SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६० शान्तिनाथचरित्रे इमां नु शिक्षां कथयन्तमीश्वरं त्वदीक्षणाद् विश्वसितान्तरात्मनः । करोतु रक्षा पततो भवाम्बुधावितीह चक्रायुधभूपतिर्जगौ ॥ १० ॥ ततः प्रपन्नत्रतमेनमेनसा वियुक्तमायुङ्क्त गणेशितुः पदे । विगर्हितं धर्मधनैर्निबर्हणं वदन्तमेवं सकलेभ्य संसदि ॥ ११ ॥ परेऽपि चाक्षत्रिमिता गणेश्वरा बभूवुराप्ताः सदृशं दृशं भृशम् । गणेऽनुगानामविगानधीबलाद् विशिष्य विश्वासजुषां द्विषामपि ॥ १२ ॥ पदे पदे सन्ति भटा रणोद्भटाः प्रशामयन्ते शमिनः स्म तानपि । दियुक्तषष्ट्या हि सहस्रसंख्यया १ श्रनुगानां तथा द्विषां गणे सदृशं दृशमाप्ताः अक्षत्रिमि ताः=षट्त्रिंशद् गणधराः । *६२ सहस्राः शमिनः = यतयः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy