ ५४ ॥ गुरोर्निषेवा श्रुतदानपूजना जनाः । कुरुध्वं स्वगुरूदिताध्वना ।
१ क्षणॆन उत्सवेन, अप्रकटम् ईक्षणं दर्शनं येषां ते, ममं = ममत्वं गताः=प्राप्ताः । २ कम्=आत्मानम् आहूय=प्रसाद्य=अभ्यस्य=प्रत्यक्षीकृत्य । ३ अण्डजानां पक्षे श्रगमं वृक्षम् | ४ विधिः क्रिया तत्सहितं बोधं शानं विना न मुक्तिः ।
Page #184
--------------------------------------------------------------------------
________________
सर्गः ।
कथासु शिष्यध्वमिति प्रमील्य स परम्परामार्गमचालयद् गणी ॥ ५५ ॥ फलेग्रहिः शान्तिजिनोदितागमः क्रमेण शाखाबलः स्फुरत्पदः । प्रमोदजन्यात् श्रवणेन विश्रुतः
श्रुतस्य सेकाद् बुबुधे नृपाश्रुणः ॥ ५६ ॥ दानमदादमदाद् दमदान्ते-दीनदयालुतयाऽवनिपालः ।
शस्यतमे परिसंस्मृतशान्तेः
नम्नि च विस्फुरिते श्रुतियोग्ये ॥ ५७ ॥ शैवपदस्य पदव्यवबुद्धा दुर्णयवर्णितिरेव निषिद्धा ।
रूपमदर्शि धृतोऽसि यदर्थं
चेतसि तत् त्वमिहासि स कर्ता ॥ ५८ ॥
१ जिनोदितागमः नृपाणां प्रवरनराणां प्रमोदाजाताद् अश्रुणः नृपाश्रुणः सेकात् = सेचनाद् बुबुधे - प्रबुद्धः - विकखरो जज्ञे; श्रन्योऽप्यागमः = तरुः जलसे काढू विकस्वरः स्यात् । २ पदानि स्थविरवाचनाचार्यादीनि पक्षे पदं = मूलम् । ३ पदवी = मार्गः । ४ चेतसि=चित्ते धृतः, तत् तस्मात् त्वम् इह कर्ता ईश्वरः ।
"
१०३
Page #185
--------------------------------------------------------------------------
________________
- १७४
शान्तिनाथचरित्रेदेवनृदेवगणः स्तुतिमेवं
तस्य चकार गणेशवरस्य । मानसतोऽपि च मा क्षणमात्रं
गच्छ यथेच्छमथेत्यभिधाय ॥५९॥ आनन्दजाश्रुभिरनुस्रियमाणमार्गान् ___ व्यक्तान् पदानि निदधद् बहुवर्णसंधैः । चक्रे ह्यनेकपमुखः स गणे गणेशो___ऽप्यङ्गाश्रितत्रिपदिकागंतभूरिलक्ष्म्याः ॥६॥ लोकाननेकवचनामृतलुतदुःख- प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् । कुर्वन् स सर्वविदनूक्तिरसात् तदो|
रेजे सितद्युतिरिवाप्तगणाधिराजः ॥६१॥ पूर्वं रथाङ्गभृति पञ्चमकेपि पश्चाद्
रागेण वा भगवति स्मितपद्मिनीशे । १ सेव्यमानः मार्गो जैनागमो यैस्ते ईदृशान् व्यक्तान्=पण्डि. तान् चक्रे । २ अनेकान् पाति-रक्षति दयोपदेशाद् ईदृशं मुखं यस्य सः। ३ त्रिपदी-गजाभरणम् , उत्पादव्ययध्रुवरूपा वा।
४ गता प्राप्ता।
Page #186
--------------------------------------------------------------------------
________________
षष्ठः सर्गः। . चक्रे स चक्रनिभचंक्रमणच्छलेन __ स्वस्मिन्प्रभाकररुचिं शुचिमण्डलस्थः॥६२॥ सर्वत्र सार्वगणशासनसार्वभौम
पट्टस्थितस्य गणिनोऽनुदिनार्चनासु । सिद्धिर्भवेद् भविजनस्य पुरःस्थितस्य
नीराजनां जनयतां निजबान्धवानाम् ॥६३॥ श्रीहर्षः कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्। १श्रीहर्षः पूर्वनाम्नि हीरहर्षनामतः पदैकदेशे पदसमुदायोपचारात्, 'दत्तो देवदत्तः' इति न्यायात् । कविराजराजिमुकुटालंकारहीरः= कः अग्निब्रह्मा वा विराजो-गरुडः, यक्षराजः, विशिष्टराजोवा, एषु राजते शोभते कविराजराजि-खणं, अग्ने. हिरण्यरेतस्त्वात् , ब्रह्मणो हिरण्यगर्भत्वात्, विराजे गरुडे स्वर्णकायत्वात् , धनदे वर्णाधिकारत्वात् ; कनकप्रधानमुकुटालंकारपूज्यः । श्रीहीरः हीरविजयसूरिः, यं जितेन्द्रियचयं मुनिवर्ग, सुषुवे-प्रसूते स्म जनयामास उत्पादयामास । च-पुनः मा लक्ष्मीः पद्मा तद्पा या मल्लदेवी समर्थनाम्नः देवी स्त्री सुषुवे प्रासूत; भ्रातृत्रयरूपमुनिवर्गस्य समर्थसाधुपुत्रत्वात् सौभाग्यदेवीकुक्षिरत्नत्वात् । एतावता श्रीहीरसूरिणा ऐश्वर्ये महाव्रतित्वे स्थापितं दीक्षितमिति भावः । सुतं पुत्रं, पक्षे सुतमिव, लुप्तोपमा, शिष्ये पुत्रवदाचारात् । तदुक्तो यश्चिन्तामणिमन्त्रः, मध्यमपदलोपात, तस्य चिन्तनं स्मरणं यस्य, तस्य फलमिव फलं
Page #187
--------------------------------------------------------------------------
________________
- शान्तिनाथचरित्रेतञ्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महा
काव्ये चारुणिनैषधीयचरिते सर्गो यमादिर्गतः ।।
इति श्रीनैषधीयमहाकाव्यसमस्यायां महोपाध्यायश्रीमेघविजयगणि
पूरितायां षष्ठः सर्गः संपूर्णः ।। श्रीः ।।
तस्मिन् । “पृङ्ग चिह्नविषाणयोः क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वो. स्कर्षभानुष" भङ्गिः पुनर्भक्तिवीच्योः" इत्यनेकार्थः; शृङ्गेष-शिखरेषु प्रारो-गतिः प्राप्तता यस्य स मेघः, "गिरौ वर्षति माधवः" इतिवचनात् ;शृङ्गारस्य-मेघस्य भङ्ग्या तरङ्गेण चारुणिरम्ये। नैषधकाव्याजातं नैषधीयं तस्येव चरितं-आचार: समस्यारूपो यत्र तस्मिन् ; सर्गः, यमाः अहिंसादयः पञ्च महाव्रतानि सैव संख्या आदिर्यस्य सः षष्ठः सर्गः संपूर्णः अभवत् ।
Page #188
--------------------------------------------------------------------------
________________
प्रशस्तिः ।
जयति जगति जाग्रज्ज्ञानयोगाद युगादौ जिनवरनवरश्मिर्मारुदेवादिदेवः ।
तदनु दिनपकान्तिः शान्तिरर्हन स चक्री जिनपतिरपि पार्श्वः शाश्वत श्रीर्विवस्वान् ॥ १ ॥ तदनु दनुजपूज्यस्तीर्थकुद् वीरनामा निरुपममहिमाढ्यः सर्ववित्सार्वभौमः । तदनु गणधराली पूर्वदिग्भानुमाली विजयपदमपूर्वं हीरपूर्वं दधानः ॥२॥ कनकविजयशर्माऽस्यान्तिषत्प्रौढधर्मा शुचितरवरशीलः शीलनामा तदीयः । कमलविजयधीरः सिद्धिसंसिद्धिवीर
स्तदनुज इह रेजे वाचक श्रीशरीरः ॥ ३॥ चारित्रशब्दाद् विजयाभिधानस्त्री सगर्भा धृतशीलधर्मा
Page #189
--------------------------------------------------------------------------
________________
१७८
प्रशस्तिः । एषां विनेयाः कवयः कृपाद्याः
पद्यास्वरूपाः समयाम्बराशौ ॥४॥ तत्पादाम्बुजभृङ्गमेघविजयः ।।
. प्राप्तस्फुरदाचकख्यातिः श्रीविजयप्रभाख्यभगवत्
सूरेस्तपागच्छपात् । नुन्नोऽयं निजमेरुपूर्वविजय
प्राज्ञादिशिष्यैरिमां चक्रे निर्मलनैषधीयवचनैः
श्रीशान्तिचक्रिस्तुतिम् ॥५॥
Page #190
--------------------------------------------------------------------------
________________ अस्यां शास्त्रमालायामद्यावधि मुद्रिता ग्रन्थाः। (1) सुरन्दरीचरिअं-नोधनेश्वरसूरिविरचितः प्राकृत भाषात्मकः सरलः रसधावर्षकश्चायं ग्रन्यः / मूल्यं रु. प्रा. पा. साधारणपत्रात्मकस्य 200 उच्चपत्रात्मकस्य -300 (2) हरिभद्रसूरिचरित्रम्-(संस्कृतं ) मूल्यं 40 (3) सप्तसंधानमहाकाव्यम्-(,) .. (4) सुपासनाहचरिअं-संस्कृतच्छायासहितम् / प्रथमो भागः / पुस्तकाकारस्य मूल्यं / 200 पत्राकारस्य मूल्यं . 2 80 (4) First Principles of Jaina Philosophy ( second Edition ) A succint summary of Jaina Metaphysics, and Logic, By H. L. Jha veri. Price o 10 O (6) सुपासनाहचरियं-संस्कृतच्छायासहितम् / द्वितीयो भागः / पुस्तकाकारम्य व्यं 200 पत्राकारस्य मूल्यं -28 मुद्रयमाणौ। (1) सुपासनाह वरिअं-तृतीयो भागः / (2) रयणसेहर कहा-संस्कृत छायासहिता। पत्रादिप्रेषणस्थानम्जनषिधसाहित्यशास्त्रमालाकार्यालय, बनारस सिटी।