SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४२ शान्तिनाथचरित्रे रिरंमुहंसीकलनादसादरम् । सुवर्णवर्ण जिनवर्णने कृते बिडौजसा क्षोभायतुं मनोऽर्हतः ॥२२॥ पुरः किरन्तं विकरं वसूत्करं समौक्तिकं मौक्तिकयुक्तमैक्षत । स तत्र चित्रं विचरन्तमन्तिके ___ मनागपि क्षुब्धमना हि नाऽभवत् ॥२३॥ तपस्यतस्तस्य विवन्दिषामिषात् __ स्वरागतः स्निग्धमनास्त्वरागतः । स देवदेवस्य निषेवणापरं ___ हिरण्मयं हंसमबोधि नैषेधः ॥२४॥ प्रियासु बालासु रतक्षमासु च ललन्तमेतं चरणानुरागिणम् । विसिष्मिये वीक्ष्य नृपो विरुद्धता निवारिता द्वन्द्वबलेऽर्हतेत्यसौ ॥२५॥ - १ समम्-अनुकूलं मृष्टम् औक्तिकं वाक्यं यस्य स तम् । २नैषधः-पूर्व चक्रित्वे चमूपतिः । ३ प्रियाललनं चरणानुरागित्वं चेति विरुद्धता निवारिता ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy