________________
३८ ]
सेतुबन्धम्
[ प्रथम
तथा । मन्दरोऽप्युत्पाटनसमये क्षोभितभूवलय: स्वभावादेव सेनाकारस्थितकपिविलुलितवनाभोगो जलप्रवेशसमये क्षुभितसमुद्राभिमुखश्चेति साम्यम् ||४१ ।।
विमला - श्रीरामचन्द्रजी भूमण्डल को क्षुब्ध करते हुए तथा कपिसैन्य के द्वारा वनमण्डल को अव्यवस्थित करते हुए, समुद्रमथन के उपक्रम में मन्दराचल के समान, क्षुब्ध (१ - अशान्त, २ - भयभीत ) समुद्र की ओर मुँह किये चल पड़े ॥ ४६ ॥
अथ वानरबलसञ्चारमाह
चलिभं च वाणरवलं चलिए तन्मि चलकेसर सडुज्जोग्रम् । गहिनदिसापरिणाहं मऊहजालं व दिण रस्स फुरन्तम् ||५०|| [ चलितं च वानरबलं चलिते तस्मिंश्चलके सरसटोयोतम् । गृहीतदिक्परिणाहं मयूखजालमिव दिनकरस्य स्फुरत् ॥ ]
तस्मिन्रामे चलिते वानरबलं च चलितम् । कीदृक् । चलानां चञ्चलानां केसरसटानामुद्दघोतो यत्र । सूर्यकिरणसंबन्धादिति भाव । एवम् गृहीता आक्रान्ता दिशा परिणाहा येन तत्तथा । एवम् स्फुरणमुत्साहावस्था तद्वत् । किमिव । दिनकरस्य मयूखजालमिव । तदपि सकलदिग्व्यापि स्फुरत्सच्चलति । तथा च यथा दिनकरकिरणानामुदयतामेव शैघ्रयात्सकल दिग्व्यापकत्वं तथा कपीनां 'प्रस्थितानामेव तदासीदिति भावः । अत्र यद्यपि केसरशब्दस्यैव स्कन्धवालवाचकत्वमिति सटेत्यधिकं तथापि करिबृंहितादिपदवत्सार्थकत्वम् । वस्तुतस्तु किंचित्ताम्रत्वप्रतिपादनाय केसरवत्किञ्जल्क वत्सटेति व्युत्पत्तिमभिप्रेत्योक्तमिति सारम् ||५०॥
विमला - श्रीराम जी के चल पड़ने पर उनके पीछे, चञ्चल एवं केसर के समान किञ्चित् ताम्रवर्ण सटा (कन्धे के बाल ) की कान्ति वाला सकल दिग्व्यापी कपिल, केसर-सटा के समान चञ्चल प्रकाश वाले सूर्य के किरणजाल के समान चल पड़ा || ५० ॥
अथ कपीनां वृद्धिमाह -
वेरारणिपज्जलिश्रो तो सो रोसपवणाहउद्धश्रमुहलो । वड्ढइ मग्गाणुगम्रो लङ्कावणराहवणवन कइलोनों ॥ ५१ ॥ [ वैरारणिप्रज्वलितस्ततः स रोषपवनाहतोद्धतमुखरः । वर्धते मार्गानुगतो लङ्कावनराजिवनदवः कपिलोकः ॥ ]
ततः स कपिलोको वर्धते । स्वं स्वमाकारं गृहीतवानित्यर्थः । कीदृक् । मार्गों रामस्य पश्चात्तमनुगतः । मार्गशब्दः पश्चादर्थे निपातितः । पुनः कीदृक् । लङ्केव बनराजिस्तस्या वनदवः कपिशत्वा दाहकत्वादिति रूपकम् । एवं वैरमेवारणिर्यज्ञकाष्ठं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org