SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रेइति प्रियालीनमलीनमानसा __न सातभाजोऽत्र परत्र देहिनः॥३०॥ कुशासनेनापि कुशासनेन ये नयेऽनुरक्ता बहुविप्रयोगतः। निवृत्तिमेष्यन्ति परं दुरुत्तर___ स्तरस्विभिर्मोहमहोदधिस्तु तैः ॥३१॥ निजस्य वप्रत्रितयाग्रनिष्ठया __ जनोऽत्र निर्वाणिकया हृते शिवे । इति स्तुते स्मातिमुदैष शोषित. स्त्वयैव मातः ! सुतशोकसागरः ॥३२॥ मदर्थसंदेशमृणालमन्थरः कदाऽभ्युपेता पथिकोऽथ बान्धवः । इतीह पृष्टो गरुडोपि यक्षराद तदाऽऽचचक्षेऽस्य हितं ससाक्षिकः ॥३३॥ १ ये कुशासनेन कुप्रवचनेन नये मार्गे शास्त्रे वा रागिणस्ते कदाचिद् निवृत्तिं वैराग्यम् एष्यन्ति, परं तैर्मोहार्णवो दुरुत्तरः। २ निर्वाणी देवी । ३ जनो निर्वाणीम् इति स्तुते स्म । ४ मम कारणमाश्रित्य मृणा=हिंसा कस्यापि दुःखदानं, तथा, आलम्असत्य तत्र मन्थरः अलसः हिंसातोऽसत्यतश्च निवृत्त इत्यर्थः । ५प्रच्छकस्य।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy