SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २३ प्रथमः सर्गः । प्रपद्य विद्या अनधीतवानपि दधत् कुलीनाः सकलाः कलाः प्रभुः । सखा रतीशस्य ऋतुर्यथा वनं विवेश पित्रोर्हदयाब्जमात्मजः ॥ ७६ ॥ विभोः स्वभावेन विभाविभावसौ प्रसृत्वरे दुस्तमसो विजित्वरे । विपक्षपक्षस्त्वरया ययौ वनं वपुस्तथाऽऽलिङ्गदथास्य यौवनम् ॥ ७७ ॥ अधारि पद्मेषु, तदंहिणा घृणा ततः श्रियाः स्थानपरिश्रमोऽप्यतः । स्वयं तदीयश्रियमेव बिभ्रता न्यवारि वारिस्थितिजाड्यमप्यदः ॥७८॥ श्रिया करग्राहविधेरिवाश्रयेत् न्य १ श्रतः कारणात्, श्रियाः स्थानेन यः परिश्रमः खेदः, वारि=निषिद्धः | २स्वयं स्वस्मिन्, वारिस्थितिजाढ्यं=वारिमध्ये स्थित्या जडत्वं वा=अथवाऽरिमध्ये स्थितावपि जडत्वं स्यात्, अपि अदः न्यवारि, भगवश्चरणे वारिस्थितिजाज्यं नाभूत् । ३ श्रिया = लक्ष्म्या सह करग्राहविधेरिव, श्रीरपि करे गृहीता; करेण राजभागधेयेन गृहीता वा ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy