SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २८ शान्तिनाथचरित्रे अतद्द्द्वयीजित्वर सुन्दरान्तरे न साम्यधीः कापि सतां ततः परे ॥ ९२ ॥ न चार्हतोऽनुत्तरवासिनः सुरा विधातुमङ्गुष्ठमपि क्षमाः क्रमात् । असंशयस्तेन मनःशयोऽस्ति मे न तन्मुखस्य प्रतिमा चराचरे ॥ ९३ ॥ सरोरुहं तस्य दृशैव तर्जितं जले निमज्जद् बहुलज्जया जयात् । ततः स्फुरत्पद्मपदं तदञ्चितं वृतं न जैनाननसंश्रयश्रिया ॥ ९४ ॥ जडखरूपा जेडजातजन्मना जिताः स्मितेनैव विधोरपि श्रियः । निजाननेन श्रुतिशालिनाऽमुना मनागून साम्यं द्विजराज राजते ॥ ९५ ॥ मुखे सुधांशौ च वरे सरोरुहे कलातुला स्याद् द्विजराजयोगतः । १ प्रशस्तम् । २ 'जडजातजन्मना' इति करणतृतीया । ३ द्विजराजाः = दन्ताः, पक्षे सुधांशुर्द्विजराज एव, तृतीयपक्षे द्विजराजः कलहंसः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy