SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सर्गः । कथासु शिष्यध्वमिति प्रमील्य स परम्परामार्गमचालयद् गणी ॥ ५५ ॥ फलेग्रहिः शान्तिजिनोदितागमः क्रमेण शाखाबलः स्फुरत्पदः । प्रमोदजन्यात् श्रवणेन विश्रुतः श्रुतस्य सेकाद् बुबुधे नृपाश्रुणः ॥ ५६ ॥ दानमदादमदाद् दमदान्ते-दीनदयालुतयाऽवनिपालः । शस्यतमे परिसंस्मृतशान्तेः नम्नि च विस्फुरिते श्रुतियोग्ये ॥ ५७ ॥ शैवपदस्य पदव्यवबुद्धा दुर्णयवर्णितिरेव निषिद्धा । रूपमदर्शि धृतोऽसि यदर्थं चेतसि तत् त्वमिहासि स कर्ता ॥ ५८ ॥ १ जिनोदितागमः नृपाणां प्रवरनराणां प्रमोदाजाताद् अश्रुणः नृपाश्रुणः सेकात् = सेचनाद् बुबुधे - प्रबुद्धः - विकखरो जज्ञे; श्रन्योऽप्यागमः = तरुः जलसे काढू विकस्वरः स्यात् । २ पदानि स्थविरवाचनाचार्यादीनि पक्षे पदं = मूलम् । ३ पदवी = मार्गः । ४ चेतसि=चित्ते धृतः, तत् तस्मात् त्वम् इह कर्ता ईश्वरः । " १०३
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy