Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 20
________________ टिप्पनक - परागविवृतिसंवलिता । ८ यत इदमनेक चम्पकाशोकतिलकतालीतमालमा लितकूलमुत्तालकन काम्भोजशोभिभिरम्भोजिनीवनैर्दिव्य मिति बालिशैरपि व्यज्यमानमुचितेन क्रमेण परिणाहिनि क्षोणिधर शिखरपृष्ठे प्रतिष्ठापितमपारपरिसरं सरः । इमान्यतिसुन्दराणि लवलीलता सदनानि पूगगहनानि नागवल्लीपत्र मण्डपकतलकुट्टिमानि च तीरदेशेऽस्य दर्शितानि [ ऌ ] | असावत्र निर्यत्नचारुणि रत्नवालुका सैकते सञ्चरन्ती पादचारेण सहचरीवृन्दपरिवृता राजनीतिरिव यथोचित - मवस्थापितवर्णसमुदाया दिनकरप्रभेव प्रकाशितव्यक्तनिम्नोन्नतविभागा रथाङ्गमूर्तिरिव रुचिरावर्तनाभिः सम्यगभिलिखिता शिखा मणिरखिलस्यापि रमणीचक्रस्य चक्रवर्तिकन्यका [ ऌ ] | एतानि चास्याः परिवारलोकेन प्रचलता पुरस्तरलितानि त्रासाद् विहायस्युड्डीयमानान्युड्डीनानि च साक्षात् सचेतनानीव प्रकाशितानि पक्षिमृगमिथुनानि । सेवाचाटुचतुरश्च निपुणमवस्थापितोऽयमस्याः स्थानस्थानेषु निकटवर्ती प्रवृत्तो निजनिजव्यापारेषु रुचिरवेषो वारयोषिज्जनः, तथाहि - असावुपरि धृतसितातपत्रा गगन मध्यारूढहिमकरेव पौर्णमासी टिप्पनकम् - राजनीतिरिवावस्थापित वर्णसमुदाया एकत्र व्यवस्थापित ब्राह्मणादिसंघातः, अन्यत्र रोपित नीलादिवर्णसमुदाया, दिनकरप्रभेव प्रकाशितव्यक्तनिम्नोन्नतविभागा प्रकटितस्पष्टनीचोच्चप्रदेशा, समानं विशेषणम् [ऌ ] | अस्यां चित्रकलायां, यदि ते तव, उपदेष्टा तच्छिक्षकः, गुरुजनः स्यादिति शेषः, तर्हि स अल्पमेव किञ्चिदेव, तत्साधनमिति शेषः, यतः यस्मात्, अनेक चम्पकाशोक-ताली - तमालमालितम् अनेकेषाम्-बहूनां चम्पकादितमालान्तपुष्पद्रुमाणां माला-पङ्क्तिः संजाता यस्मिंस्तादृशम् ; पुनः उत्तालकनकाम्भोजशोभिभिः उन्नतसुवर्णकमलशोभिभिः, अम्भोजिनीवनैः कमलिनीवनैः, दिव्यं मनोहरम्, इति इत्थं, बालिशैरपि मूर्खेरपि व्यज्यमानं स्फुटं प्रतीयमानम्, पुनः उचितेन योग्येन, क्रमेण परिपाठ्या, परिणाहिनि विस्तारिणि, क्षोणिधर शिखरपृष्ठे पर्वतशिखरोपरि, प्रतिष्ठा - पितं सन्निवेशितम्, अपारपरिसरम् अनन्तप्रान्तप्रदेशम्, इदं सरः कासारः । पुनः अतिसुन्दराणि अतिमनोहराणि, इमानि प्रत्यक्षाणि, लवलीलतासदनानि लवलीलतागृहाः, पुनः पूगगहनानि क्रमुकवनानि च पुनः, नागवल्लीपत्रमण्डपकतल कुट्टिमानि नागवल्लीपत्राणां ताम्बूलपत्राणां, ये मण्डपका :- हवा मण्डपाः - गृहविशेषाः, तेषां तलकुट्टि मानि-अधस्तनबद्धभूमयः अस्य सरसः, तीरदेशे तटप्रदेशे, दर्शितानि चित्रितानि [ ऌ ] । पुनः निर्यत्तचारुणि स्वभावसुन्दरे, अत्र अस्मिन् चित्रे, रत्नवालुका सैकते रत्नसिकतामयप्रदेशे, पादचारेण पादगल्या, सञ्चरन्ती विचरन्ती, पुनः, सहचरीवृन्दपरिवृता सखी समूहपरिवेष्टिता, पुनः राजनीतिरिच राज्ञः, नीतिः - प्रजासंग्रहपद्धतिः, सेव यथोचितं यथायोग्यम्, अवस्थापितवर्ण समुदाया सन्निवेशित नीलपीतादिरूपसमूहा, पक्षे सन्निवेशितब्राह्मणक्षत्रियादिवर्णसमूहा, पुनः दिनकरप्रभेव सूर्यप्रभव, प्रकाशितव्यक्तनिम्नोन्नतविभागा प्रकाशितौ- प्रकटितौ, व्यक्तौ- स्फुटयै, निनोन्नतविभागौ - नीचोच्चावयवौ यस्याः, पक्षे नीचोच्चप्रदेशौ यया तादृशी, पुनः रथाङ्गमूर्तिरिव चक्राकृतिरिव, रुचिरावर्तनाभिः रुचिरा - मनोहरा, आवर्तरूपा जलभ्रमाकारा, नाभिः - प्राण्यङ्गविशेषः, पक्षे चक्रावयवविशेषश्च यस्यास्तादृशी, अखिलस्यापि समस्तस्यापि रमणी चक्रस्य सुन्दरीगणस्य, शिखामणिः शिरोमणिभूता, असौ चक्रवर्तिकन्यका अखण्ड भूमण्डलेश्वरकुमारिका, सम्यक् सुष्ठु अभिलिखिता चित्रिता [ ] । च पुनः, प्रचलता प्रगच्छता, अस्याः कन्यकायाः, परिवारलोकेन परिवारजनेन, पुरः अग्रे, तरलितानि चञ्चलितानि, त्रासात् भयात्, विहायसि आकाशे, उड्डीयमानानि उत्पतन्ति, च पुनः, उड्डीनानि कतिचिदुत्पतितानि, एतानि, पक्षिमृगमिथुनानि पक्षिहरिणदम्पतयः, साक्षात् प्रत्यक्ष, सचेतनानीव चैतन्यवन्तीव, प्रकाशितानि दर्शितानि । च पुनः अस्याः कन्यकायाः, सेवाचादुचतुरः सेवायै यच्चाटु-प्रियोक्तिः, तच्चतुरः - तन्निपुणः, पुनः निकटवर्ती समीपस्थः, निजनिजव्यापारेषु खखकार्येषु, प्रवृत्तः संलमः, रुचिरवेषः उज्ज्वलवेषः, अयं प्रत्यक्षभूतः, वारयोषिजनः वेश्याजनः, स्थानस्थानेषु तत्तत्स्थानेषु, निपुणं स्फुटम् अवस्थापितः सन्निवेशितः; तथाहि एतदेवाह, यद्वा हि यतः, तथा तदनुसारम् उपरि तत्कन्यको परि, 3 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202