Book Title: Panchastikay
Author(s): Kundkundacharya, Shreelal Jain Vyakaranshastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
पंचास्तिकाय प्राभृत
२७ (१) ऊर्ध्व-अधो-मध्य तीनलोकके उत्पाद-व्यय-ध्रौव्यवाले भाव-जो कि तीनलोकके विशेषस्वरूप हैं-भवते हुए ( परिणमित होते हुए ) अपने मूल पदार्थों का गुणपर्याययुक्त अस्तित्व सिद्ध करते हैं।
(२) पुनश्च, धर्म, अधर्म और आकाश-यह प्रत्येक पदार्थ ऊर्ध्व-अधो-मध्य ऐसे लोकके ( तीन ) विभागरूप से परिणमित होनेसे उनके कायत्व नामका सावयवपना है ऐसा अनुमान किया जा सकता है । प्रत्येक जीवके भी ऊर्ध्व-अधो-मध्य ऐसे तीन लोकके ( तीन ) विभागरूपसे परिणमित लोकपूरण अवस्थारूप व्यक्तिकी शक्तिका सदैव सद्भाव होने से जीवों को भी कायत्व नामका साक्यवपना है ऐसा अनुमान किया ही जा सकता है पुगल भी ऊर्ध्वअधो—मध्य ऐसे लोक के ( तीन ) विभागरूप परिणमित लोकपूरण अवस्थारूप व्यक्तिकी शक्तिका सदैव सद्भाव होनेसे जीवोंकों भी कायत्व नामका सावयवपना है ऐसा अनुमान किया ही जासकता है पुद्गल भी ऊर्ध्व-अधो—मध्य ऐसे लोक के ( तीन ) विभागरूप परिणत महास्कन्धपनेकी प्राप्तिकी व्यक्तिवाले अथवा शक्तिवाले होनेसे उन्हें भी वैसी ( कायत्व नामकी) सावयवपनेकी सिद्धि ही है ।।५।।
संस्कृत तात्पर्यवृत्ति गाथा-५ . अथ पूर्वोक्तमस्तित्वं कायत्वं च केन प्रकारेण संभवतीति प्रज्ञापयति,—जेसि अस्थिसहाओ गुणेहिं सह पज्जयेहि विविहेहिं ते होति अस्थि-येषां पंचास्तिकायानामस्तित्वं विद्यते । स कः । स्वभावः सत्ता अस्तित्वं तन्मयत्वं स्वरूपमिति यावत् । कैः सह । गुणपर्यायैः । कथंभूतैः । विचित्रै नाप्रकारैस्ते अस्ति भवन्ति इत्यनेन पंचानामस्तित्वमुक्तमिति वार्तिकं । तथा कथ्यतेअन्वयिनो गुणाः व्यतिरेकिणः पर्यायाः, अथवा सहभुवो गुणाः, क्रमवर्तिनः पर्यायास्ते च द्रव्यात्सकाशात् संज्ञालक्षणप्रयोजनादिभेदेन भित्राः प्रदेशरूपेण सत्तारूपेण वा चाभिन्नाः । पुनरपि कथंभूताः विचित्रा नानाप्रकाराः । केन कृत्वा । स्वेन स्वभावविभावरूपेणार्थव्यंजनपर्यायरूपेण वा । जीवस्य तावत्कथ्यन्ते । केवलज्ञानादय: स्वभावगुणा मतिज्ञानादयो विभावगुणाः, सिद्धरूप: स्वभावपर्याय:, नरनारकादिरूपा विभावपर्यायाः । पुद्गलस्य कथ्यन्ते। शुद्धपरमाणौ वर्णादयः स्वभावगुणा: द्वयणुकादिस्कन्दे वर्णादयो विभावगुणाः, शुद्धपरमाणुरूपेणावस्थानं स्वभावद्रव्यपर्याय: वर्णादिभ्यो वर्णान्तरादिपरिणमनं स्वभावगुणपर्याय: 'द्वयणुकादिस्कन्दरूपेण परिणमनं विभावद्रव्यपर्यायाः तेष्वेव व्यणुकादिस्कन्धेषु वर्णान्तरादिपरिणमनं विभावगुणपर्यायाः। एते जीवपुद्गलयोर्विशेषगुणाः कथिताः । सामान्यगुणाः पुनरस्तित्त्ववस्तुत्वप्रमेयत्त्वागुरुलघुत्वादयः सर्वद्रव्यसाधारणा: । धर्मादीनां विशेषगुणपर्याया: अग्रे यथास्थानेषु कथ्यन्ते । इत्थंभूतगुणपर्यायैः सह येषां पञ्चास्तिकायानामस्तित्वं विद्यते तेस्ति भवन्तीति । इदानी कायत्वं चोच्यते । काया: काया इव काया बहुप्रदेशप्रचयत्वाच्छरोरवत्। किंकृतं तैः पंचास्तिकायै: "णिप्पण्णं जेहिं तेल्लोकं.'' निष्पन्नं यैः पंचास्तिकायैः । किं निष्पन्नं । त्रैलोक्यं । अनेनापि गाथाचतुर्थपादेनास्तित्वं